________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 235 0000000 000000000000000000000000000000 अस्मिन रैवतकें शैलेऽसङ्ख्याता जिनालयाः। कारिता नृपतीभ्यायै-स्तेषामुद्धृतयः पुनः // 604 // विम्बान्यपि मणि मृत्स्ना-दृषल्लेप्यमयानि च / असङ्ख्यातानि जातानि भविष्यन्ति वसन्ति च // 605 // सर्वकर्मक्षयं कृत्वा सङ्ख्यातीतास्तनूभृतः / मुक्तिं याता गमिष्यन्ति प्रयान्ति च न संशयः // 606 / / क्रमाद्यादववंशेऽभूत् सोमचन्द्रमहीपतिः / जीर्णदुर्गे जिनागार-महेभ्योको विराजते // 607|| अन्येद्य स्तत्र नगरे चन्द्रशेखरसरयः / बोधयन्तोऽवनी भूरि-साधुयुक्ताः समाययुः // 608 / / तदानीं वन्दनायाते तस्मिन् वसुन्धरापतौ / गुरवो जगदुः शत्रु-ञ्जयमाहात्म्यमद्भतम् // 606 / / कृता शत्रुञ्जये येन यात्रा विस्तारपूर्वकम् / स एव लभते सद्यो-ऽपवर्गस्वर्गसम्पदम् // 610 // विना तपो विना दानं विनाऽर्चा शुभभावतः / केवलं स्पर्शनं सिद्ध क्षेत्रस्याक्षयसम्पदाम् / / 611 / / शत्रुञ्जयसमं तीर्थ-मादिदेवसमः प्रभुः / जीवरक्षासमो धर्मो नास्ति विश्वत्रये परः // 12 // श्रुत्वेति भूपतिभूरि-संघलोकसमन्वितः / शत्रुञ्जये जिनं नन्तु कुर्वन्महोत्सवं ययौ // 113 / / पुष्परादौ युगादीश-मर्चयित्वा सविस्तरम् / पारात्रिकं च मङ्गल-दीपकं च व्यधान्नृपः // 614|| ततश्च स्वामिनः पादौ प्रणम्य च प्रपूज्य च / वर्द्धयामास भूपालः प्रियालु मणिभिर्वरैः // 15 // तत्र श्रीगुरुपादान्ते धर्म श्रोतु ययौ नृपः / यदा तदा जगादेति माहात्म्यं तस्य भूभृतः // 616 / / अत्र तीर्थे तपो यच्च क्रियते प्राणिभिर्मनाग / तन्मुक्तिफलसङ्घातैः फलति मापतेऽचिरात् // 617|| न रोगा न च सन्तापो न दुःखं न वियोगिता / न दुर्गतिर्न नाशश्च पुसां शत्रुञ्जयस्पृशाम् // 618 // दीक्षां लात्वा तपो योऽत्र कुरुते शुभभावतः / तस्याशु जायते मुक्ति-सातं तनु भृतो नृप ! // 616|| श्रुत्वैतन्नृपतिः पुर्यां समेत्य निजसूनवे / दत्त्वा राज्यं गुरूपान्ते ललौ दीक्षां शिवप्रदाम् ||620 // क्रमात् सूरिपदं प्राप्य भूरिसाधुनिसेवितः / शत्रुञ्जये ययौ चन्द्र-शेखरसूरिराट् क्रमात् // 621 // तत्र तीव्र तपः कृत्वा केवलज्ञानमादत् i / प्रासाद्य निवृति यातो भूरिसाधुसमन्वितः॥२२॥ + इति श्रीकृष्णचरिते नेमिनाथसम्बन्धगुफितसाम्बप्रद्युम्नप्रमुख-श्रीकृष्णनरकगमनस्वरूपं समाप्तम् 5 मुद्रक:-शांति प्रिन्टर्स, इन्दौर 2