________________ चन्द्रवेगजिनस्य शत्रुञ्ज यागमनसम्बन्धः मणिरूप्पकणयपडिमं जत्थ रिसहचेइ भरहविहि। सदुवीसजिणाययणं सो विमलगिरी जयउ तित्थं // 1 // व्याख्या- यत्र तीर्थे शत्रुञ्जयाख्ये 'ऋषभचैत्यं नाभेयचैत्यं काञ्चनमयं भरतेन स्फारं कारितं, तस्य परितो हेममयानि द्वाविंशतिः जिनायतनानि-जिनालयानि देवकुलिकाः कारितानि, तत्र मुख्यप्रासादे मणिमयी श्रीऋषभजिनप्रतिमा पुण्डरीकातिमा च कारिते, अन्येषु जिनगृहेषु नेमिनाथवर्जिता अजितादि-वीरजिन-पर्यन्ता मणिरूप्यकनकप्रतिमाः स्थापिताः, स विमलगिरिः पर्वतो जयतात्तीर्थम् // अत्र विमलवाहनादि-कुलकर ,श्रीऋषभजिनजन्म, युगलधर्मनिवारणं,राज्यादिस्थापना, नन्दा-सुमङ्गलापत्नीद्वयपाणीग्रहः, शतपुत्रपुत्रीद्वय भवनं, भरतादिपुत्रराज्यार्पणं, यमग्रहणं, केवलज्ञानप्राप्ति यावत् श्रीऋषभचरित्राद् वाच्यम्अयोध्यावहिरुद्याने विहरन्नादितीर्थकृत् / भूरिकोटियतिस्वर्गि-सेवितः समवासरत् // 1 // तत्रादिमजिनाधीश-समीपे श्रोतुमागमम् / भरतश्चक्रिराट् सार-परिवारः समागमत् / / 2 / / धर्मोपदेशोऽत्र-"धम्मिड्ढी भोगिड्ढी पाविड्ढी इय तिहा भवे इड्ढी / सा धम्मिड्ढी भन्नइ जा दिजइ धम्मकज्जेसु // 3 // सा भोगिड्ढी गिजइ सरीरभोगम्मि जीइ उवोगो / जा दागभोगरहिया सा पाविड़ढी अणत्थफला // 4 // पाविड्ढी पाविजइ फलेण पावस्स पुव्वविहिअस्स / पावेण पाविणा वा इत्यत्थे सुणह दिट्ठता // 5 // धर्मोपदेशमाकर्ण्य चक्रयाचष्ट जिनं प्रति / भगवस्तीर्थ मुत्कृष्ट विद्यते किं महीतले ? // 6 // प्रभुः प्राह भवत्पुत्रः पुण्डरीको गणाधिपः / यत्र तुङ्ग गिरौ मुक्तिं गमी भूरिसुसाधुयुग् // 7 / / तत्र तुङ्गाभिधे शैले कल्याणसुखदायके / अतीतानागते काले वत्त माने जिनाधिपाः / / 8 / / केचिद्ययुर्गमिष्यन्ति निवृति समवासरन् / संसरिष्यन्ति केचिच्च ज्ञानिनः माधवः पुनः ।।६।युग्मम् / इतश्चतुश्चतुर्विंशतिकायां जिननायकः / चन्द्रवेगो ययौ मुक्ति भूरिसाधुसमन्वितः // 10 // कल्याणनगरे चन्द्र-भूपतेः पनाऽभवत प्रिया / चन्द्रचूडः सुतश्चारु-गुणमाणिक्यसद्म च // 11 // पृष्टो राज्ञाऽन्यदा धर्म-घोपमूरीश्वर स्त्विति / भगवन् ! कानि रत्नानि वर्याणि सन्ति भूतले // 12 / / गुरुराचष्ट रत्नानि द्रव्यभावविभेदतः / द्वेधा सन्ति नृप ! ह्यत्र परत्र सुखदानतः // 13 // द्रव्यरत्नानि पाषाण-मयानि भूरिशो भुवि / विद्यन्ते पुनराप्यन्ते धर्मादेव नरेश्वर ! // 14 // तानि न ददते स्वर्गा-पवर्गशर्म कर्हि चित् / ज्ञानदर्शनचारित्रा-णि रत्नानि तु सन्ततम् / / 15 / / य एतानि नरो भक्त्या ऽऽराधयत्यनिशं ध्रुवम् / स एव लभते मुक्ति स्वर्गशर्म न संशयः / / 16 / / तदा सम्यक्त्वमादाय गुरूपान्ते महीपतिः / चकार जिननाथोक्त धर्म जीवदयामयम् // 17' / पद्माऽन्यदा सुखं सुप्ता महास्वप्नान् चतुर्दश / समालोक्य जजागार मध्यरात्रे शुभे क्षणे // 18 / क्रमात्पुत्रं प्रसूते स्म शुभवेलासु सुन्दरम् / श्रादाविन्द्रो व्यधाजन्मो-त्सवं निर्जरपर्वते // 16 // प्रातर्जन्मोत्सवं चक्रे पिता सूनोमहत्तमम् / ततो नाम ददौ चन्द्र-वेगेति स्वजनान्वितः / / 20 / / चन्द्रवेगः क्रमात् प्राप्त-यौवनो मेदिनीभुजा / भूपानां भूरिशः कन्याः सोत्सवं परिणायितः // 21 //