________________ विपर्याससिहा पन अविद्यागाप्रयष्टिः 204 एतत्सिहासनं भद्र !, विपर्यासाख्यमुच्यते / अस्यैव विधिना नूनं, महामोहस्य कल्पितम् // 47 // यदिदं लोकविख्यातं राज्यं याश्च विभूतयः / तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् // 48 // यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् / इदं तावदहं मन्ये, राज्यमेताश्च भूतयः॥४९॥ यतः-अस्मिभिविष्टो राजाऽयं, महासिंहासने सदा। सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः // 50 // यदा पुनरयं राजा, भवेदस्मादहिः स्थितः / सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः // 51 // एतद्धि विष्टरे भद्र ! बहिरङ्गजनैः सदा / आलोकितं करोत्येव, रौद्रानर्थपरम्पराम् // 52 // यतः तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्दरबुद्धयः। यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न पातिता // 53 // निबदृष्टयः सन्तः, पुनरत्र महासने / ते पापिनो भवन्त्युच्चैः, कुतः सुन्दरबुद्धयः ? // 54 // किच-यन्नधास्तत पलीनस्य, मण्डपस्य च वर्णितम / वेदिकायाश्च तद्वीर्य, सर्वमत्र प्रतिप्रितम // 55 // तदिदं गुणतो भद्र ! कथितं तव विष्टरम् / महामोहनरेन्द्रस्य, निबोध गुणगौरवम् / / 56 // जराजीर्णकपोलापि, यैषा भुवनविश्रुता / अमुष्येयमविद्याख्या, गात्रयष्टिरुदाहृता // 57 // एषाऽत्र संस्थिता भद्र ! सकलेऽपि जगत्त्रये / यत्करोति स्ववीर्येण, तदाकर्णय साम्प्रतम् / / 58 // अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्धताम् / दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् // 59 // पुद्गलस्कन्धरूपेषु, शरीरादिषु वस्तुषु / लोकानां दर्शयत्येषा, ममकारपरायणा // 60 // युग्मम् / ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुषु / आत्मरूपमजानन्तः, क्लिश्यन्तेऽनर्थकं जनाः॥६१॥ तदेनां धारयन्नुच्चैर्गात्रयष्टिं महाबलः / जराजीर्णोऽपि नैवायं, मुच्यते निजतेजसा // 62 // अयं हि भद्र ! राजेन्द्रो, जगदुत्पत्तिकारकः / तेनैव गीयते प्राज्ञैर्महामोहपितामहः॥६३॥ ये रुद्रोपेन्द्रनागेन्द्रचन्द्रविद्याधरादयः। तेऽप्यस्य भद्र ! नैवाज्ञां, लयन्ति कदाचन // 64 // तथाहि-योऽयं स्ववीर्यदण्डेन, जगच्चक्रं कुलालवत् / विभ्रम्य घटयत्येव, कार्यभाण्डानि लीलया // 65 // तथास्याचिन्त्यवीर्यस्य, महामोहस्य भूपतेः / को नाम भद्र ! लोकेऽस्मिन्नाज्ञां लङ्गयितुं क्षमः ? // 66 // तदेष गुणतो भद्र ! वर्णितस्ते नराधिपः। अधुना परिवारोऽस्य, वर्ण्यते तं विचिन्तय // 67 // केवलं कथयत्येवं, मयि भद्र ! विशेषतः। केनाप्याकूतदोषेण, न त्वं पृच्छसि किश्चन // 68 // हुकारमपि नो दत्से, भावितश्च न लक्ष्यसे / शिरःकम्पनखस्फोटविरहेण विभाव्यसे // 69 / / निश्चलाक्षो मदीयं तु, केवलं मुखमीक्षसे / तदिदं नैव जानेऽहं, बुध्यसे किं न बुध्यसे // 70 // प्रकर्षः प्राह मा मैवं, माम ! वोचः प्रसादतः / तवाहं नास्ति तल्लोके, यन्न बुध्ये परिस्फुटम् / / 71 // विमर्शः प्राह जानामि, बुध्यसे त्वं परिस्फुटम् / अयं तु विहितो भद्र ! परिहासस्त्वया सह // 72 // यतः-विज्ञातपरमार्थेऽपि, बालबोधनकाम्यया / परिहासं करोत्येव, प्रसिद्धं पण्डितो जनः // 73 // बालो विनोदनीयश्च, मादृशां भद्र ! वर्तसे / अतो मत्परिहासेन, न कोपं गन्तुमर्हसि // 74 // अन्यच्च जानताऽपीदमस्माकं हर्षवृद्धये / त्वया प्रश्नोऽपि कर्तव्यः, कचित्प्रस्तुतवस्तुनि // 75 // किंच-अविचार्य मया साधं, वस्तुतत्त्वं यथास्थितम् / त्वमत्र श्रुतमात्रेण, भद्र ! न ज्ञातुमर्हसि // 76 // ऐदम्पर्यमतस्तात ! बोद्धव्यं यत्नतस्त्वया / अज्ञातपरमार्थस्य, मा भूद्भौतकथानिका // 77 // प्रकर्षः प्राह-माम ! कथय कीद्दशी पुनः सा भौतकथानिका ?, विमर्शेनाभिहितं-भद्र ! समाकर्णय / अस्ति कचिनगरे जन्मबधिरः सदाशिवो नाम भौताचार्यः, स च जराजीर्णकपोलः सन्नुपहासपरेण हस्तसंज्ञयाऽभिहितः केनचिद्धृर्तबटुना यथा भट्टारक ! किलैवं नीतिशास्त्रेषु पठ्यते यदुत मौतकथानिका