________________ 228 प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् / राज्यं ? किं वाऽन्यसम्बन्धि, गृहीतं बलवत्तया // 42 // विमर्शेनोदितं वत्स ! नानयोः क्रमपूर्वकम् / परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् // 43 // यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा / संसारिजीव इत्येवं, मया पूर्व निवेदितः // 44 // तस्यैषा भुज्यते सर्वा, चित्तवृत्तिर्महाटवी / वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः // 45 // प्रकर्षणोक्तं-कियान् कालो गृहीताया, वर्तते माम ! मे वद / विमर्शः प्राहनैवादि, जानेहमपि तत्त्वतः॥४६॥ तदेष परमार्थस्ते, कथ्यते वत्स ! साम्प्रतम् / निःशेषं प्रलयं याति, येन तावकसंशयः // 47 // स कर्मपरिणामाख्यो, दानोदालनतत्परः / प्रणताशेषसामन्तकिरीटच्छुरितांहिकः // 48 // प्रभावमात्रसंसिद्धकार्यविस्तारसुस्थितः / राजाधिराजः सर्वत्र, निविष्टो विष्टराधिपः ॥४९॥युग्मम्॥ अयं पुनमहामोहस्तत्सैन्यपरिपालकः / तद्दत्तमन्त्रसैन्यश्च, तत्कोशपरिवर्धकः // 50 // . तदादेशकरो नित्यं, तथापि गुरुपौरुषः / नूनं तं पालयत्येष, राजकार्ये यथेच्छया // 51 // तेनैष लौकिकी वाचो युक्तिमाश्रित्य पण्डितैः / महासननिविष्टोऽपि, ऊों राजा निगद्यते // 52 // नानयोभिद्यते तात ! तस्माद्भेदः परस्परम् / यस्मादेकमिदं राज्यमेतत्तुभ्यं निवेदितम् // 53 // . प्रकर्षः प्राह मे माम ! विनष्टः संशयोऽधुना। अथवा त्वयि पार्श्वस्थे, कुतःसन्देहसम्भवः ? // 54 // तदेवंविधसज्जल्पकल्पनाऽपगतश्रमौ / तौ विलङ्घय दिनैर्मार्ग, भवचक्रे परागतौ // 55 // इतश्च परिपाटथैव, शिशिरो लड्डितस्तदा / संप्राप्तश्च जनोन्मादी, वसन्तो मन्मथप्रियः // 56 // स ताभ्यां नगरासन्ने, भ्रमन्नुद्दामलीलया / वसन्तकाननेपूच्चैः, कीदृशः प्रविलोकितः ? // 17 // यदुत-नृत्यन्निव दक्षिणपवनक्शोद्वेल्लमानकोमललताबाहुदण्डर्गायन्निव मनोज्ञविहङ्गकलकलकलवसन्ततुवर्णनं विरुतैर्महाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकि लाकुलकोलाहलकण्ठकूजितैस्तर्जयन्निव विलसमानवरचूतैकलिकातर्जनीभिराकारयन्निव रक्ताशोककिसलयदलललिततरलकरविलसितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गैहसन्निव नवविकसितकुसुमनिकराट्टहासै रुदन्निव त्रुटितवृन्तबन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठग्निव शुकसारिकास्फुटाक्षरोल्लापजल्पितेन सोत्कण्ठक इव माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुल झणझणायितनिर्भरतया ।अपि चइति नर्तनरोदनगानपरः, पवने रितपुष्पजधूलिधरः / स वसन्तऋतुर्ग्रहरूपकरः, कलितो नगरोपवनान्तचरः // 1 // ततो विमर्शनाभिहितः प्रकर्षों यथा वत्स ! काले तव भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपलभ्यते, तथाहि-पश्यामिषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरिकलोकाना याऽवस्था वर्तते-- सन्तानकवनेषु परिमुह्यति धावति बकुलवृक्षके / विकसितमाधवीषु धृतिमेति विलुभ्यति सिन्दुवारके // पाटलपल्लवेषु न च तृप्यति नूनमशोकपादपे / चूतवनेषु याति चन्दनतरुगहनमथावगाहते // 1 // इति मधुमासविकासिते रमणीयतरे द्विरेफमालिकेव / एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने // 2 //