________________ 160 शत्रुञ्जय-कल्पवृत्ती .000000000 यतः--"छेत्तण य कप्पूरं कुणइ वई कोहवस्स सो मूढो / प्राचुण्णिऊण रयणं अविसेसो गेण्हए दोरं / / दहिऊण य गोसीसं गेण्हइ छारं तु सो अबुद्धीओ। जो चरित्र तवं घोरं मरइ सनियाए मरणेणं' // 1440 अथ प्रभासकुन्दस्तु निदानोज्झितपुण्यकः / मृत्वा तृतीयताविषे उत्पन्नो निर्जरो वरः // 1441 / / च्युत्वा ततो दशास्यः स रत्नश्रवः-खगेशभूः / त्रिखण्डाधिपतिभूरि-विद्याभृत्सेवितोऽजनि // 1442 / श्रीकान्तस्याऽसुमान भूरि-भवान् भ्रान्त्वा भवान् क्रमात् / दशाननोऽभवल्लङ्का-नायको वरविक्रमः / / ब्रह्मस्वर्गाच्च्युतो जीवो धनदत्तस्य राघवः / अभूदाशरथिः पुत्रो वृद्धो दशरथस्य तु // 1444 // वसुदत्ताऽसुमान् मृत्वा श्रीभूतिश्च पुरोहितः / स लक्ष्मणोऽभवत् पुत्रोऽपरो दशरथस्य तु // 1445 // उक्त'च-'जो वि हु सो सिरिभूई वेगवइकएण सयंभूणं वहिनो। धम्मफलेणं देवो जानो अह वरविमाणंमि // चइउं पइट्ठणयरे पुणव्यसू खेयराहिवो जाओ / महिलाहेउं सोयं करिअ नियाणं च पाइयो // 1447 / काऊण तवं घोरं सणंकुमारे सुरो समुप्पन्नो / चइयो सोमित्तिसुत्रो जानो वि हु लक्खणो एसो // 1448 // सिरिकतो य सयंभू कमेण जात्रो पभासकुदो सो / विज्जाहराण राया जामो लंकाहिवो सूगे' // 1446 // गुणमत्यसुमान् मृत्वा भ्रान्त्वा भूरिषु योनिषु / भूत्वा वेगवती स्वर्गे गत्वा सीताऽभवत्ततः ! / 1450 // धनदत्तादिभ्रात्रोर्यो जन्यचक्रोऽभवत् सुहृद् / सोऽस्मिन् भवे भवान् जातस्त्वं विभीषण ! साम्प्रतम् / / योऽभूद् वृद्धो वृषः पञ्च-नमस्कारस्मृतः मृतः / छत्रछायमहीशस्य नन्दनो वृषभध्वजः / / 1452 / / सोऽस्मिन् भवे दिवश्युत्वा कपिविद्याधराधिपः / सुग्रीवोऽजनि रामस्य लक्ष्मणस्याधुना सुहत् / / 1453 / / यतः-"एए सब्वेवि पुरा आसि णिरंतरं सिणेहसंबद्धा / रामस्स तेण णेहं वहति णिययं च अणुकूला।" पूर्व वेगगतीष्टाऽभू-दाढं स्वयम्भूभूपतेः / येन तेनेह सीतेयं दशास्येन हृताऽधुना / 1454 / / वेगावत्या भवे पूर्वे कलङ्कः साधवे ददे / अस्मिन्नतो भवे प्रापि कलङ्कः सीतया किल / / 1455 / / यतः--"रागेण व दोसेण व जो दोसं संजयस्स भासेइ / सो हिंडइ संसारे दुखसहस्साइं अणुहवंता॥१॥" स्वयम्भुवा पुराऽमारि श्रीभूतिश्च पुरोहितः / तेनेह लक्ष्मणेनापि हतो दशाननः खलु / 1456 / / यतः-"जो जेण हो पुव्वं सो तेणेव हणिज्जए ण संदेहो / एसा ठिईय निययं संसारत्याण जीवाणं // 1 // ' ततो विभीषणः प्राह भगवन् ! केन कर्मणा / लवाङ्क शो बलिष्ठौ तु जातौ तच्च निगद्यताम् / / 1457 // ज्ञान्याचष्टाऽथ काकन्यां पूर्यभूद् रतिवर्द्धनः। भूपस्तस्याभवत् पत्नी वर्या सुदर्शनाभिधा // 1458 / / तयोरभवतां पुत्रो प्रियङ्करहितङ्करौ / सर्वगुप्तोऽभवन्मन्त्री प्रतिकूलो महीपतेः // 1456|| सर्वगुप्तप्रिया दुष्टशीलाऽथ विजयावलिः / भोगाय प्रार्थयामास निश्यन्येद्य महीपतिम् / / 1460 // भणिताऽथ महीशेन मन्त्रिपत्नि ! त्वयाऽधुना / प्रोक्तमत्र परत्रापि भूरिदुःखप्रदं वचः // 1461 / यतः-"अप्पाधूलिहि मेलिउं सयणा दीधउ जे उच्छार |पगि पगि माथा ढांकणु जेणि जोइ परनारि // क्रमात् परनराश्लेषां वाञ्छती स्त्रीयगेहिनी / विज्ञाय मन्त्रिणा द्वपो विशेषाद् भूपतौ दधे / / 1463 / क्रोधेन मन्त्रिणा गेहे ज्वालिते मेदिनीपतिः / पुत्रपत्नीयुतो यातो वाराणास्यां पुरि ध्र वम् // 1464 // सर्वगुप्त इतो मन्त्री राज्यं कृत्वाऽऽत्मसाद् द्रनम् / दूतमप्रेषयत् वाश्यां जेतु काशीपुराधिपम् // 1465|| मन्त्रिणः सर्वगुप्तस्य गद्याज्ञा ध्रियते त्वया / तदा ते कुशलं भूरि-कालं भूप ! भविष्यति // 1466 / /