________________ तदनेनापि रूपेण, मिथ्यादर्शनसंस्कृतम् / इदं विजृम्भते भद्र ! विपर्यासाख्यमासनम् // 272 // अन्यच्च-प्रशमानन्दरूपेषु, सारेषु नियमादिषु / वशेनास्य भवेद्भद्र ! दुःखबुद्भिर्जडात्मनाम् // 273 // गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् / भोगेषु मुखबुद्धिः स्यादासनस्यास्य तेजसा // 274 // तथैष भुवनख्यातः, प्रधानोऽत्र महाबलः / बहिरङ्गजनस्योच्चैः, सर्वानर्थविधायकः // 275 // मया भद्र ! समासेन, मिथ्यादर्शनना कः / महामोहनरेन्द्रस्य, कथितस्ते महत्तमः // 276 // ततः प्रकर्षोऽदुष्टात्मा, श्रुत्वा मातुलभाषितम् / उत्क्षिप्य दक्षिणं पाणिं, तं प्रतीदमभाषत // 277 // चारु चारु कृतं माम ! यदेष कथितस्त्वया / या त्वेषाऽर्धासनेऽस्यैव, सा किंनाम्नी वराङ्गना // 278 // विमर्शोऽवददेषाऽपि, समानबलसाहसा / अस्यैव भार्या विज्ञेया, कुदृष्टि म विश्रुता // 279 // ये दृश्यन्ते विमार्गस्था, बहिरङ्गजने सदा / भद्र ! पापण्डिनः केचित्तेषामेव कारणम् // 280 // ते चामी नामभिर्भद्र ! वर्ण्यमाना मया स्फुटम् / ज्ञेया देवादिभेदेन, विभिन्नाश्च परस्परम् // 281 // तद्यथा-शाक्यावैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा / सामानिकाः सामपरा, वेदधर्माश्च धार्मिकाः॥२८२॥ आजीविकास्तथा शुद्धा, विद्युदन्ताश्च चुच्चुणाः। माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुखुकाः // 283 // उल्काः पाशुपताः कौलाः, काणादाश्चर्मखण्डिकाः। सयोगिनस्तथोलूका, गोदेहा यज्ञतापसाः॥२८४॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिगम्बराः। कामर्दकाः कालमुखाः, पाणिलेहास्त्रिराशिकाः // 285 // कापालिकाः क्रियावादा गोव्रता मृगचारिणः। लोकायताः शङ्खधमाः, सिद्धवादाः कुलंतपाः // 286 // / तापसा गिरिरोहाच, शुचयो राजपिण्डकाः। संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे // 287 // अज्ञानवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः / कुमारव्रतिकाश्चान्ये, शरीररिपवस्तथा // 288 // उत्कन्दाश्चक्रवालाच, पवो हस्तितापसाः। चित्तदेवा बिलावासास्तथा मैथुनचारिणः // 289 // अम्बरा असिधाराश्च, तथा माठरपुत्रकाः। चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः // 290 // एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः / उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः // 291 // कियन्तो वाऽत्र गण्यन्ते ? नानाभिप्रायसंस्थिताः / पाषण्डिनो भवन्त्येते, भो ! नानाविधनामकाः // 292 // देवैदैिस्तथा वेषैः, कल्पैर्मोक्षविशुद्धिभिः / वृत्तिभिश्च भवन्त्येते, भिन्नरूपाः परस्परम् // 293 // तथाहि-रुद्रेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः / निजाकूतवशादेतैरिष्टा देवाः पृथक् पृथक // 294 // ईश्वरो नियतिः कर्म, स्वभावः काल एव वा। जगत्कर्तेति वादोऽयं, सर्वेषां भिन्नरूपकः // 295 / / त्रिदण्डकुण्डिकामुण्डवल्कचीवरभेदतः / वेषः परस्परं भिन्नः, स्फुट एवोपलक्ष्यते // 296 // कल्पोऽपि भक्ष्याभक्ष्यादिलक्षणःस्वधिया किल। अन्योऽन्य भिन्न एवैषां, तीथिनां भद्र ! वर्तते // 297 // विध्यातदीपरूपाभः, सुखदुःखविवर्जितः / एषां पापण्डिनां भद्र ! मोक्षो भिन्नः परस्परम् // 298 // निजाकूतवशेनैव, विशुद्धिरपि तीथिकैः / अमीभिर्भद्र ! सत्त्वानां, भिन्नरूपा निवेदिता / / 299 // कन्दमूलफलाहाराः, केचिद्धान्याशिनोऽपरे। वृत्तितोऽपि विभिद्यन्ते, ततस्ते भद्र ! तीथिकाः // 30 // एवं च स्थिते-अमी वराकाः सर्वेऽपि, दोलायन्ते भवोदधौ / अस्याः कुदृष्टेर्वीर्येणे, शुद्धधर्मबहिष्कृताः // 301 // तत्त्वमार्गमजानन्तो, विवदन्ते परस्परम् / स्वाग्रहं नैव मुश्चन्ति, रुष्यन्ति हितभाषिणे // 302 // तदेषा भुवनख्याता, मिथ्यादर्शनवत्सला / कुदृष्टिविलसत्येव, बहिरङ्गजनाहिता // 303 // यस्त्वेष विष्टरे तुङ्गे, निविष्टः प्रविलोक्यते / प्रसिद्ध एव भद्रस्य, स नृनं रागकेसरी // 304 //