________________ जैनगीतासम्बन्धः 165 0000000000000000000000 तं णत्थि जीवलोए ठाणं तिलतुसतिभागमित्तंपि / जत्थ ण जाओ जीओ जत्थेव ण पावित्रो मरणं // 5 // " एवं पुनः पुनः प्रोक्त सुग्रीवेण खगामिना / रामो जगौ मृतो नैव सोदरो मेऽधुना खलु // 1562 // ततो लक्ष्मणवस्त्रं तु दृष्ट्वाऽऽहोत्तिष्ठ सोदर ! / साध्यते विषयोऽन्योऽपि वैरिवर्गाखिलोऽपि च // 1563 // ततो ग्रासं मुखे लक्ष्मी-पतेः कृत्वाऽऽह राघवः / भो भ्रातर् ! भुव पक्वान्नं पिब स्वच्छं पयः पुनः // 1564 ततो विभीषणः प्राह भो ! रामोत्तिष्ठ शीघ्रतः / वेरिणः शिबिरं चन्द्र(ण्ड)-मागतं स्वपुरान्तिके // 1565 // ततो रामः समुत्थाय चटयित्वा गुणे धनुः / टणत्कारं विधायाशू-पविष्टो लक्ष्मणान्तिके / / 1566 // इतोऽच्युतेश्वरः सीताजीवोऽपि मोहकर्दमे / रामं स्वकान्तमैक्ष्येति दध्यौ पुनः पुनह दि / 1567|| मदीयो रमणो रामो मोहजालेऽसुखप्रदे / पतितो नरके गामी कथं रक्षिप्यते मया // 1568 / / ततोऽच्युतेश्वरोऽभ्येत्य विप्रवेषधरस्तदा / रामं प्रति जगौ मोह-पाशे किं पतितोऽसि हि ? // 1566 // यतः-"न य होइ कजसिद्धी एव कुणंताण मोहगहियाणं / जायइ सरीरखेयो णवरं विवरीअबुद्धीणं // 1 // " एष ते सोदरो मृत्यु प्राप्तोऽतस्त्वं च राघव ! / कुरुष्व वह्निसंस्कारं नीत्वो प्रेतवनेऽधुना // 1570|| रामोऽवग भवता कूटं जल्प्यते साम्प्रतं स्फुटम् / सुप्तोऽस्ति निभरं भ्राता विनिद्रोऽथ भविष्यति / / 1571 / / एवं प्रोक्त्वा निजस्कन्धे कृत्वा पुरवहिवने / गत्वा मुक्त्वा वने राम आनीयाम्राणि ऊचिवान् // 1572 / / भ्रातरुत्तिष्ठ वर्याणि सहकारफलानि तु | अमूनि भक्षयेदानी तृप्तो भवेह साम्प्रतम् // 1573 / / ततोंसे लक्ष्मणं कृत्वा यावञ्चचाल राघवः / तावत् स निर्जरश्च कं मृतं नरं निजांसगम् / / 1574 / / कृत्वा सन्मुखमायात-स्तदा दाशरथेः पुरः ।रामोऽवग् मृतकं स्कन्धे किं कृतं भवताऽधुना॥१५७५||युग्मम्।। देवोऽवग् मृतकस्यास्य दत्त्वौपधानि साम्प्रतम् / जीवयिष्याम्यतो राम-स्तं प्रति प्रोक्तवानिति // 1576 / / मृतः कोऽपि न जीवेद्धि ततः स निर्जरो जगौ / इदं चेन्मृतकं ह्यत-ज्जीविष्यति कथं तव ? // 1577|| ततः स निर्जरः पद्म शिलापृष्ट दृढे तदा / वप्त्वा सिञ्चन् कान्वेन राघवेणावलोकितः // 1578|| रामेणोक्त शिलायां तु न पद्म बद्ध ते क्वचित् / स देवोऽऽवक् कथं तर्हि मृतकं जीववद्भवेत् ? ||1576 / / इत्यादि बहुशो वारान् वालुकादिप्रदर्शनात् / रामं सीताऽच्युताधीशो बोधयामास स वृषे // 1580 // ततः स वासवः प्रादुर्भूय स्वगमनं दिवः / ज्ञापयित्वा स्थिरीचक्रे रामं दीक्षाखिहेतवे / / 1581 / / प्रबुद्धो राघवो वह्नि-संस्कार कमलापतेः / कृत्वा दीक्षां गृहीतु तु शत्रुघ्न प्रत्यवक् तदा // 1582 / / अहं दीक्षां गृहोष्यामि राज्यं त्वं लाहि साम्प्रतम् / शत्रुघ्न ऊचिवान् पूर्व-महं लास्यामि संयमम् / / 1583 // उक्त'च-"पिय विभवेण एत्तो सकारेऊण लक्खणं रामो / पुहइए पालणट्ठा सिग्धं चित्र भणइ सत्तुग्धं // 1 // वत्त्य ! तुमं सयलमिणं भुजसु रजं णराहिव समग्गं / संसारभमणभीग्रो पविसामि तवोवणं अहयं // 2 // सत्तग्यो भणइ तो अलाहि रज्जेण दुग्गइकरेण / संपइ भोत्तण तुमे देव ! गई णत्थि मे अण्णा // 3 // " शत्रुघ्नं राज्यमगृह्णन्तं ज्ञात्वा दाशरथिस्तदा / अनङ्गलवणं पुत्रं प्रत्युवाच स्फुटाक्षरम् / / 1584 / / राज्यमेतद् गृहाण त्वं गृहीष्येऽहं तु संयमम् / पुत्रो जगौ विना त्वं तु स्थातु शक्नोमि न क्षणम् // 1585 // ततो रामो निजे पट्टे बलेन वृद्धमङ्गलम् / अतिष्टिपद् बहुक्ष्माप-साक्षिकं लसदुत्सवम् // 1586 / / तदा विभीषणः पुत्रं सुभूषणाभिधं वरम् / स्वपट्टेऽतिष्टिपत्पुत्रं सुग्रीवोऽङ्गदनामकम् // 1587 / /