________________ 217 अस्या एव तनुश्लेषवक्रचुम्बनलालसः / कमनीयाकृतिः सोऽयं, कतमो माम ! भूपतिः ? // 339 / / चतुर्भिः कलापकम् / विमर्शः प्राह नन्वेष, महाश्चर्यविधायकः / उद्दामपौरुषो लोके, प्रसिद्धो मकरध्वजः // 340 // यद्येषोऽदभुतकर्तव्यो,, भवता नावधारितः / न किञ्चिदपि विज्ञातं, भद्राद्यापि ततस्त्वया // 341 // यो भद्र ! श्रूयते लोके, परमेष्ठी पितामहः / सोऽनेन कारितो गौरीविवाहे बालविप्लवम् // 342 // स एव चाप्सरोनृत्तरूपविक्षिप्तमानसः / अनेनैव कृतो भद्र ?, पञ्चवक्रधरः किल // 343 // यो लोके जगतो व्यापी, श्रूयते किल केशवः / अनेन कारितः सोऽपि, गोपीनां पादवन्दनम् // 344 // अन्यच्च भद्र ! सोऽनेन, सुप्रसिद्धो महेश्वरः / दापितोऽध शरीरस्य, गौर्यै विरहकातरः // 345 // उल्लासितबृहल्लिङ्गः, स एव सुरकानने / तद्भार्याक्षोभणे रक्तस्तथाऽनेन विनाटितः // 346 // उत्पाद्य सुरते तृष्णां, स एवानेन धारितः / दिव्यं वर्षसहस्रं भो, रतस्थ इति गीयते // 347 // अन्येऽपि बहवो लोके, मुनयो देवदानवाः / वशीकृत्य कृताः सर्वे, भद्रानेनात्मकिङ्कराः // 348 // कोऽस्य लवयितुं शक्तो, नूनमाज्ञां जगत्त्रये ? / आत्मभूतं महावीर्य, यस्येदं पुरुषत्रयम् // 349 // अयं हि प्रथमो भद्र ! पुरुषोऽनघपौरुषः / नाम्ना विज्ञाततद्वीर्यैः, पुंवेद इति गीयते // 350 // अमुष्य तात ! वीर्येण, वहिरङ्गा मनुष्यकाः। पारदार्ये प्रवर्तन्ते, जायन्ते कुलदूषणाः // 351 // द्वितीयः पुरुषो ह्येष, स्त्रीवेद इति सूरिभिः। व्यावणितो महातेजा, व्यालुप्तभुवनोदरः // 352 // अस्य धाम्ना तु नस्तात ! योपितो विगतत्रपाः। विलय कुलमर्यादां, रज्यन्ते परपुरुषे // 353 // तृतीयः पुरुषो भद्र ! पण्डवेद इति स्मृतः। येन दन्दह्यते लोको, बहिरङ्गः स्वतेजसा // 354 // आलप्यालमिदं तावदस्य वीर्यविचेष्टितम् / अनिवेद्यं जने येन, विगुप्यन्ते नपुंसकाः // 355 // एतन्नरत्रयं भद्र ! पुरस्कृत्य प्रवर्तते / अविज्ञातबलोऽन्येषां, नूनमेष जगत्त्रये // 356 // या त्वेषा पद्मपत्राक्षी, रूपसौन्दर्यमन्दिरम् / अस्यैव वल्लभा भार्या, रतिरेषाऽभिधीयते // 357 // येऽनेन निर्जिता लोका, नरवीर्यपुरःसरम् / तेषामेषा प्रकृत्यैव, सुखबुद्धिविधायिका // 358 // तथाहि-अस्या वीर्येण भो लोका, दुःखिताः परमार्थतः। तथापि तेऽदो मन्यन्ते, मकरध्वजनिर्जिताः // 359 // यदुत-आहादजनकोऽस्मभ्यं, हितोऽयं मकरध्वजः। प्रतिकूलाः पुनर्येऽस्य, कुतस्तेषां सुखोद्भवः?॥३६०॥ ततो रत्याऽनया भद्र ! ते वशीकृतमानसाः / जाता निर्मिथ्यभावेन, मकरध्वजकिङ्कराः॥३६१॥ तदादेशेन कुर्वन्ति, हास्यस्थानं विवेकिनाम् / आत्मनः सततं मूढा, नानारूपं विडम्बनम् // 362 // कथम्?--रचयन्त्यात्मनो वेषं, योषितां चित्तरञ्जनम् / आचरन्ति च मोहेन देहे भूषणविभ्रमम् // 363 / / तुष्यन्ति कामिनीलोललोचनाविलोकिताः / वहन्ति हृदये प्रीति, तदालापैमनोरमैः // 364 // भ्रमन्ति विकटैः पादेरुन्नामितशिरोधराः / रामाकटाक्षविक्षिप्ताः, सुभगा इति गर्विताः // 365 // कुलटादृष्टिमार्गेषु तच्चित्ताक्षेपलम्पटाः / निष्क्रीडयन्ति मोहान्धा, दन्तकान् कारणं विना // 366 // इतस्ततः प्रधावन्ति, दर्शयन्ति पराक्रमम् / तासां मनोऽनुकूलं हि ते किं किं यन्न कुर्वते ? // 367 // कुर्वन्ति चाटुकर्माणि, भाषन्ते किङ्करा इव / पतन्ति पादयोस्तासां, जायन्ते कर्मकारकाः॥३६८॥ सहन्ते योषितां पादप्रहारान्मस्तकेन ते / मन्यमाना निजे चित्ते, मोहतस्तदनुग्रहम् // 369 // आस्वाध मद्यगण्डूषं, योषावक्त्रसमर्पितम् / श्लेष्मोन्मिश्रं च मन्यन्ते, स्वर्गादभ्यधिकं सुखम् // 370 // ये नरा वीर्यभूयिष्ठा, ललनाभिः स्वलीलया। भ्रक्षेपेणैव कार्यन्ते, तेऽशुचेरपि मर्दनम् // 371 // तत्सङ्गमार्थ दह्यन्ते, सुरतेषु न तोषिणः। दूयन्ते विरहे तासां, म्रियन्ते शोकविह्वलाः // 372 //