________________ 166 शत्रुञ्जय-कल्पवृत्ती .000000000 100000000000000000000000000001 अन्येषामङ्क, शादीनां नन्दनानां यथोचितम् / रामो विश्राणयामास विषयान विषयोज्झितः // 1588 // तदाऽन्ये बहवो भूपा रामेण सह संयमम् / लातुकामा निजं राज्यं स्वपुत्रेभ्यो ददुर्मुदा // 1586 // तदाऽर्हदाससुश्राद्ध-मुखात् सुव्रतसंयतम् / समागतं निशम्याशु रामो हर्ष समागमत् // 1560 // ततोभूरि-महीपाल विद्याधरसमन्वितः / तत्रैत्य तं यतीशं तु ननामाऽनघमानसः // 1561 // उत्तार्य मुकुटादीनि भूषणान्यखिलान्यपि / रामो व्रतं ललौ भूरि-भूपविद्याधरान्वितः // 1562 // तदा बहु सहस्राणि भूपालाः साधुसन्निधौ / जगृहुः संयमं सद्यः संसाराम्बुधितारकम् // 1563 / / विशुद्धं चरणं शश्वत् पालयन् राघवो मुदा / विनयादपठद् भूरि-शास्त्राणि गुरुसन्निधौ // 1564 / / शत्रुघ्नोऽपि तदा दीक्षां ललौ विभीषणोऽपि च / ताभ्यां साद्धं महीपालाः बहवः संयम ललुः / / 1565 // साद्ध रामेण भूपालाः सहस्राणि तु षोडश / जगृहुः संयम मुक्त्वा तृणवद्राज्यमञ्जसा / / 1566 / / (नारीणां)सहस्राणि त्रयस्त्रिंशत् सप्ताधिकानि तद्दिने / प्रव्रज्यां जगृहुः लक्ष्मी-वती साध्व्यन्तिके मुदा // 1567 श्रीसुव्रतान्तिके रामः पठन शास्त्राणि भूरिशः / पपाठ नवपूर्वाणि सार्द्धानि विनयाश्रितः / / 1568 / / ततो गुरूपदेशेन विहारमेककः करन् / रामपिः कुरुते स्मोग्र तपोऽभिग्रहभाक् सदा // 1566 / / "यतः-अह णिग्गो मुणी सो गुरुणा अणुमोइनो पउमनाहो / पडिवण्णो अविहारं उत्तमसामत्थसंपण्णो॥१॥ भूमिभृद्गह्वरे तस्यां रात्रौ दाशरथेर्यतेः / तृतीयं ज्ञानमुत्पन्नं तद्ज्ञानावरणक्षयात् / / 1600 // अवधिज्ञानतस्तुर्ये नरके लक्ष्मणं गतम् / विज्ञाय ध्यातवानेवं भवस्य विषमां स्थितिम् // 1601 // सय सत्त कुमारते तिन्नेव सयाणि मंडलिते य / चत्तालिमय विजए जस्स उ संवच्छरातीमा // 1 // एकारस य सहस्सा सपंच णवया तहेव सट्ठिजुआ / वरिसाणि महारज्जे जेण सयासे ठिया विसया // 2 // बारस चेव सहस्सा हवंति वरिसाण पंचवीसूणा / भोत्तण इंदियसुहं गयो य नरयं अणिमित्रप्पा ||3 // देवाण को व दोसो परभवजणि समागय कम्मं / बंधवनेहनिहेणं मनो गो लक्खणो नरयं // 4 // " मम पूर्वभवोद्भुतः स्नेहोऽभूल्लक्ष्मणे मुघा / न कृतात् कर्मणः कोऽपि छुटिष्यति तनूधरः // 1602 // प्रायो मोहसुरामत्तो जीवो नैव हिताहिते / जानीते स्माऽनादिसंसार-भ्रमखिन्नो दिवानिशम् / 1603 // लक्ष्मणोऽपि मम भ्राता तुर्ये श्वभ्रं गतो यदि / तदाऽन्येषां नृणां पापात् किं किं दुःखं न जायते ? // 1604 // यतः-"एगो य सत्तमाए पंच य छट्ठी पंचमाए एगो। एगो चउत्थीए कण्हो कण्हो पुण तच्चपुढवीए॥१॥ अथ राममुनिः षष्ठो-पवासी विहरन् भुवि / महापुर्यां विवेशैव भिक्षाग्रहणहेतवे // 1605 // तत्रैत्य भूपतिः सोमः प्रणम्य राघवं प्रति / प्राहाऽथाऽस्मद्गृहात् भिक्षां गृहाणाऽनुगृहाण माम् / / 1606 ततो राम ऋषिः प्राह न ह्य कस्मिन् गृहे मम / भिक्षां प्रकल्पते लातु ततो नोच्यमिदं वचः // 1607 / / ततो रामयतिर्भिक्षां शुद्धां पश्यन् गृहे गृहे / भीमस्य वणिजो गेहे शुद्धान्नमाप्तवाँस्तदा // 1608 // तदा तस्याऽऽलये पुष्प-रत्नवृष्टिं सुधाभुजः / वितेनिरे तथा हर्षो यथाऽभूद् धुसदामपि // 1606 // तत्र रत्नपुरे यत्र यत्र गेहे च गेहिनः / रामो याति तदा ते तु पक्वान्नं ददते जनाः / 1610 // अतीवादरतोऽशुद्धमाहारं राघवो यतिः / ज्ञात्वेत्यभिग्रहं घोरं जग्राह शिवहेतवे // 1611 // यदाऽव्यां ममाहारः शुद्धो हस्ते चटिष्यति / भोक्तव्यं मयका तस्मिन् दिनेऽ यस्मिन् मनाग न हि / / 1612 //