________________ 74 __ शत्रुञ्जय-कल्पवृत्ती .0000000000 200abadap000000000000000000000000000000000000000000000001 000000000000000000000000000 श्रेष्ठयन्यदा सुतद्वन्द्व-युक्तो ज्ञान्यन्तिके गतः / धर्म श्रुत्वाऽऽह पुत्राभ्यां प्राग्भवे किं कृतं वृषम् ? // 111 / / गुरुराह रमापुर्यां श्रीदस्य श्रीष्ठिनो गृहे / भीमसोमाभिधौ भृत्यौ गेहे कर्म वितन्वतः // 112 // श्रेष्ठो देवगृहे देव-मान प्रवरैः सुमैः / अर्जयामास भूयिष्ठ पुण्यं मुक्तिगमोचितम् // 113 / / श्रीदः श्रेष्ठयन्यदा चन्द्रसूनोः पाणिग्रहोत्सवे / कारयामास पक्वान्न-मुखां रसवतीं वराम् // 114 // मध्याह्न श्रेष्ठिनस्तस्य गृहे संयतयामलम् / विहतु मागमद्याव-तावच्चन्द्रो व्यचिन्तयत् // 11 // अद्य मे जायमानेऽस्मि-न्नुद्वाहे सदने पितुः / मोदकादिकरोचिष्णु-र्जाता रसवती वरा // 116 // यद्येतयोर्लसत्साध्वो-र्दीयतेऽन्न च किश्चन / तदा मे जायते वयं जनुश्च पाणिपीडनम् // 117 // यतः-"पश्चादत्तं परैर्दत्त लभ्यते वा न लभ्यते / स्वहस्तेन च यदत्त लभ्यते तन्न संशयः // 118 // " निर्भाग्यविभवैवस्तु सप्तक्षेत्र्यां न लभ्यते। यत्र पात्रादयोप्युप्ताः फलं यच्छंति वाञ्छितम् // 11 // ध्यात्वेति चन्द्र उत्थाय स्थालं मोदकपूरितम् / प्रवृत्तो ददितु साधु-युग्मं गृह्णाति तन्न हि // 120 // बलेन मोदकान् पञ्च चन्द्रः साध्वोर्वितीर्णवान् / विशुद्धमन्यमन्नं च पानं च वरभावतः / / 121 // तदाऽऽहायतनः साधु-रत्रैयुः सोमसूरयः / परिवारो बहुस्तेषां विद्यते चन्द्र ! सम्प्रति // 122 // यस्य कल्पिष्यते साधो-र्मोदकादि विशुद्धिभाग़ / दास्यते च मया तस्मै पुण्यं तव भविष्यति // 123 // तदा तत्र स्थितो भीमो भृत्यो दृष्ट्वा व्यचिन्तयत् / मोदकादि ददौ चन्द्रः साधोरेष वरस्ततः॥१२४।। मोदकाद्यस्ति मे चेद्धि तदा दास्येऽहमप्यहो ? / किं कुर्वे किं करोम्यत्र श्रेष्ठिनः तुच्छपुण्यवान् // 125 // यतः-यदुपातमन्यजन्मनि शुभमशुभं वा स्वकर्मपरिणत्या। तच्छक्यमन्यथा नैव कत्तु देवासुरैरपि // 126 / / उइयंमि सहस्सकरे सलोअणो पिच्छइ सयललो / जन्न उलूओ पिच्छइ सहस्सकिरणस्त को दोसो?॥१२७।। एवं भावयतः शुद्धां भावनां तस्य तत्र तु / पुण्यं बभूव कल्याण-नगरीगमनोचितम् / 128 / / श्रेष्ठिना शिक्षितः सोमः प्रवरैः कुसुमैः प्रभोः / शरीरेऽङ्गों तथा चक्र यथाऽन्येषां वभूव मुद् / / 126 // क्रमात् सोमो मृतो जातो गुणराजः सुतस्तव / मृत्वा भीमोऽभवद्वत्स-राजेत्याहोऽङ्गजोऽपरः // 130 // जिनाङ्गीकरणात् प्राप नामरूपकरी कलाम् / गुणराजः सुतस्ताव-कीनोऽयमिह संसृतौ // 131 / / चन्द्रदत्त सुपात्राय दानं भीमोऽनुमोदयन् / वत्सराजः प्रगे प्राप दीनारशतपञ्चकम् // 132 / / चन्द्रो मृत्वा कलापुर्यां पञ्चमोदकदानतः / पञ्चकोटीसुवर्णस्या-भवदिभ्योऽधिपो धनः // 133 // तस्मादानावनो मुक्ति गन्ता पञ्चमके भवे / तव सूनो वे पष्ठे मोक्षो भावीति चिन्तय // 134 / / पुण्यक्रिया न मोक्तव्या दुष्कर्मक्षयहेतवे / पापे सति यतो मुक्ति-नैव जायेत देहिनाम् // 135 // श्र त्वेति पुत्रयोः पूर्व भवं निष्पादितं वृषम् / श्रीदः पुत्रयुतो धर्म ललौ सम्यक्त्वसंयुतम् // 136 // मातृपितृयुतौ धर्म-माहेत तौ सहोदरौ / कुर्वाणौ चक्रतुयोत्रां सिद्धक्षेत्रादिषु क्रमात् // 137 // श्रीदः पत्नीयुतो लात्वा संयमं गुरुसन्निधौ / पालयस्त्रिदिवं षष्ठं जगामामलमानसः // 138 / / पूजादानप्रभावेण श्रीदश्रेष्ठितनूभवौ / ततश्च्युतो शिवं स्तोक-भवान्मुक्तिमिहैयतुः॥१३६।। इत्यादि-देशनां श्रुत्वा श्रीपार्श्व जिनसन्निधौ / वहवो भविनो भेजः श्राद्ध-साधुव्रते तदा // 140 // तत्र श्रीपाच नाथस्य शिष्याः शतत्रयं क्रमात् / प्राप्य ज्ञानं ययुमुक्ति स्वस्यायुषः क्षये लघु // 141 // * इति पार्श्वनाथस्य शत्रुञ्जयागमनस्वरूपम् *