________________ जैनगीतासम्बन्धः 181 000.00.0.. इतो गुणमती जीवो भ्रमन् भूरिषु योनिषु / विन्ध्याटव्यामभूत कर्म-वशान्मातङ्गगेहिनी // 1408 // गङ्गापङ्के निमग्नां तां गच्छज्जीवां गजप्रियाम् / वीक्ष्य साधुरदात् पञ्च-नमस्कारं कृपाशया / / 1406 // मृत्वा सरस्वती कुक्षा-वततार वसा यशा / सरस्वती प्रसूते स्म पूर्णे मासे सुतां क्रमात् // 1410 // पच्या वेगवती नाम श्रीभूतिः सप्रियो ददौ / क्रमावगवती जैन-धर्माद्विष्टाऽभवत् किल / / 1411 // इतस्तत्र पुरोद्याने श्रीसुन्दरयतीश्वरम् / वन्धमानं जनैर्वीक्ष्य दध्यौ वेगवतीति सा // 1412 // अयं कलङ्कितः साधुर्यदि स्यात् साम्प्रतं द्र तम् / तदा जिनमते भूयान् कलङ्को जायतेऽखिलः // 1413 / / जगौ वेगवती नृणां पुरो ह्यप यतिः स्त्रिया / रममाणः समं दृष्टो मया कल्ये दिनात्यये / / 1414 / "रागेण व दोसेण व जो दोसं संजयस्स भासेइ / सो हिंडइ संसारे दुक्खसहस्साई अणुहवंतो // 1415 // श्रुत्वेति नगरीलोकः तस्मिन साधावनादरः / चक्रे तथा यथा सार्व-मते स्यादवहीलना // 1416 // स्वस्मिन् कलङ्कदानं तु. मत्वेत्यभिग्रह ललौ / साधुर्यन ममाऽदायि मुधा कलङ्ककालिमा / / 1417 / / तस्य पुसस्त्रियो वापि विघ्नं भवतु विग्रहे / यद्यहं स्यां कलङ्की तु तदाऽस्तु भस्म मे तनुः / / 1418|| एवं कृत्वा प्रतिज्ञां स कायोत्सगें स्थितो यतिः / चक्र शासनदेव्यैत्य वक्र वेगवतीमुखम् // 1416 / / उक्त शासनदेव्या च वेगवत्या स्त्रिया मुधा / कलङ्कः प्रददे साधोः भाव्यस्या मरणं ततः // 1420 // ततोऽतिपीडिता वेगवत्यभ्येत्यान्तिके यतेः / नत्वाऽवग मयकाऽदायि कलङ्कोऽस्य मुनेमुधा // 1421 / / अभाग्यानां शिरोरत्न-मस्म्यहं धुरि साम्प्रतम् / यतो मया मुधा साधोः कलङ्कः प्रददे तदा // 1422 / / ततो वेगवती सज्जी-भूता धर्म जिनोदितम् / प्रपेदे सन्निधौ तस्य साधोरेव मुधा तदा // 1423 // ततः प्रभावना जाता शासने श्रीजिनेशितुः / धर्म वेगवती चक्र पूजयन्ती जिनक्रमौ // 1424 / / दृष्ट्वा वेगवतीरूपं स्वयम्भूभूपतिस्तदा / ययाचे पितरं तस्याः पाणीपीडनहेतवे // 1425 / / श्रीभूतिरवदत पुत्रीं निजां वेगवतीमिमाम् / न हि मिथ्यादृशो दास्ये दास्ये सुश्रावकाय तु // 1426 / / स्वम्भूनृपतिहत्वा श्रीभूति तत्सुतां तदा / रुदन्तीं स्वगृहेऽनैषीद् भोगसौख्यकृते खलु // 1427 // तदा वेगवती प्राह हत्वा मे जनकं त्वकम् / नीताहं ततोऽहं स्यां परत्र तव मृत्यवे / / 1428 / / मोचयित्वा बलान् स्वं तु तदा वेगवती सती / लात्वा दीक्षां तपस्तीव्र चक्रे द्वादशधा मुदा // 1426 / / मृत्वा वेगवती प्रान्ते विहिताराधनाक्रिया। दिव्यरूपधरा देवी द्वितीये ताविषेऽभवत् / / 1430 // मिथ्यात्वभावितस्वान्तः स्वयम्भूभूपतिस्तदा / मृत्वाऽगान्नरके घोरे प्रथमे बहुदुःखदे // 1431 / / ततो निर्गत्य भूयिष्ठ-भवान् तियेगभवान् क्रमात् / प्राप्य स्वम्भू भूपालोऽवाचकार तमो बहु // 1432 // कर्मोपशमनान्लक्ष्मी-परे कुशद्विजन्मनः / स्वयम्भूजीव उत्पन्नः सावित्रिकाप्रियोदरे // 1433 / / जाते तस्मिन् सुते विप्रो विधाय जननोत्सवम् / प्रभासकुन्द इत्याह्वां ददौ सज्जनसाक्षिकम् // 1434 // वर्धमानः क्रमात् प्राप्त-यौवनोऽय विरागवान् / दीक्षां प्रभासकुन्दस्तु ललौ संयतसन्निधौ / / 1435 // सदा तीव्र तपः कुर्वन् पष्ठाष्टमादिकं मृदा / शरीरं कृशयामास प्रभासाभिधसंयतः // 1436 / / विद्याधर विभूतिं तु दृष्ट्वाऽन्येद्युः स संयतः / निदानमकरोदेवं भूयासं खेचरेश्वरः // 1437|| तपोविक्रयतोऽनेन साधुना संयमो मणिः / त्यक्तो मुधा गृहीतस्तु शोकमुष्टिरशर्मदः / 1438 / /