________________ 146 शत्रुञ्जय-कल्पवृत्ती 0000000000000000 0.00000001.00000000000000000000000000000000000000000001 100000000000000000 ततः पद्मो जगौ मात-र्भरतो राजभृद्यदि / तदा मम मनो तीव्र मोदते लक्ष्मणस्य च // 268|| उक्त्वेति सर्वभूपानां प्रत्यक्षं राघवस्तदा / राज्याभिषेचनं चक्र भरतस्य स्वपाणिना // 269 // रामलक्ष्मणसीतानां प्रणम्य भरतः पदौ / यदा च भरतोऽचालीत्तदा रामो जगावदः // 270 // यतः-"आलस्योपहतः पादः पादः पाखण्डसंश्रितः / राजानं सेवते पाद एकः पादः कृषीवलः // 1 // एकं पादं त्रयः पादा भक्षयन्ति दिने दिने / तथा भरत ! कर्त्तव्यं यथा पादो न सीदति // 2 // " एताः पश्य पुरो वत्स ! भुजप्रावरण : प्रजा / आभ्य एव प्रसूयन्ते चामरो चामराः श्रियः / 271 / / प्रपद्य रामवाणी तु भरतो राघवक्रमौ / प्रणम्य चलितः स्वोय-पुरे यातु शनैः शनैः // 272 // कैकेय्यपि यथायोग्यं रामादीनिखिलाँस्तदा / आलाप्य चलिता साई सूनुना हृतमानसा // 273 // ततश्च राघवो हृष्टः सीता-लक्ष्मणसंयुतः / चचाल काननात्तस्मात् स्मरन् पश्चनमस्कृतिम् // 274 // आहूतस्याभिषेकाय विसृष्टस्य वनाय च / ददृशुर्विस्मितास्तस्य मुखरङ्ग समं जनाः // 27 // पथि पथिकवधूभिः सादरं पृच्छयमाना, कुवलयदलनीलः कोऽयमायें ! तवेति / स्मितविकचकपोलं वीडविभ्रान्तनेत्रं मुखमवनमयन्ती स्पष्टमाचष्ट सीता // 276 / / एतावता पथिकवधूभितिमयमस्या भर्ता रामः / / रामो गच्छन् वनेऽन्येद्यु-र्गम्भीरातटिनीतटे / वृक्षस्याधः स्थितोऽप्राक्षी-लक्ष्मणं सोदरं प्रति // 277|| देशोऽयमुद्वसः कस्मा-दभूलक्ष्मण ! जल्प्यताम् / लक्ष्मणोऽवग् नरोऽत्रैति कोऽपि यः पृच्छयते स च // 278|| देशोद्वसनहेतु तु पृष्टः कश्चिन्नरस्तदा / रामेणावग् वरे देशे पुरे राणापुरेऽत्र च // 279 // कर्णो भूपो जिनं देवं जैनं साधु विना क्वचित् / नान्यं कुलिङ्गिनं नौति सरागं निर्जरं पुनः // 280 // यतः-सर्वज्ञो जितरागादि-दोषत्र लोक्यपूजितः / यथास्थितार्थवादी च देवोऽहन् परमेश्वरः // 28 // ध्यातव्योऽयमुपास्योऽय-मयं शरणमीप्यताम् / अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् // 282 // सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि / कृपाहीनोऽपि धर्मः स्यात् कष्ट नष्ट हहा ! जगत् / / 283 // श्रुत्वैतन् नियम तस्या-भ्येत्य सिंहोदरो नृपः / यावद् हन्ति नृपं कर्ण तावन् नंष्ट्वा गतः स च // 284 // साधर्मिकः स कर्णो मे ध्यात्वेति रामभूधवः / हत्वा सिंहोदरं कर्ण राज्ये तस्मिन् न्यपीविशत् / / 285|| यतः-दानं वित्ताहतं वाचः कीनिधर्मों तथाऽऽयुषः / परोपकरणं काया-दसारात सारमुद्धरेत् // 1 // इतोऽन्यत्र गते रामे विद्याधरमुनी उभौ / सीतया शुद्धभक्त न हईंग प्रतिलामितौ // 286 // यतः-अभयं सुपरसदाणं अणुकंपा उचित्र कित्तिदाणं च ।दोहि विमुक्खो भणिो तिनिवि भोगाइयं दिति // व्याजे स्याद् द्विगुणं वित्तं व्यवसाये चतुर्गुणम् / क्षेत्रे शतगुणं प्रोक्त पुण्येऽनन्तगुणं भवेत् // 287 // तदा सुगन्धनीरेण पुष्पाणां प्रकरैर्वरैः / सुमनोभिः कृता वृष्टि-स्तत्र सीताग्रतस्तदा // 288i भरतोऽपि स्वपुरेऽभ्येत्य प्रणम्य रामपादुके / सभायां तस्थिवान् भूरि-नृपसेव्यपदाम्बुजः // 28 // एकदा बहिरुद्याने धनेश्वरगुरोः पुरः / सुश्राव भरतः क्षोणी-पतिरेवं कृतादरम् // 26 // रयणदीवम्मि गो गिण्हइ इक्क पि जो महारयणं / तं तस्स इहाणीयं महग्धमोल्लं हाइ लोए // 1 // जिणधम्मरयणदीवे जं णियममणि लहइ इकपि / तं तस्स अणग्घयं होहिह पुरणं परभवम्मि // 2 //