________________ बागसम्मममिनसम्बन्धः पार्वतः / कुमारो दापयामास भूरि-सन्मानदानतः / / सूत्रधारो विधायाऽश्वान् दारुमियोमगामिनः / प्राभतीकुरुते नित्यं ततो हृष्यति भूपतिः // राज्यं वितीर्य पुत्राय वीरसूरीशसन्निधौ / लात्वा व्रतं तपस्तप्त्वा स्वर्गसातमवाप सः // ततः कुलध्वजो राज्यं कुर्वाणः सन्नयाऽध्वना / सुखिनीर्जनताबके श्रीराममेदिनीशवत् / / अन्यदा बहिरुद्याने ज्ञानिनं धर्मशेखरम् / श्रुत्वाऽऽयातं नृपः पत्नी-युतो वन्दितु. मीयिवान् // तिस्रः प्रदक्षिणा दत्त्वा गुरोर्नत्वा क्रमाम्बुजम् / धर्म श्रोतुमुपाविष्ट सूरीशाभिमुखाननः / / तथाहि-" इस्तो दानविधौ मनो जिनमते वाचः सदा सूनते, प्राणाः सर्वजनोपकारकरणे वित्तानि चैत्योत्सवे / येनैवं विनियोजितानि शतशो विश्वत्रयीमण्डनं, धन्यः कोऽपि स विष्टपैकतिलकं काले कलौ भावकः // 1 // " कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / इदं तीर्थं समासाद्य तिर्यञ्चोऽपि दिवं गताः // शत्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षयेत् / सागराणां सहस्र तु पूजास्नात्रविधानतः // कुलध्वजो जगौ पूर्व-भवे किं सुकृतंमया / कृतं येनाभवद्राज्यमीदृशं सुखदायकम् / / ज्ञानी प्राह रमापुर्या भीमदुःस्थोऽभवद् भवान् / तत्र त्वयाऽन्यदा दानं दत्त सुसाधवे मुदा / / तेन पुण्येन गत्वा त्वं स्वर्गे शङ्करभूपतेः। पुजो भूत्वा महद्राज्यं प्रापरत्वं मेदिनीपते ! // श्रुत्वेति भूपतिर्भूरि-सङ्घलोकसमन्वितः / ययौ शत्रुञ्जये देवान् नन्तुं चञ्चन्महोत्सवम् // तत्र सधेशकृत्यानि कृत्वा कुलध्वजो नृपः। प्रासादं कारयामासा. प्राऽहं बिम्ब न्यवीविशत् / / ततः कुलध्वजो भूपो गत्वा रैवतके गिरौ। प्रणम्य नेमिनाथं तु स्नात्रपूजापुरस्सरम् / / परिधाप्य गुरून् वस्त्रः श्रीसचं च वराम्बरैः / विससर्ज नृपः स्वस्व-पुरं प्रति वराशयः // क्रमात स्वसूनवे सोम-दत्ताय विनयात्मने / राज्यं वितीर्य जग्राह संयमं गुरुसन्निधो // प्रपठन्मागर्म शश्वत कुलध्वजो यतीश्वरः / विज्ञातसर्वशास्त्रार्थः क्रियासु कुशलोऽभवत् // शुद्धां साधुक्रियां कुर्वन् शास्त्राणि पाठयन् पठन् / कुलध्वजो व्यधान्ने प्रमादझणमेककम् / / यतः-"हयं नाणं कियाहाणं हया भन्माणओ किया। पासंतो पंगुलो दड्ढो धावमाणो य अंधओ।।१।। संयोगसिद्धीइ फलं वयंति नहि एगचकम रहो पयाइ / अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरे पविछा // 2 // " ततः सूरीश्वरपदं प्राप्य शत्रुञ्जयाचले / गत्वा ध्यानपगे भूरि-साधुयुक्तोऽभवद् भृशम् / / सम्प्राप्य केवलज्ञानं भूरिसाधुयुतः क्रमात् / शत्रुञ्जये ययौ मुक्तिं कुलध्वजयतीश्वरः // 119 // इति दाने शत्रुञ्जययात्रायां फले कुलध्वजकुमारकथा. इति असङ्ख्योद्धारविषये कथा समाप्ता - श्रीनाभेयान्वये चन्द्र चण्डो भूमिपतिर्नयी / चन्द्रप्रभास इत्याहू पुरं न्यवीविशद् वरम् // तेन राज्ञाऽन्यदा चन्द्र-कान्तरत्नमयं महत् / कारितं जिननाथौक-स्कैलासाचलसोदरम् / / चन्द्रचूडो नृपश्चन्द्रप्रभस्य प्रतिमाद्वयम् / कारयामास कल्याण-सूरिः प्रातिष्ठिपच्च तत् / / एकदा राक्षसद्वीपा-ल्लकापुर्यधिपो नपः / रविचढोऽचलदु देवा-नन्तुं व्योमगविद्यया / / वन्दमानोऽर्हतां मूर्ती-मे ग्रामे पुरे पुरे / चन्द्रप्रभासपुर्या स रविचूडः समीयिवान् // तत्र भूरिजिनाधीश-प्रासादेषु जिनान् बहून् / प्रणमन् ध्यातवाने बद्धिता बहवो जिनाः // रविचूडो ददौ देव-पत्तनं तस्य नाम तु / चन्द्रप्रभस्य बिम्बं हि विशेषादर्चयत्पुनः / /