________________ जैनगीतासम्बन्धः 141 000000000000000 100000000000000000000000000000000 .000000000000000000000000000000 वस्त्रादिदानतः सर्वान भूपान् सन्मान्य मोदतः / स्वं स्वं पुरं प्रति क्षमापोजनकोऽचालयत् क्रमात् / / 142 // अश्वादिदानतो भूमी-भुजा दशरथो नृपः / सन्मानितश्चतुःपुत्र-युतः स्वपुरमीयिवान् // 143 / / भामण्डलोऽपि रामेण सह प्रीतिं दधन् भृशम् / आगाद् दशरथेनाऽमा तत्रैव नगरे तदा // 144|| रामेण मानितोऽत्यन्तं वस्त्रान्नादिप्रदानतः / भामण्डलो ययौ स्वीये पुरे व्योमगसेवितः / / 14 / / सर्वासां तु वधूटीनां वासावासान् पृथक् पृथग् / ददौ दशरथः क्षमापः सन्मानदानपूर्वकम् / / 146|| राजा दशरथो लात्वा बलमश्वेभशालिनम् / साधयामास भूपीठं सागरान्तिकमञ्जसा / / 147 / / स्वकारिते जिनागारे-ऽन्यदा दशरथो नृपः / स्नात्रं विस्तरतश्चक्रे शान्तेस्तीर्थपतेमुदा / / 148|| मङ्गलार्थ जिनस्नात्र-पयः पृथक् पृथग् नृपः। राज्ञीभ्यः प्रेषयामास वधूटीभ्यश्च सादरम् / / 149 / / भूपेन प्रेषितं स्नात्र-पयो राज्ञीभ्य आहेतम् / स्वपार्वे नागतं मत्वा सुमित्रा मत्त मिच्छति // 150 // मत्तुं पाशं गले यावत् सुमित्रा क्षिपति स्वयम् / तावद् दृष्ट्वा नरः कश्चिद् भूपाग्रे तन् न्यवेदयत् / / 151 / / तत्रेत्य त्वरितं पाशं सुमित्राकण्ठगं नृपः / छित्वा प्राह प्रिये ! प्राण-त्यागः किं क्रियते त्वया ? // 152|| सुमित्राऽवक त्वयाऽन्यासां राज्ञीनां स्नात्रजं पयः / प्रेषितं न हि मह्य तु म्रियेऽहं तेन पाशतः // 153 // राजा प्राह मया प्रैषि तुभ्यं स्नात्रपयस्तदा / तत्रैत्य वामनो नीरं लात्वा तत्रागमच्चिरात् // 154 // राजाऽवग वामनोत्सरे त्वयाऽत्राऽऽनायि किं पयः ? / वामनः प्राह वार्द्धत्वा-दहयोर्मन्दगतिर्मम // 15 // आकण्यैतत्तदा दध्यो सुमित्रा मयका मुधा / कान्तस्योध्वं कृतः क्रोधो मत्तुंच वाञ्छितं मुधा / / 156 / / यतः-"अपूर्वः कोऽपि कोपाग्निः सजनस्य खलस्य च / एकस्य शाम्यति स्नेहा द्वद्धतेऽन्यस्य वारितः।।१।। न कश्चित् चण्डकोपाना-मात्मीयोऽस्तीह भूतले / होतारमपि जुह्वानं स्पृष्टो दहति पावकः।।२।। इकोहु जाणइ कोइ पाणी मही पालेवणउं / बाहिरि धूम न होइ अभितर भडके बलइ // 3 // " भृपो दध्यौ मृगाक्षीणा-मीपेक्षा प्रजायते / पापबुद्धिः स्त्रियामेव नृणां चित्ते न विद्यते // 157 // एवं चिन्तयतो राज्ञोऽभ्येत्यावग् वनपालकः / उद्याने कमलाचार्यो ज्ञानी च (व) समवासरत् / / 158|| दानं तस्मै वितीर्यादौ राजा रामादिपुत्रयुग् / नन्तु भूरि ययौ यावद् भामण्डलस्तदाऽगमत् // 159 / / प्रदक्षिणात्रयीं दत्त्वा सूरे राजाऽथ देशनाम् / श्रोतु-चोपाविशद् याव-तावज्ज्ञानी जगावदः // 160 // पात्रमुत्तमगुणैरलङ कृतं दायकस्तु पुलकं दधतनौ। देयवस्तु परिशुद्धपुष्कलं निष्कलङ्कतपसामिदं फलम् / 161 / यस्य कुक्षिगतं चान्नं शास्त्राभ्यासेन जीर्यति / तारयेत् स्वं पराँचापि दश पूर्वान् दशाऽपरान् // 162 / / पौषध-प्रतिमा-पार्श्व-सेवा-पद्मप्रभार्चनाः / परमेष्ठिपरं ध्यानं पुण्डरीकश्च मुक्तिदाः // 163 // स्पृष्ट्वा शत्रुञ्जयं तीर्थ नत्वा रैवतकाचलम् / स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते // 164|| आकण्यैतदशरथो जगौ शत्रुञ्जये जिनः / न नम्पते मया यावद् भूरिसङ्घौधशालिना // 165 / / तावन्मयकशो भोज-नीयं वासरमध्यतः / भूशय्या ब्रह्मचर्य च ताम्बूलवर्जनं पुनः // 166 / / सचित्तानां परित्यागः एकैव विकृतिः पुनः / गृहीतव्या मया नूनं भवत्वेवमभिग्रहः // 167. / ततो भामण्ड लोऽवादीद् भगवन् ! किं मनो मम / सीतां दृष्ट्वा विकसति वार्द्धिश्चन्द्रोदयं यथा ? // 168 / / ज्ञानी प्राह पुरे चक्रे चक्रध्वजमहीपतेः / मनःमुन्दर्यभूत् पत्नी पुत्री च रतिसुन्दरी // 169 / /