________________ 900000000000000000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000000000 विमलगिरिनामविषये सूरभूपर्षिकथा यतः-दुर्बलानामनाथानां बालवृद्धतपस्विनाम् / अन्यायैः परिभूतानां सर्वेषां पार्थिवो गुरुः // 1 // तस्य प्रेमवती पत्नी मन्त्रीशो मतिसागरः / सूरावो नन्दनो वर्य-रूपोऽभूवन्नमी क्रमात् / / 3 // साधयन विषयान् भूपः प्रत्यर्थिपार्थिवान् बहून् / स्वीयाज्ञां ग्राहयामासाऽर्जयामास यशोऽमलम् // 4 // एकदा भूप उद्याने गतः सारपरिच्छदः / कुर्वन् क्रीडां ददर्शक श्वेताम्बरधरां स्त्रियम् // 5|| अप्राक्षीद् भूपतिर्नारी काऽसौ त्वं कुत आगता ? / स्त्री प्राह किं तवेदानीं नामादिपृच्छनैरिह // 6 // राजाऽऽचष्ट करोषि त्वं किं लोकस्य सुखासुखे / नार्याहैमि गृहे यस्य तस्य स्यात् कमला बहु // 7 // राजाऽवक तर्हि मे सद्म कृतार्थय निजागमात् / देव्यभाणीत् प्रगे गेहे समेष्यामि तवेश्वर ! // 8 // हृष्टो नृपो गृहेऽभ्येत्य द्वितीये दिवसे प्रगे / यावद्विलोकते देव्या आगमं संसदि स्थितः // 6 // तावद् भम्भारवं कुर्वन् नरोऽभ्येत्य जगावदः / स्वामिन् ! सिंहरथोऽरिस्त्वद्राज्यं लातुमिहागमत् // 10 // भूप उत्थाय सन्नह्य युद्धं कतु पुराद् बहिः / ययौ यावद्रिपोः सैन्यं महद्वीच्येत्यचिन्तयत् // 11 // यद्यहं करवे युद्ध-मनेन रिपुणा समम् / तदाऽहं हत एवास्मि नूनं स्त्रीजल्पनच्छलात् // 12 // नस्यते साम्प्रतं चेद्धि तदा मे जीवितं भवेत् / जीवन् पुनरो भद्र-शतानि लभते किल // 13 // ततः प्रविश्य पुर्यन्तर्दत्त्वा प्राररिं दृढम् / विमृश्य मन्त्रिणा सार्द्ध नंष्टुकामोऽभवन्नृपः // 14 // कियती कमलां लात्वा पत्नीनन्दनमन्त्रियुक् / राजा छन्नं पुराद्रात्रौ निर्ययौ जीवितेच्छया // 15 // यतः-'अमेध्यमध्ये कीटस्य सुरेन्द्रम्य सुरालये / समाना जीविताकाङ्क्षा समं मृत्युभयं द्वयोः // 1 // सव्वे जीवावि इच्छन्ति जीविडं न मरिजिउं / तम्हा पाणवहं घोरं जावज्जीवाइ वजए // 2 // गतं भूपं प्रगे ज्ञात्वा वैर्यभ्येत्य पुरान्तरे / मदनमापते राज्य-मलंचक्रे सुखेन सः // 16 / / यावन्मदनभूपालो गच्छन् पल्लयां ययौ क्रमात् / तावद्भिल्लैहता सर्वा लक्ष्मीस्तस्य महीपतेः // 17 // यतः-गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् / लालापानमिवाङ्गुष्टे बालानां स्तन्यविभ्रमः // 1 // सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि / शारदाभ्रमिव चञ्चलमायुः किं धनैः कुरुत धर्ममनिंद्यं / 2 / गतायां श्रियि निःशेषः परिवारोपि गतः क्वचित् / एक एव स्थितो मन्त्री स्वामिभक्तिपरायणः // 18 // बुभुक्षापीडितो भूपः पनीतनयमन्त्रियुग् / स्वनिर्वाहं फलैश्चक्रे जीवितेच्छुरनारतम् / / 16 / / चलन्नुमापुरेऽभ्येत्य भूपः स्थित्वा क्वचिद् गृहे / काष्ठादिविक्रयाचक्र निर्वाह कष्टतो निजम् // 20 // तदा मन्त्र्यपि कष्टेन बिभ्राणः स्वोदरं स्वयम् / भूपष्ठिं न मुञ्चेत क्षणमेकं सुभक्तितः // 21 // यतः-'चित्तज्ञः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः / यथोक्तवादी रमृतिमान् मन्त्रीशः श्लाध्यते जनैः // 1 // गते वाष्टके भप एधान्यानेतुमेकदा / यावद्ययौ वने तावद् वनितैका जगावदः // 22 // तव गेहेऽहमेष्यामि यदि ते गेचतेऽधुना। चटिष्यति पितू राज्यं हस्ते रिपोः शयान्ननु(हस्ते मेऽतिशयात् ननु।।२३।। राजाऽवग् वाहितः पूर्व-महं नायकया छलात / राज्यापहारतः किं मे साम्प्रतं लास्यते त्वया ? // 24 // नार्यभाणीद्यया राज्यं गमितं तव भूपते ! / सा तु दारिद्रिणी देवी समेता ते कुकर्मतः // 25 // अहं शुभोदयाद्राज्या-धिष्ठात्री देवताऽधुना / अागताऽस्मि प्रदातु ते राज्यं पैनामहं द्रुतम् // 26 // भूपोऽभणद्वचोदम्भात किं वाहयसि मामिह ? / देव्याचष्ट व्रज स्वीय-पुरे तिष्ठ रहोऽधुना // 27 //