________________ पुण्यपाल-कथा B000000000000000000000000000000000 श्रौदार्यसत्त्वधैर्यादि-मनोहरगुणान्वितः। भूपपत्रो वरोऽनों जायते स्यात् तदा वरम् // 50 // ध्यात्वेति भूपतिः पूर्या बहिः पीठं मणीमयम् / कारयित्वा प्रगे तत्रो-पवेशयति नन्दिनीम् // 51 // भूपो वक्ष्य(क्तो)ति योऽत्रास्ति सात्विको मानवो नृपः / गृह्णातु मत्सुताहस्ता-द्वरमालां स एव तु / / 52 / / ततः पत्रोमहं तस्मै दास्ये ग्रामायुतान्विताम् / अष्टौ च कुञ्जरान् वर्यान् अयुतं च तुरङ्गमान् // 53 // यो भूयो भूपपत्रो वा नरो वाऽन्यो विशारदः / स समायातु सृग्माला लातु कन्यामिमां द्रुतम् // 54 // तदाशु दहनज्वाला कन्यायाः परितो घना / परिखावद्भवन्त्येवं यमजिह्वासहोदरा // 55 // तेन विभ्यन्न को मत्यः कन्याहसस्थितां सृजम् / लातुमभ्येति तत् कन्या विद्यते सा कुमारिका // 56 // श्रुत्वेति पुण्य पालः क्षमा-पालः सारपरिच्छदः / ययौ कुन्दपुरे कन्यां वरीतु तां शुभेऽहनि ||57 // अनेकभूमिपालेषु मिलितेषु कनीकृते / पण्यपालोऽवलम्ब्यव साहसं कन्यकान्तिके // 58 // ययौ यावत्तदाऽकस्माद्वबिज्वाला महत्यपि / पुण्यपालकरस्पर्शाजगाम शान्तिमञ्जसा॥५६॥युग्मम्॥ ततो नृपः प्रजापालो नन्दा स्वां नन्दिनीं तदा / प्रददौ पुण्यपालाय वरोत्सवपुरस्सरम् // 60 // नानाभरणवस्त्रादि-भूषिता नृपनन्दिनी / तदा देवकुमारीव शोभते वररूपभृत् // 61 / / स्नानं कर्णवतंसिका च कबरी पुष्पान्विता साञ्जनं, नेत्रं गात्रविभूषणं सुतिलकं ताम्बूलमेवालकम् / वासस्चन्दनलेप कञ्चुकमथो लीलासरोजं लसद्दन्तामा नखशुक्त्यलक्तरचना शृङ्गारकाः षोडश // 62 // प्रजापालाङ्गजां नन्दां परिणीय सदुत्सवम् / लब्धग्रामशतः पुण्य-पालः स्वपरमीयिवान् // 63 // ततो दशसु वर्षेषु नन्दाऽसूत सुतं वरम् / पिता सूनोईदौ नाम रामा रुचिरोत्सवम् / / 64 // वर्षाष्टमितः पुत्रो रामो यावदजायत / तावत्तस्य तनौ कुष्ठ निन्द्यमासीत् कुकर्मतः // 65 // अनेकेषूपचारेषु कृतेषु तनुजन्मनः / नाभूधदा गुणो देहे तदा दुःखी नृपोऽभवत् // 66 / / इतस्तत्र पुरे पण्य-धर्मः श्रावकपङ्गवः / वन्दमानो जिनान् ग्रामे ग्रामे नन्तु समागमत् / 67 / / पूजयित्वाऽहतो देव-गृहेषु श्रावकः स च / राज्ञो गेहे ययौ देव-देवं पूजयितु क्रमात् // 68 / / अर्चयित्वा जिनं श्राद्धः पप्रच्छेति महीपतिम् / तवाऽऽस्यं वीक्ष्यते श्यामं किमिदानी नरेश्वर ! // 66 // राजाऽवग् मम पुत्रस्य कुष्ठ तीव्र समागतम् / औषधै हुभि व गतं दुःखं ततो मम ||70 // यत-अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः सह / अप्रियः संप्रयोगश्च सर्व पापविजम्भितम् // 71 / / पुण्यधर्मो जगौ राजन् ! सुराष्ट्राविषये वरे / अस्ति शत्रुञ्जयोपान्ते नदी शत्रुञ्जया वरा // 72 / / तस्या नीरेण नाभेयाहतः स्नात्रं विधाय च / निजाङ्ग स्नपयामास स स्याद् दिव्यतनुर्नरः // 73 / / श्रुत्वेति भूधरो भूरि-संघलोकसमन्वितः / पत्रं नीत्वा ययौ शत्र-जये यात्राकृते लघु // 74 // शत्रुञ्जयापयो नीत्वा कृत्वा स्नात्रं प्रभोनृपः / तन्नीरेण सुतस्याङ्ग-मभ्यपिञ्चत भावतः / / 7 / / तदा कुष्ठ गतं देहात् सूनोभूमीभुजोऽचिरात् / ततो राजा विशेषेण जिनभक्ति व्यधान्मुदा / / 76 / / राजा स्फारं जिनागारं शत्रुञ्ज पनदीतटे / कारयित्वाऽऽदिदेवस्य बिम्ब न्यबीविशन्मुदा // 77 / / एक कैलासशैलानु-कारि सर्वज्ञमन्दिरम् / कारयित्वा नृपः शान्ति प्रतिमामस्थापयत्तदा 78| पुण्यपालः स्वपुत्राय राज्यं दत्त्वा सदुत्सवम् / गृहीत्वा संयमं चक्रे तपो मुक्तिसुखप्रदम् / / 76 / /