________________ 234 शत्रुञ्जय-कल्पवृत्ती पवित्रा भगवत्पादै रैवताचलरेणवः / पुनन्ति विश्वसंयुक्ताः शुद्धिकृच्चूर्णजा इव // 876 // भूरुहा दृषदो भूमि वाय्वम्बग्निशरीरिणः / अचेतना अपि शिवं यातारोऽत्र कियदिनैः॥८८०॥ तपक्षमाभ्यां संयुक्ता-स्तथा साम्यरसप्लुताः / त्यक्त्वा धातुमयं देहं देही प्राप्नोति नि तिम् / / 881!! यथा स्पृष्टमयः स्पर्शो-पलेनाप्नोति हेमताम् / तथाऽस्य स्पर्शतो देही भवेच् चिन्मयरूपभाग // 882 // मलयाद्रौ यथाऽन्येऽपि यान्ति चन्दनतां द्र माः। तथाऽत्र पापिनोऽप्यङ्गि-गणा यान्ति हि पूज्यताम् / / 883 // न श्रीनेमिसमः स्वामी नोजयन्तसमो गिरिः / न गजेन्द्रपदामं तु कुण्डमस्ति जगत्त्रये // 884 // सिद्धाभिधगिरेः शृङ्ग रैवतोऽयं च विद्यते / अतोऽत्र कुर्वतः पुण्यं सिद्धाद्राविव जायते // 885 // उक्तश्च-भावतः प्रतिमामत्र जिनानां जन्तुरर्चयन् / लभते शिवसौख्यानि नृसौख्यस्य किमुच्यते ? // 1 // प्रत्याख्यानं दशविधं विवेकी यो व्यधानरः / अस्मात्तस्य क्रमात् स्वर्ग-सौख्यानि दशधा पुनः // 2 // " न्यायोपात्त धनं यत्र कुर्वते पात्रसान निजम् / तेषां समृद्धयः सर्वाः सम्पद्यन्ते भवे भवे // 86 // शैलमेकाहमत्रस्थो विभत्ति भविकाग्रणीः / सुरासुरनृनारीभिः सेव्यते स सदा यतः / / 887|| शुद्धान्नवस्त्रपानाधैर्यः साधु प्रतिलाभयन् / मुक्तिनारीहृदानन्द-दाता स जायते नरः // 888|| रूप्यस्वर्णसुवस्त्रादि यो ददात्यत्र भावतः / तदनन्तगुणं सोऽपि लभते लीलया जनः // 86 // महातीर्थमिदं सर्व-तीर्थोत्कृष्ट जगत्त्रये / तिर्यश्चोऽपि हि यद्वासात् सिध्यन्त्यन्तर्भवाष्टकम् / / 860 // द्रुमा धन्या मयूराद्याः पक्षिणः पुण्यशालिनः / वसन्ति रैवते यत्र मनुष्याणां किमुच्यते ? / / 861 // देवता ऋषयः सिद्धा गन्धर्वा किन्नरादयः / सोत्साहाश्च समायान्ति यं सेवितुमनारतम् / / 862 / / न ता औषधयो दिव्या न ताः स्वर्णादिसिद्धयः / रसकूपा न ते यत्र गिरौ सन्ति न शाश्वताः / / 863 // गजेन्द्रपदमत्रोस्ति कुण्डं तुण्डं शिवश्रियः / न यत्र जीवसंसक्तिः शक्तिः पापापनोदने ||864 // परेषामपि कुण्डानां प्रभावोऽयं पृथक् पृथग् / षण्मासस्नानतो रोगा कुष्ठाद्या यान्ति जन्तुषु / / 865 // नेमिनिर्वाणतोऽब्दानां द्विसहस्र गते सति / अम्बासान्निध्यतो हेम-बलान कादवाप्य च / / 866 // रत्नाह्वः श्रावको नेमे-बिम्बं वज्रमयं ततः / पूजयिष्यति भक्त्याऽत्रा-र्चयिष्यन्ति च मानवाः / / 867|| उक्तश्च शत्रुञ्जयमाहात्म्ये 'द्विमहस्रीमतिक्रम्य वर्षाणामतिदुःखदाम् / अस्मन्निर्वाणसमयादम्बादेशाद्वणिग्वरः। ततोऽप्यानीय रत्नाह एतां सम्पूजयिष्यति / पुना रैवतकेऽत्रैव सुप्रसादां सुवासनः / / 868 // उक्त च-स्थित्वा लक्षं सहस्राश्च समास्तिस्रःशतद्वयम् / पञ्चाशतं तथात्रासो तिरोधास्यत्यतः परम् / / 866 // एकान्तदुःषमाकाले तां नेमिप्रतिमां किल / लात्वाम्बिका सुरी वार्डों पूजयिष्यति भावतः। 600 // प्राग्वाट स सुराष्ट्रीयः काश्मीरविषयादिह / समेत्य प्रतिमा पूज्य-माना नेमेः करिष्यति // 601 // अस्य सम्बन्धः मत्कृताद् जावडि प्रबन्धात ग्रन्थान्तराद् वा ज्ञेयः स्वयम्। पूर्व कृष्णो गिरावुञ्ज-यन्ते जिनालयं व्यधात् / ततो लेप्यमयं विम्ब-मतिष्ठिपत्प्रमोदतः // 602 // उक्तच-विष्णुस्ततोऽवग मच्चैत्ये स्थापितेऽयं मयाऽत्र किं / कालं स्थास्यत्यथान्यत्र क्वक पूजामवाप्स्यति॥ उवाच स्वाम्यपोयं ते प्रासादे त्वत्पुरावधि / पूजामवाप्स्यत्यतः शेले काञ्चनाख्ये सुरैः कृते // 603 / /