________________ शत्रुजप-कल्पवृत्ती लोकयुतो नैव हन्मि कचित् मृगं मृगीम् / / हरिण्येव त्वया भर्त-भावं नीतोऽस्म्यहं दृढम् / अधुना त्वं. कथं हंसि मां पति प्राणवल्लभम् ? // यतः-- " पत्यौ मृतेऽपि या योषि-द्वैधव्यं पालयेत् कचित् / सा पुनः प्राप्य भर्तारं स्वर्गभोगान् समश्नुते // 1 // " तस्येति वचनं श्रुत्वा तस्याः स्नेहोऽभवद् भृशम् / जगो तवोचितं स्थातुं नेह मृत्योर्भयात् किल || मत्पिता विद्यते दुष्ट-स्तेन दूरे च गम्यते / ततो रामो जगौ पल्य-नुरक्ता जायते वरम् / / यतः-"रक्ता हरन्ति सर्वस्वं प्राणानपि विरागतः। अहो राग-विरागाभ्यां कष्टं कष्टेन योषितः // 1 // " स्वप्ते भर्तरि मातत्य जगौ किं मारितः पतिः / पुत्री प्राह न निद्राऽस्य समेति मार्यते कथम् ? // ततश्च कन्यया पृष्टे स्वग्राम-जानकादिकम् / तत्रागमनपर्यन्तं रामः पत्न्याः पुरो जगौ // ततो रत्नैवरैगोणी भृत्वा सायं प्रिया जगौ। एकोष्ट्री विद्यते वेग-वती मम पितु हे / / तामारुह्य द्रुतं दूरे गत्वैतैर्मणिभिः सुखम् / स्थास्यतेऽतस्तदा रामो मेने पत्नीवचः स्फुटम् / / उष्ट्रीमारुझ रामस्तु पत्नीयुक्तश्चलन् पथि / यदाऽगमन्महाटव्यां तदा लग्ना तृषा द्वयोः // उष्ट्र या उत्तीर्य रामस्तु वाप्यन्तजेलहेतवे / प्रविवेश यदा चौरस्तदोत्तीर्णस्तरोतम् // आरुह्योष्टी तया नार्या युतश्चौरश्चलन पथि / पृष्टः कस्त्वं ततोऽवक् स स्तेनोऽहं स्यां पश्यतोहरः // भविष्यसि प्रिया मे त्वं यदि स्याचे तदा सुखम् / स्वं शीलं रक्षितुं प्रोक्तं तयेति च तदप्रतः / वयं जातं पतिः पूर्वो गतस्त्वमागतो यतः / मयेति मानितं देव्याः काल्या उज्जयिनीपुरि // यदि मेऽन्यः पतिर्वयों भविष्यति तदा ध्रुवम् / तब पूजां विना भोगं कुर्वे पत्या समं नहि // युग्मम् / तत उज्जयिनीपुर्या' गत्वा रामपितुर्ग्रहम् / पृष्ट्वा गत्वाऽऽलये तस्यो-तीर्योष्टीतः समागमत् / / श्वश्रश्वशुरयोरंहयो-नत्वा यावतस्थिताऽप्रतः / तावत्ताभ्यांन्यवेदीति कस्यासि त्वं प्रिया वद् ? // तयोक्तं भवतः सूनो-गैहिन्यम्मि रमाभिधा / ताभ्यां प्रोक्तं कथं पत्नी मत्सूनोरऽस्ति सत्तमे ! // ततः सोद्वाहसम्बन्धो रामेण सह सम्भवः / यदा तयोदितो हृष्टं खिन्न ताभ्यां यथाक्रमम् // ताभ्यां प्रोक्तं कथं सू नु-मिलिष्यत्यावयोर्वद ? / तयोक्तं ते सुतो रामः कुशल्येव. समेष्यति // निर्धाटितस्ततश्चौर-स्ताभ्यां गत्वा वने द्रुतम् / योगी भूत्वा गतो हेम-पुरे कुम्भकृतो गृहे / / इतो रामोऽपि रत्नानां गमभीयोंगिवेषभृत् / पूर्व कुम्भकृतो गेहेऽभ्येत्य तस्थौ समाधिना / / मिथ आदेश आदेश इत्युक्त्वा नतिपूर्वकम् / निविष्टौ तौ तदा स्वस्वो-दन्तं प्रजल्पतः स्म हि / / योगी पूर्वागतः प्राह कस्त्वं किमिह सङ्गतः / योगी जातोऽसि केन त्वं वैराग्येण वदाऽधुना ? || अन्यो योग्यभणचौले वरोष्ट्री कन्यकोयुताम् / लात्वाऽवन्त्यामगाद् यावद् हृष्टचेता अहं भृशम् / / तावद्वरद्विजावासे मध्ये गत्वा बलाच्छलात् / रत्नगोणियुतामुष्ट्री-मग्राहयद् द्विजन्मना / अतोऽहं हकितो लाके त्यक्त्वा सर्वधनं तदा / अत्रायोतोऽमिलत्ते तु साम्प्रतं दुःखितो भृशम् / / सती स्वां गेहिनों ज्ञात्वा योगिनं तस्करं पुनः / रामो जहर्ष चित्त स्वे चक्रश्चक्रप्रियामिव / / चौरो योगी जगौ कस्त्वं ततो रामो जगाविति / पञ्चैव भ्रातरो जाता वयं कुसुमपत्तने / चतुर्भिः सोदररेष धिक्कृतोऽहं विरागवान् / योग्यभूवं ततश्चौरर योगी सत्यमिदं जगौ॥ रामेणाचिन्ति यद्वर्य-मवयं चिन्त्यते खलु / तदेव तस्य जायेत शुभं वाऽशुभमेवतत् // गत्वान्यत्र ततो योगि-वेषं त्यक्त्वा स रामकः / हेम्नो लक्षत्रयेणेकं विचिक्राय मणिं पुरे / यतः- “राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता / पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदु:॥१॥" गृहीत्वा वयवस्त्राणि परिधाय शुभेऽहनि / इभ्यीभूय ललौ भूरि-क्रयाणकसमुच्चयम् / / अने. कान पौष्ठिकान् लात्वा बभार वस्तुमिघनः / जात्यानश्वान् ललौ भूरीन शकटान्यपि भरिशः // अनेकाः