________________ - सहस्रकमले परि वीरभूपकथा 27 चतुर्थेऽह्नि शतं पञ्च-साधून षष्ठे यतीन् दश / सप्तमेऽष्टौ शतान्यष्ट-विंशतिः पड् दिनेऽष्टमे // 6 // एवं दिने दिने मुक्तिं यातोऽसङ्खययतींस्तदा / दृष्ट्वा स्वयम्प्रभो देवो जगादेवं नृणां पुरः // 10 // असङ्ख्यस्त्रीनृणां मुक्ति-गमनादस्य भूभृतः / नगाधिराज एपोऽस्तु पर्वतः सुकृतास्पदम् // 11 // ततोऽन्दैमनुजैर्देव-भू पर्वाचंय मैरपि / नगाधिराजनामाप-मिति घुष्ट तदाऽभितः // 12 // * इति नगाधिराजोपरि निर्जरकथा* // अथ सहस्रकमलोपरि वीर भूपकथा / / मेलयित्वा बहु सङ्घ गत्वा शत्रुञ्जयाऽचले / रणवीरो ददौ नाम सहस्रकमलाभिधम् // 1 // कल्याणकोटिनगरे कल्याणधरणीपतिः / कल्याणिन्यभिधा पत्नी शीलभूषणशालिनी // 2 // रणवीराभिधः पुत्रो रणनिर्जितशात्रवः / विनीतोऽभूद् भृशं माता-पित्रोः सेवनतत्परः // 3 // निर्गच्छन्नन्यदा पुर्या बहिः शण्डद्वयं दृढम् / मिथो युध्यन्तमैच्योर्वी-पतिर्दध्याविदं हृदि // 4 // इदं शण्डद्वयं पीनं जीविष्यति चिरं ननु / तेन केलिकृते स्वीय-सदने स्थाप्यते मया // 5 // गत्वोद्याने समागच्छन् पश्चाच्छण्डद्वयं मृतम् / दृष्ट्वा महीपतिर्दध्यो संसारासारतामिति // 6 // आयुर्धारितरङ्गभङ्ग रतरं श्रीस्तूलतुल्यस्थितिः, तारुण्यं करिकर्णचञ्चलतरं स्वप्नोपमाः सङ्गमाः / यद्वान्यद् रमणीमणीप्रभृतिकं वस्त्वस्ति तच्चास्थिरं, विज्ञायेति विधीयतामसुमता धर्मः सदा शाश्वतः / / 7 / / इत्यानित्यतां ध्यायन् गत्वोद्याने महीपतिः / स्वयम्प्रभगुरूपान्ते प्रत्रज्यामग्रहील्लघु // 8 // तदाऽभ्येत्य पितुः पार्थे रणवीरो जगाविति / तात ! राज्यमिदं कस्या-धारे सम्प्रति वर्तते // 6 // अहमप्यस्मि ताताऽद्य कस्याधारेऽधुना वद / त्वां विना निखिलं राज्यं विनश्यति न संशयः॥१०॥ राजाऽऽचष्ट न मेऽसि त्वं नाहं तव कदाचन / एकोऽस्म्यहं निराधारो निष्पुण्यो नन्दनोत्तम!॥११॥ निषिद्ध इति तातेन रणवीरो नृपाङ्गजः / तत्पदृस्थापितो मन्त्रि-सामन्तैल सदुत्सवम् // 12 // रणवीरोऽन्यदा धर्म-मूरिपार्श्वे गतो वने / धर्मोपदेशमश्रोषी-देवं कृताञ्जलिस्तदा // 13 // प्रासाद-प्रतिमा-यात्रा प्रतिष्ठादिप्रभावना / अमायु दोषणादीनि महापुण्यानि गेहिनाम् // 14 // श्रुत्वेति देशनां सम्यग् रणवीरमहीपतिः / शत्रुञ्जये जिनागार-मकारयन् महत्तमम् // 15 // सहस्रस्तम्भरोचिष्णौ तस्मिन् श्रीवृषभालये / अस्थापयद् युगादीश -बिम्ब रणमहीपतिः॥१६॥ तदा सहस्रसाधूनां ज्ञाने जातेऽव्यये क्षणात् / उपवेशाय शक्रो रै-मयान्यजानि संव्यधात् // 17 // तदा ज्ञानोत्सवं तेषां कृत्वा भूपो जगावदः / सहस्रकमलो ह्यष गिरिविजयतां चिरम् // 18 // रणवीरोऽपि पुत्रं स्वं राज्ये न्यस्य सदुत्सवम् / दीक्षां ललौ श्रुताचार्य-पार्वे बहु व्यधात्तपः // 16 // प्राप्य सूरिपदं कालाद् रणवीरो यतीश्वरः / भूरिसाधुयुतः शत्रु-जये तीर्थे समीयिवान् // 20 // प्राप्य तत्राव्ययं ज्ञानं साधुलक्षत्रयान्वितः / आयुःक्ष याद् ययौ मुक्तिं रणवीरयतीश्वरः // 21 // " इति सहस्रकमलोपरि-वीरभूपकथा