________________ द्विप्रहररामकथा सेबकास्तेन रामेण चक्रिरे बराः / ततः सार्थपतिर्भूत्वा व्यवसायं व्यधात् स च // ततो रामश्चलन्नुजयिनीनगरीसन्निधौ / गत्वा तस्थौ यदा ताव-द्वस्तु लातुमगाज्जनः / / ज्ञापयित्वा पितुर्मातुः स्वागमं मिलितस्तदा / रामः स्वार्जितलक्ष्म्यादि-सम्प्राप्तिमूचिवान् स्फुटम् / / सूनोविभूतिमालोक्य मातृपित्रादयस्तदा / हृष्टा महोत्सवं चp-र्जिनपूजनपूर्वकम् // ततः स्नुषा मुदा भक्तिं स्वसुरादिपतेः सदा / कुर्वाणा विनयं चक्रे धर्मकर्म च सादरम् / / द्वियामावसरे रामो भक्तद्रव्याम्बरार्पणात् / अर्थिभ्यो विदधे स्वीय-नामसत्यं शुभोदयात् / / आदौ रामोऽभवदस्थः क्रमाद्धन्यभवत् स च / अतः शुभोदये लक्ष्मी-रलक्ष्मीरशुभोदये / / यतः- " आपदः सन्ति महतां महतामेव सम्पदः / इतराणां मनुष्याणां नाऽऽपदो नैव सम्पदः // 1 // " स्वोत्कर्षप्रकाशाय भवन्ति विपदः सताम / जायते गुणयोगाय वज्रवेधं मणेरिवः / / " चंदस्स खओ नहि तारयाण इड्ढीवि तस्स न हु तारयाणं / गुरुयाण चडणपडणं इयरजणा निच्च पडियावि // 1 // " अन्यदा श्रीगुरूपान्ते मातृपितृसमन्वितः / गत्वा धर्मं जिनेन्द्रोक्तं शुश्रावेति कृतादरम् // " पूजा जिणिंदे सुरुईवएसु जुत्तो अ सामाईअ-पोसहेसु / दाणं सुपत्ते सवणं सुतित्थे सुसाहुसेवा सिवलोयमग्गो / / 1 / / जिणाणं पूयजत्ताए साहणं पज्जवासणे। आवस्सयम्मि सज्झाए उज्जमेह दिने दिने // 2 // " धर्मसम्बलतः स्वर्गः श्वभ्रं पापंफलाद् भवेत् / सुखं दुःखं विदित्वा च यदिष्टं तत् समाचरेत् // धर्मात् सम्बलतो नदेवखचरव्यालेन्द्रसौख्यं भवे-दत्रामुत्र च चन्द्रनिर्मलयशः-पूजादिकं प्रत्यहम / पापेनैव च दुःखदुर्गतिभवं श्वभ्रादिकं दुःसहं, निन्दाकीर्तिगणं तदेव कुरुतां भ्रातर्यदिष्टं तव // धम॑ श्रुत्वेति रामस्तु पप्रच्छ भगवन् ! मया / किं कृतं सुकृतं येन दुःखमादौ ततः सुखम् / / गुरुराचष्ट कल्याण-पुरे भीमोऽभवद् वणिग् / दुःस्थो निजोदरं दुःखाद् बभार गेहिनीयुतः / / रोहणक्ष्माधरे रत्न-राशिलभ्येत मानवैः / श्रुत्वेति प्रययौ तत्र रत्नानां ग्रहणेच्छया // यत्र यत्र स रत्नानि लातुं खनति भूतलम् / तत्र तत्र दृषत्खण्ड निर्गच्छत्यशुभोदयात् // ततो भ्रमन् महीपीठे उपाय॑ विंशतिंद्रम्मान् / वलमानो ललौ सक्तून् सम्बलाय स नैगमः / / आर्टीकृत्याखिलान् सक्तुन् पिण्डीर्दश व्यधात् स च / यदा तदा समायोतो * 'साधू भिक्षाकृते किल // उत्थाय हर्षतः सक्तुपिण्डीः पञ्च वणिक् स च / साध्वोर्विश्राणयामास हर्वोत्कर्षपूरितः / ततो भुक्त्वा वणिक सक्तून् शेषान् मार्गे चलन् क्रमात् / कस्यचित् सन्निधौ द्रव्यं दृष्ट्वा हन्तुमना अभूत / / पुनः क्षणाद् वणिग्दध्यौ मया मुधा धनी ह्ययम् / हंसितुं वाञ्छितो धिग् धिग् मामतो दुष्टमानसम् / / ततो गत्वा गृहे कुर्वन् व्यवसायं स नैगमः / आम्र -जम्बूक-जम्बीर-मुख्यैः फलैजिंजीव हि || एकदाऽऽम्रफलान्येवा-गणितानि स नैगमः / ढौकथित्वा प्रभोर-ऽनुमुमोद पुरस्तदा / / क्रमोदायुःक्षये भीमो मृत्वा रामोऽभवस्त्वकम् / प्राग्भवे साधवे सक्तु-पिण्डीः पञ्च ददे त्वया / / एकदा चागणय्यैव फलोन्याम्राणि भावतः। अढौकयत् प्रभोरग्रे प्राग्भवे भवता पुनः।। तेन पुण्येन रत्नानि पञ्चादौ ते करेऽभवन् / ततो रत्नभृता गौणी पत्नीयुक्ताऽभवत्तव // एकदा भवता हन्तुं चिन्तितो मानवः पथि / तेन त्वं प्रियया हन्तुं वाञ्छितो रामवाडव ! // यस्त्वया प्राग्भवे मत्त्यों हंसितुं चिन्तितः पथि / स मृत्वा तव पन्यासी-द्भवेऽस्मिन्नवधारय / पत्नीजीवस्त्वया हन्तुं प्राग्भवे चिन्तितो यतः। अतस्त्वमनया पत्न्या ईसितुं चेह वाञ्छितः / / श्रुत्वेति राम आचष्ट पापानि प्राक् कृतान्यपि / काक-नाशं कथं याति ततो गुरुर्जगाविति / / अनन्तभवभूतानि पापानि निबिडान्यपि / सिद्धाद्रौ यात्रया यान्ति समायाति शिवेन्दिरा // यता-" नवि तं सुपणभूमी भूसणदाणेण अन्नतित्थेसु / जं पावह पुण्यफळ पूया-न्हवणेण सिजे॥१॥"