________________ 162 शत्रुञ्जय-कल्पवृत्ती .0000000000000m जिनेष्वर्हन् यथा मुख्यः शैलेषु मन्दरो यथा / तथाऽयं सिद्धिभूमिथ्रो मुख्यो निगद्यते जनः // 1462 // यः श्रीसङ्घपतीभूय भूरीन भव्यान् शिवाचले / वन्दयन्ति शिवं नेतु लभन्ते नात्र संशयः // 1463 // एवं श्रुत्वा वचो रामो जगौ शत्रुञ्जयाचले / यात्रां कत्तु ममाऽस्तीच्छा साम्प्रतं मुनिसत्तम ! // 1464 // ज्ञानी प्राह तु भव्यानां तीर्थे शत्रुञ्जयाभिधे / वाञ्छा यात्रां विधातुं हि भव्यानां भवति ध्रुवम् // 1465 // येषां शत्रुञ्जये यात्रां कतु वाच्छा प्रजायते / सिद्धिं याति च धन्यः स शिवगामी भविष्यति // 1466 / ततो दाथरथिः प्रेष्य बह्वीः कुकुमपत्रिकाः / सङ्घमाकारयामास यात्रां कतु शिवाचले // 1467 / / कल्याणखचिताः पञ्च शतानि जिनपालयाः / कलधौतमयाः सप्त शतानि द्वादशाधिकाः // 1468|| वर्यकोष्टमयाः पञ्च सहस्रा द्वादशाधिकाः / चेलुः पुर्यास्तदा दाश-रथे सङ घे मनोहरे ॥१४६६|युग्मम्॥ अनसां कोटयः सप्त भूरि कोट्य नरास्त्रियः / महिषाः पृष्टिवाहाच कोट्य एकोनविंशतिः // 1500 // गजा दश सहस्राणि ताा विंशतिकोटयः / चेलुर्दाशरथे सङ्के भरिवाद्यपुरस्सरम् / / 1501 / / ग्रामे ग्रामे पुरे पुर्यां कुर्वन् स्नात्रोत्सवं मुदा / ययौ दाशरथिः शत्रुञ्जये तीर्थे शिवप्रदे // 1502 // .. तीर्थे तत्राऽऽदिदेवस्य कृत्वा स्नात्रादिकं महः / आनर्च पादुके नाभि-सूनोर्दाशरथिसुदा // 1503 // ततो मुक्ताफलैः स्फारतर राजादनीतरुम् / वर्द्धयामास काकुत्स्थो गीतनृत्यपुरस्सरम् // 1504 / / तत्र श्रीमादिदेवस्य जीर्णस्य जिनसमनः / श्रीरामः कारयामास समुद्धारं शुभाशयः / / 1505 / / कृत्वा दाशरथिः पूजा विस्तरात् प्रथमार्हतः / सङ्घ सन्मानयामास भक्तवस्त्रादिदानतः / / 1506 / / प्रतिलाभ्य गुरून भक्त-वस्त्रविश्राणनादिभिः / रामः सन्तोषयामास याचकानपि भावतः / / 1507 // ततो रैवतके तीर्थे गत्वा श्रीनेमिनाथकम् / विस्तरात् पूजयामास भक्त्या दशरथात्मजः // 1508 / / पश्चादायात क्रमाद्रामो विसृज्य सङ्घमादरात् / वर्योत्सवमलञ्चक्र साकेतं भ्रातृसंयुतः // 1506 / / अन्यदाऽष्टापदे तीर्थे चक्रिणाऽऽद्येन कारिते। सिंह निषिद्ययाकारे प्रासादेऽभ्रांलिहे बरे // 1510 / / चतुर्विशतिरहन्तो वृषभाधास्तमोपहाः / मानप्रमाणभृद्द हाः श्रुता रामेण सद्गुरोः // 1511 / / उक्त च-"उसभी पंच धणुस्सय नव पासो सत्त रयणीयो वीरो / नव सत्त पंच अट्ठ य पन्ना दस पंच परिहाणी // 1 // " ततः श्रीसङ्घमाकार्य भूत्वा सङ्घ-पतिः स्वयम् / रामोऽचालीज् जिनान् नन्तु तीर्थेऽष्टापदनामनि // 1512 // आरुह्याऽष्टापदं शैलं प्रत्येकं जिननायकम् / वृषभादीन मुदाऽऽनर्च नानोत्सवपुरस्सरम् // 1513 // यतः- "चत्तारि अट्ठ दस दोय वंदिया जिणवरा य चउब्बीसं / ___ परमट्ठनिट्टिअट्ठा सिद्धा सिद्धिं मम दिसंतु // 1514 // " ततः सम्मेतशिखरे तीर्थे गत्वा जिनेश्वरान् / पूजयित्वा सुमै रामः स्वं जनुः सफलं व्यधात् / / 1515 / / अट्ठावयम्मि उसभी सिद्धिगो वासुपुज्ज चंपाए / पावाए बद्धमागो अरिहनेमि य उज्जते // 1 // अवसेसा तित्थयरा जाइजरामरणबंधणविमुक्का / सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे' // 2 // ततो रामो वितन्वान उत्सवं स्वपुरे क्रमात् / पृथिवीं न्यायमार्गेण पालयामास सन्ततम् // 1516 // अन्यदोत्पन्नवैराग्यो लोचं कृत्वा स्वपाणिना / सीता त्यक्तगृहारम्भा जिघृक्षुरभवद् व्रतम् // 1517 / /