________________ शत्रुञ्जय-कल्पवृत्ती हन्यतामेष शूलाप्रश्लेषतो द्रुतम् / / वधस्थाने तदा नीय-मानं तं रुचिराकृतिम् / दृष्ट्वा लोको जगावेष' हन्यले ऽयं मुधा नरः / / अस्यैव दीयते राज्ञा कन्या चेद् रुचिरं तदा / असौ च विद्यते कोऽपि महान् भूपोऽथवा खगः / / नरस्यास्य वियोगेन राजपुत्री प्रयास्यति / क्षयं निशाकरस्येव राका दर्शदिने यथा / / इत्यादिलोकवचनं शृण्वन् स भूपनन्दनः / मालिकोकोन्तिके गच्छन् प्रोह भूपानुगान् प्रति / / मालिकस्यास्य गेहस्य पार्वे मे कुलदेवता / विद्यते तां नमस्कुर्वे हन्तव्योऽहं ततो द्रुतम् / / ततो मुक्तस्तलारक्षर्गत्वा मालिकसद्मनि / काष्ठघोटकमारुढः स ययो गगनाङ्गणे / / ततो पश्यत्सु भूपादि-लोकेषु नपनन्दिनीम् / आरोग्य काष्ठतार्थे तां चचाल स नभोध्वना / / गत्वा समुद्रतीरे तु वर्यवृक्षविराजिते / उत्तीर्य तुरगात् सोऽपि सुष्वापाऽथ बुभुक्षितः / / बुभुक्षितं पति मत्वाऽधिरुह्य तं तुरङ्गमम् / पक्वान्नादि निजावासे लातुं मा कन्यका ययौ / / वातायने तया मुक्तोऽकस्मात स घोटकः पतन् / भग्नस्तथाविधं तं च दृष्ट्वा खिन्नाऽभवद् भृशम् // यतः-“अघटितर्घाटतानि घटयति सुघटितघटितानि जर्जरीकुरुते / विधिरेव तानि घटयति यानि पुमान् नैव विन्तयति // ततो भुवनसुन्दर्या दुःखिन्या चिन्तितं हृदि / पूर्वनिर्मितदुष्कर्म-योगादेतदजायत / वारिधी गमनं पत्युभग्नो मेदोरुवाजिनम् / सर्व कष्टा. वहं जातं मम भाग्यविपर्ययात् // दृष्ट एव मयो कान्ते भोक्तव्यं नान्यथा पुनः / इति कृत्वा प्रतिज्ञां तु तस्थौ सा नृपनन्दिनी // इतो जागरितो भूप-पुत्रोऽदृष्ट्वा प्रियां तदो। दध्यौ क गेहिनी याता हृता वा केनचिद् द्रुतम् / / अत्रान्तरे समायातां काश्चिद् विद्याधरी वराम् / दृष्ट्वा कुमार आचट भद्रे ! त्वमा गता कुतः / सो नारी प्राह वैताढये मणिविद्याभृतः प्रिया / अह जह्वेऽरिणा विद्या-धरेण दुष्टचेतसा / / ततो नष्टाऽहकं ताव-कीनोपान्ते समागमम् / त्वां दृष्ट्वा पीडिता काम-बाणेन हृदये दृढम् / / कुमारोंऽवक समा नार्यः सोदर्यः स्युः सदा मम / अतोऽन्यां वनितां देव-कन्यातुल्यां वृणोमि न || अलसा होई अकज्जे पाणिवहे पंगुला सया होइ / परतत्तीसु य बहिरा जच्चंधा परकलत्तेसु / यस्तु स्वदारसन्तोषी विषयेषु विरागवान् / गृहस्थोऽपि स्वशीलेन यतितुल्यः स कल्पते // ततस्तया तथा रोषान्मुक्ता विद्या च तं प्रति / यथा स मूञ्छितः क्षोण्या पपात शुष्कवृक्षवत् // ततः सचेतनीभूतं ते प्राहेति वशा दृढम् / यदि भोगसुखं दत्से मह्यं स्यात् ते तदा सुग्यम् // ततो बिमित्सरूपं सा कृत्वा हस्ते विधृत्य तम् / जगों मन्यस्व मे वाणी न चेन्मृतोऽसि साम्प्रतम् / / अजल्पन्तं कुमारं त-मुत्पाटय मकराकरे / यावद् चिक्षेप तावद्वार्दव्या हस्ते धृतः स च / / तुष्टाऽहं तव याचस्व वरं चित्तप्सितं नर ! / कुमारः प्रोक्तवान् पूर्व भार्यायोगं कुरुष्व मे // देव्योत्पाटय कुमारः स नीतः पत्न्यन्तिके द्रुतम् / जगी देवि ! कुरुष्व त्वं सज्जं मम तुरङ्गमम् // ततः सजीकृते तस्मिन्नश्वे दारुमये तदा / आरूढो गगने गच्छन् ययौ चन्द्रपुरे वरे // तत्र चन्द्रमहीशस्य पुत्री रूपवतीं वराम् / परिणिन्ये कुमारः स नानोत्सवपुरस्सरम् // इतः शङ्खनपः पूर्णेऽवधौ पुत्रे घनागते / अचालयद् वधायाथ सूत्रधारं निजानुगैः // रुष्टो राजा यमाभः स्यात् सर्वव्यापहारतः / तुष्टो धनदतुल्यः स्याद् भूरिलक्ष्मीप्रदानतः // शुलायां सूत्रधारं तु करवान्ता नृपानुगाः / यावरिक्षपन्ति सावच्च कुमारः समुपागमत् / / निष्काश्य सूत्रधारं तु शुलाया नृपनन्दनः / अभ्येत्यानीं पितुर्मातु-ननामाऽनघमानसः / / यतः-" ते पुत्रा ये पितुर्भक्ता स पिता यस्तु पोषकः / तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः // ततो राजा पुरीमध्ये कारयन् विविधोत्सवम् / जिनौकस्सु जिनेन्द्रार्चा चकाराङ्गजसंयुतः // तदा प्रामशतं सूत्र-धाराय नप.