________________ 198 शत्रुञ्जय-कल्पवृत्ती न्नृपोऽदाच्च तस्यै भूषणसञ्चयम् // एकहस्तालये देवश्चतुर्हस्तः कथं ध्रुवम् / मातीत्यादे वचो युक्तेर्वद प्रत्युत्तरं प्निये ! // पत्नी प्राह चतुर्हस्तो देवोऽच्युतो निगद्यते / सप्तहस्तो जिनो वीरः पाश्र्वो नवशयः पुनः // इत्यादिरुचिरे प्रत्यु-त्तरे दत्ते तया तदा। राजा हृष्टो विशेषेण पत्नी ताममानयत् // अन्यदा तत्र माणिक्य-सूरीशाः समुपागताः / तदा भूपः स्वपत्न्यादियुक्त स्तान् वन्दितुं ययौ / / गुरुराह जिनेन्द्रोक्तो धर्मो यैः क्रियते मुदा / तेषां न दुर्लभानि स्युः सुखानि देहिनां किल // " चत्तारि परमंगोणि दुल्लहाणिह जंतुणो / माणुसत्तं सुई सद्धा संजमंमि य वीरियं // 1 // " स्पृष्ट्वा शत्रुञ्जयं तीर्थं नत्वा रैवतकाचलम् / स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते / / " एवं जम्मं सफलं सारं विहवस्स इत्तियं चेव / जं इच्छिज्जए गंतुं सित्तुंजे रिसहजिण नमिउं // 1 // " निष्कलङ्क कुलं वस्य जननी तस्य भाग्यभूः / करस्था तस्य लक्ष्मीः स्यात् सङ्घोऽभ्येति यदङ्गणम् / / तदा राजा जगी दूरे तीर्थ शत्रुञ्जयाह्वयम् / तेन गन्तुं न शक्यता-स्माभिरेव गुरूत्तम ! // तेन मे श्रोतुमिच्छाऽस्ति कल्पस्य सिद्धभूभृतः। ततो व्याख्यायते कल्पो गुरुभिभूपतेः पुरः / / श्रीशत्रुजयकल्पस्तु चतुर्यु मास्सु सन्ततम् / श्रुतो भूमिभुजा भूरि-परिवारजुषा स्फुटम् / / क्रमान्मृत्वा नृपः पद्म-पुरे पद्मस्य भूपतेः / पद्मसेनाभिधः पुत्रो बभूवाऽनघमानसः॥ तत्र शत्रुञ्जयस्यैव कल्पं शृण्वन् निरन्तरम् / अर्जयामास कल्याण-गमयोग्यं नरेन्द्रभूः // मृत्वाऽथ पद्मसेनः स चन्द्रपुर्यां लसद्दिवि / भीमभूमिपतेः पुत्रो जिनचन्द्रध्वजाभिधः // क्रमात्प्राप्य पितू राज्यं सर्वं सिद्धमहीधरे। गत्वा सङ्घयुतो नाभि-पुत्रादीनहतोऽनमत् / / तत्र तस्य महीशस्य शण्वतः प्रतिवोसरम्। शत्रुजयस्य माहात्म्यं युक्तिप्राप्तिरनु क्षणात् / / 52 / / इति श्रुतविषये कथा 'सरिए ' स्मरिते तीर्थे कथा हरिपूर्या धमक्षोणी-पतेः पञ्चाऽभवन् सुतोः / चन्द्रसूरहरिश्रीद-बलिंदमादयो वराः // क्रमाद् भूपेन पुत्रेभ्यश्चतुभ्यो राज्यसम्पदः / दातुकामोऽभवद्राजा पञ्चमस्य न कर्हिचित् / / पितुर तदा प्राह पञ्चमस्तनमस्त्विति / किं मे न देहि राज्यं तु किं मया ते विनाशितम् // राजाऽवक् ताह राज्यं तु कियत्कालं प्रदास्यते / बलिंदमो जगौ बिल्वं मया खे क्षिप्यते बलात् / / यावत्कालं तु बिल्वं तत् न समेति महीतले / तावत्कालं ददस्व त्वं मह्यं राज्यं पितुर्दुतम् / / ओमित्युक्ते तदा पित्रा मन्त्रयोगानरेशभूः / बिल्वं प्रक्षिप्यते बाढं स्थापयामास स दृढम् // प्रतिज्ञाप्रतिपन्नत्वात् तत्कलारजितो नृपः / राज्यं बलिंदमायाऽदात् नानोत्सवपुरम्सरम् // कुलं विश्वश्लाध्यं वपुरपगदं जोतिरमला, सुरूपं सौभाग्यं ललितललना भोग्यकमला / चिरायुः तारुण्यं बलमविकलं स्थानमतुलं, यदन्यच्च श्रेयो भवति भविनां धर्मत इदम् // 1 // " तदा बलिंदमः प्राप्त-राज्यः पितुः समीपतः / सोदरेभ्यः स्वकीयेभ्यो बह्रीं भूमि प्रदत्तवान् / बलिंदमः सदा सिद्ध-शैलमाहात्म्यमादरोत् / शुश्राव श्रीगुरूपान्ते नत्वा गुरुपदाम्बुजम् / / "छत्तं झयं पडागं चामरभिंगारण्हवणकलसा य / बलि थालं सित्तुंजे दितो विन्जाहरो होइ // 1 / / जो चडइ हु सित्तुंजे जे अडठमि चाउद्दसिं पण्णरसिं / दुण्ह वि पक्खाण फलं सो होइ परित्तसंसारी // 2 // नवकार पोरिसीए पुरिमड्ढेगासणे अ आयामं / पुंडरीयं सरंतो फलकंखी जिणइ भवतिहँ // 3 //