________________ 209 स मिथ्याभिनिवेशाख्ये, स्थितो विस्तीर्णविष्टरे / कर्माख्यपरिवारेण, रचितानि ततोऽग्रतः // 67 // मनोहराणि चित्राणि, लब्धास्वादो विशेषतः / प्रमादवृन्दभोज्यानि, सुन्दरत्वेन मन्यते // 68 // युग्मम् // प्रमत्ततामहानद्याः, पुलिनं पद्मलोचने ! / तत्तद्विलसितं विद्धि, वृत्तान्तस्यास्य कारणम् // 69 // ततो यथाऽनलेशेन, भक्षितेन तनुज्वरः / वायुस्पर्शादिभिश्वोच्चैवर्धितस्तस्य दारुणः // 70 // लक्षितश्च सुवैद्येन, वारितश्च सुभोजनात् / न चासौ बुध्यते किंचिद्भोजनाक्षिप्तमानसः // 7 // जीवस्यापि तथा भद्रे ! कर्माजीर्णोद्भवो ज्वरः / प्रमादात्तेन वर्धेत, तथैवाज्ञानवायुना // 72 // लक्षयन्ति च तं वृद्ध, धर्माचार्या महाधियः। समयज्ञमहावैद्या, वारयन्ति च देहिनम् / / 73 // चतुर्भिः कलापकम् / कथम् ?-अनादिभवकान्तारे, भ्रान्त्वा भद्रातिसुन्दरम् / अवाप्य मानुषं जन्म, महाराज्यमिवातुलम् // 74 // कर्माजीर्णज्वराक्रान्तं. प्रमादमधनाऽपि भोः! मा सेवस्व महामोहसन्निपातस्य कारणम // 75 // कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणाम / चित्तज्वरविघाताय, जैनी भद्र ! प्रतिक्रियाम // 7 // स तु प्रमादभोज्येषु, क्षिप्तचित्तो न बुध्यते / तत्तादृशं गुरोर्वाक्य, पापो जीवः प्रपश्चितम् // 77 / / ततश्च-उन्मत्त इव मत्त इव, ग्राहग्रस्त इवातुरः / गाढसुप्त इवोद्भ्रान्तो, विपरीतं विचेष्टते // 78 // स एष भद्रे ! सर्वोऽपि, चित्तविक्षेपमण्डपः / महानदीकूलसंस्थो, जीवस्यास्य विजृम्भते // 79 / / यथा च राजपुत्रेण, भोजनं चारुलोचने ! / अगच्छदपि कण्ठेन, गमितं लौल्यदोषतः // 8 // तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने / जीवस्यापि विजानीहि, समानमिदमञ्जसा // 8 // तथाहि-कर्माजीर्णज्वरग्रस्तः, सदा विहलमानसः / जराजीर्णतनुक्षामो, रोगार्दितशरीरकः // 82 // सर्वेषामक्षमो भोगे, भोगानामेष वर्तते / तथापि जायते नास्य, स्तोकाऽपि :विरतौ मतिः।।८३॥ ततश्च गाढलौल्येन, तथाभूतोऽपि सेवते / प्रमादवृन्दभोज्यानि वार्यमाणो विवेकिभिः॥८४॥ 'शतप्राप्तौ सहस्रच्छा, सहखे लक्षरोचनम् / लक्षे कोटिगता बुद्धिः, कोटौ राज्यस्य वाञ्छनम् // 85 // राज्ये देवत्ववाञ्छाऽस्य, देवत्वे शक्रतामतिः। शक्रत्वेऽपि गतस्यास्य, नेच्छापूर्तिः कथश्चन।।८६॥ सुपुत्रैर्वरयोषाभिः, सर्वकामैर्मुहुर्मुहुः / नास्याभिलाषविच्छित्तिः, कोटिशोऽपि निषेवितैः।।८७॥ संगृह्णाति ततो मूढः, सर्वार्थान् सुखकाम्यया। ते तु दुःखाय जायन्ते, सज्वरस्येव भोजनम् // 8 // जलज्वलनदायादचौरराजादिभिस्तथा / तस्यार्थभोजनस्योच्चैबलाद्वान्तिर्विधाप्यते // 89 // हृत्कलमलकं घोरं, वम्यमानः सहत्ययम् / आराटीर्मुश्चति प्राज्याः कृपाहेतुर्विवेकिनाम् // 90 // तदेषा चारुसर्वाङ्गि ! चित्तविक्षेपमण्डपे / जीवस्य विलसत्युच्चैस्तृष्णानाम्नी सुवेदिका॥९१॥ यत्पुनश्चिन्तयत्येवं, तदा वेल्लहलः किलः / वाताक्रान्तं शरीरं मे, ततोऽभूद्वमनं मम // 92 // एतच्च रिक्तकोष्ठत्वाद्वायुनाऽभिभविष्यते / अतः संप्रीणयामीदं, भुजे भूयोऽपि भोजनम् // 93 // जीवोऽपि चिन्तयत्येव. तदिदं तारवीक्षणे!। पापज्वरवशाच्चैन विभवसञ्चये // 14 // मृतेषु च कलत्रेषु पुत्रेषु स्वजनेषु च / अन्येषु च विनष्टेषु, चित्ताबन्धेषु मन्यते॥९५॥ न मया चेष्टितं नीत्या, न कृतं चारु पौरुषम् / नाश्रितो वा वरस्वामी, न कृता वा प्रतिक्रिया॥९६॥ तेनेदं मम सर्वस्वं, पत्नी वा चारुदर्शना / पुत्रा वा बान्धवा वापि, विनष्टाः पश्यतोपि मे // 97 // न चैषां विरहे नूनं, वर्तेऽहं क्षणमप्यतः / उपार्जयामि भूयोऽपि, तान्येवोत्साहयोगतः॥९८॥ उपार्जितानि सन्नीत्या, रक्षिष्यामि प्रयत्नतः। अजागलस्तनस्येव, जीवितव्यं वृथाऽन्यथा // 99 // सर्वनस्य विजानीहि, तदिदं सुभ्रु! भावतः / जीवस्यास्य विपर्यासनामविष्टरचेष्टितम् // 100 //