________________ मुक्तिनिलयनामदाने वीरसेननृपकथा .000000000000000000000000000 00000000000000000000000000000000000000000000000 .000000000000000000000000000000000000000000000000000000000000000 यत्र साधून बहून् मुक्तिं गतान् वीरनृपः समम् / निरीक्ष्य प्रददौ मुक्तिनिलयेत्यभिधा यथा // 1 // तथाहि-भूभूषणे पुरे भीम-सेनस्य मेदिनीपतेः / आसन् पत्न्यः शतं तास्वा-दिमा पद्मावती प्रिया // 2 // कुर्वाणे नृपतौ राज्यं सुखिनी जनताऽजनि / धर्मकर्म करोति स्म सर्वैव भूपसंयुता // 3 // यतः-'राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः / राजानमनुवर्तन्ते यथा राजा तथा प्रजा' // 1 // उच्चस्थे तरणौ वर्ष-वासरे विशदक्षणे / सारस्वप्नोचितं पद्मा-बत्यसूत सुतं वरम् // 4 // यतः-"अजवृपमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाद्यच्चाः। दशशिख्यष्टाविंशतितिथीन्द्रिय त्रिधनविशेषु // 1 // उच्चान्नीचं सप्तम-मर्कादीनां त्रिकोणसञ्ज्ञानि / सिंहवृषाजप्रमदा-कामुकभृत्तौलिकुम्भधराः // 2 // सुखी भोगी धनी नेता जायते मण्डलाधिपः / नृपतिश्चक्रवर्ती च क्रमादुच्चग्रहे फलम् / / 3 / / नीचो नीचरतश्चौरो निष्प्रजो बुधवर्जितः / शत्रूपपीडितो रोगी अर्काद्यैर्नीचगैः क्रमात् // 4 // " जन्मोत्सवं पिता कृत्वा, सर्वसजनसाक्षिकम् / पुत्रस्य वोरसेनेति नामाऽदात् शोभनेऽहनि // 5 // वर्द्धमानः क्रमात् पित्रा विमुच्य लेखसद्मनि / धर्मकर्मादिशास्त्राणि पाठितस्तनयः क्रमात् // 6 // यतः- "प्रथमे नार्जिंता विद्या द्वितीये नार्जितं धनम् / तृतीये नार्जितो धर्मश्चतुर्थे किं करिष्यति ? // 1 // जायम्मि जीवलोए दो चेव नरेण सिक्खिअव्याई / कम्मेण जेण जीवइ जेण मुनो सुग्गई जाइ // 2 // " इतः पद्मपुरे वैर-सिंहस्य मेदिनीपतेः / चन्द्रलेखामुखाः पत्न्य आसन्नष्टौ सदाशयाः // 7 // तासामासन् क्रमात्पुत्राः पञ्च पञ्च पृथक् पृथग / एकैका तनया वर्य-रूपाः प्रत्येकतोऽभवन् / / 8 / / पद्मा रामा रमा लक्ष्मी कमला विमलाऽचला / श्रीमतीति सुता अष्टौ बभूवुगुण मन्दिरम् / / 9 // पठन्त्यः पण्डितोपान्ते सर्वाः शास्त्राणि भूरिशः / बभूवुः कोविदोत्तंसा भारतीव तनूभवाः // 10 // यतः- “जले तैलं खले गुह्य पात्रे दानं मनागपि / प्राज्ञे शास्त्र स्वयं याति विस्तारं वस्तुशस्तितः" // 1 // भगिन्योऽन्येरेकत्र मिलित्वेति जगुर्मिथः / अस्माकं कान्त एकः स्या-द्यदि विद्वांस्तदा वरम् // 11 // मूर्खश्चेन्जायते कान्तो यदा नार्याः कुकर्मतः / यावत्रीवं तदा दुःखं पृष्ठिं नैव विमुञ्चते // 12 // अस्मत्कृतसमस्यानां पूरणं यः करिष्यति / स एव रमणोऽस्माकं भवताद् वह्निरन्यथा // 13 // एवं कृतां प्रतिज्ञां तां पुत्रीभिरवगत्य च / भूप आकारयामास भूपानुद्वाहहेतवे // 14 // वीरसेनोऽपि तत्रागाद् मानितो मेदिनीभुजा / सुस्थानदानतोऽन्येपि नृपाः सन्मानिताः स्थिताः // 15 // सबैप भूपणाः सर्वा भगिन्यः सखिसंयुताः / अभ्येत्य भूभुजां पार्वे समस्यामपृच्छन्निति // 16 // सबन्न टुंति अरिहंता' सा नारी मम कथ्य्यताम् / तइया गवगवए गीअं मूलं च सुकृतस्य कः / तो लग्गउ परमत्थि' किं कुर्वन्ति तपोधनाः जग सकलयो जिणि ऊधरियो दिवसकयं किं हरइ पावं ? / एतासां तु समस्यानां पूरणं न महीधरैः / यदा कृतं तदा वीर-सेनः प्राहेति ताः प्रतिः // 17 // घरमज्मे घररहिया चउवीस जिणा (जया) निरावरणा / केवलनाणसमग्गा सव्वन्नू हुंति अरिहंता // 18 // [ धुट 24 ] रोचते या सुपुण्यानां पापानां या न रोचते / गौरागी वल्लभा पत्युः सा नारी मम कथ्यताम् // 16 // [ राका पूर्णिमा ]