________________ श्रुतविषये कथा 197 ‘सुए' इति व्याख्यायते वर्द्धमाने पुरे चन्द्र-भूपो न्यायनिकेतनम् / अकारयत् पृथु स्वर्ग-विमानसोदरं वरम् // तस्याने चित्रशालां तु स्फारां चित्तचमत्करीम् / कारयित्वा ददौ चित्रकृतां चित्रयितुं नृपः // तेषां चित्रकृतां चित्रशालां चित्रयतां तदा / एकश्चित्रकरो वृद्ध-श्चित्रं चित्रयते पुनः // चित्रकृत्तनयो भक्तं दातुं याति पितुर्यदा / तदा पिता बहिभूभौ याति दध्यौ ततश्च सा // एष मे जनको मूखों यतो वेत्ति क्षणं न हि / यतो जेमनवेलायां हदितुं याति मे पिता // एवं ध्यात्वो चिरं स्थित्वा जनकं भोजयेत् स्वयम् / मुर्खशीघ्र. मणिस्नातो मदीयो पञ्च नियतं (?) / / द्वितीयेऽह्नि पुनर्यान्ती यदा राजपथे ययौ / तदैव राट्पथे ताक्ष्य खेलयन् भूधरोऽभवत् / / खेलयन्तं तथा ताक्ष्य भूपं दृष्ट्वा निजेच्छया / चित्रकृत्तनया दध्यौ मूर्ख एषोऽपि भूपतिः॥ घोटकस्य यदा घातात् पातितो मनुजः किल / मार्गयिष्यति नो नीरं जल्पिष्यति मनाग नहि / / यत :-" शकटं पञ्चहस्तेभ्यो दशहस्तेन वाजिनम् / हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम् // 1 // " चित्रयन्ति महीं यावत्-प्रमाणामष्ट चित्रकाः / तावन्मात्रां निरीक्ष्य स्व-पितुर्दध्यौ तदेति सा // एवं चित्रयितुं भूमिं ददन् चित्रकृतां किल / विद्यते नृपतिर्मुखो यतो न वेत्ति किश्चन / / अन्येशुश्चित्रकृत्पुत्री पितुश्चित्रक्षितौ रहः / आलिलेख मयूरं तु सत्पिच्छास्यांहिसुन्दरम् / / तच्चित्रं वीक्षितुं तत्र समेतो मेदिनीपतिः। लातुं पिच्छं क्षिपन् हस्तं न प्राप स्वशये च तम् // पुनर्नवैर्महीभूमी-शस्योत्खनयतस्तदा / नखा निपतिता राजा विलक्षोऽभूत्ततो भृशम् // हसन्ती चित्रकृत्पुत्री तदेत्याह भूपं प्रति / खट्वाया अधुना पाद-श्चतुर्थोऽजनि सुन्दर ! // ततो भूपी जगौ पादाः खट्वायाः के त्वयोदिताः। चित्रकृत्तनया प्राह पितको मेऽभवत्पदः // यतो जेमनवेलायां हदितुं याति मे पिता / त्वं खेलयन हरिं भूप-मार्गे हि द्वितयं व्यधाः // अष्टानां चित्रकर्तृणां पितुर्मे चित्रमन्दिरम् / समं ददन् नृपोभूस्त्वं तृतीयं चरणं खलु / / मया चित्रितमयूर-पिच्छानि लातुमञ्जसा / प्रक्षिपन् स्वं शयं चक्रे चतुर्थं चरणं व्यधाः // अतो महीपते ! जाता वीक्ष्यते साम्प्रतं खलु / तस्या एव च खट्वाया-श्चत्वारश्चरणा वराः // चित्रकृत्तनयां विज्ञां विज्ञाय मेदिनीपतिः। परिणीय ददौ सद्म तस्य स्थितिकृते वरम् / / भूपं रूजयितुं राज्ञी शिक्षयित्वा सखी निजाम् / आगते भूपतावेवं जल्पयामास कोविदम् // सख्याचष्ट सुरावासे एक हस्तमिते वरे / चतुर्हस्तसुरो माति कथं प्रत्युत्तरं वद ? / राज्ञी जगौ वदिष्यामि कल्ये प्रत्युत्तरं सखी / ततोऽभूचकितो राजा श्रोतुं तद्दारपार्वतः / / द्वितीयेऽपि दिने भूपे समेतेऽवक सखी पुनः। सप्तहस्तसुरो हस्तत्र ये माति कथं गृहे // चतुःहस्तः सुरो हस्त-त्रये माति कथं गृहे / दशचापः सुरो हस्तत्रये माति कथं गृहे / / एवं दिने दिने सख्या प्रोक्ते राज्ञो जगाविति / कल्ये प्रत्युत्तरं दास्ये तुभ्यं सखि ! न संशयः॥ इत्यादि जल्पने वर्ष यावद्भूपो निरन्तरम् / तस्याः पन्या गृहे भक्त्या समायातः प्रियान्तिके // तदाऽन्या, भूमिभुगपत्न्य-श्चित्रकृत्सूपरिग्रहे / ईर्षाकुर्वन्त्युर्वी शं प्रति प्रोचुरिति स्फुटम् / / चित्रकृत्तनया ह्येषा कार्मणं कुर्वती सदा / तस्थौ त्वमप्यधुना नीचा पत्नो ते विद्यते यतः / / तस्याः पन्याश्चरित्रं तु द्रष्टुं भूपो यदा ययौ / तदा सा कान्तसत्कानि भूषणादीनि वीक्षते // पितुः सत्कानि वाऽग्रे तु मण्डयित्वा जगाविति / एतानि कान्तसत्कानि पितुर्दत्तानि चात्मनः // युग्मम् // एवंविधां प्रतिष्ठां त्वं प्राप्ता पत्युः समीपतः / नीचा त्वया भवस्तात स्तवास्ति न रमा तदा // ज्ञात्वेति रुचिरां पत्नी सर्वपत्नीषु मुख्यतां / अलम्भय