________________ जैनगीतासम्बन्धः 137 ...300000 100000.......................... .. ............0000001 व्याघ्री सुकोसलं चादा-वाहत्यापातयद् भुवि / विदार्य खादितु लग्ना मांसं च तस्य निर्दयम् // 26 // कल्याणखचितान् दन्तान् दृष्ट्वा व्याघ्री व्यचिन्तयत् / किमेतद् वदनं पूर्व मया दृष्टं चिरं स्फुटम् // 30 // तदा तयेक्षितः पूर्व-भवो जातिस्मृतेद्रुतम् / यावत् सा व्यरमद् व्याघ्री तावत् सद्ध्यानमाश्रिता // 31 // सुकोसलस्याभवज्ज्ञानं केवलं च शिवं पुनः / कृते ज्ञानोत्सवे कीर्ति-धरस्यापि च विद्वरा // 32 // सा व्याघ्रो स्वं कृतं कर्म निन्दति ज्ञानिसाक्षिकम् / गृहीतानशना स्वर्ग-लोके समगमत्तदा // 33 // देवा ज्ञानोत्सवं कृत्वा तयोर्यत्योस्तदाऽऽदरात् / जग्मुः सुरालये लान्तो गुणांश्चारित्रिणोस्तदा // 34 // सुकोसलस्य पट्टेऽभूद् हरिण्यगर्भभूपतिः / तस्य पट्टऽभवद् वर्यो नघुषो मेदिनीपतिः // 3 / / नघुषे शात्रवान् जेतु गते पूर्वदिशि स्फुटम् / अागतं वैरिणश्चक्रं जिगाय सिंहका प्रिया // 36 // पश्चाद् भूपः समायातो गजा ज्ञात्वा प्रियावलम् / दुनोऽजनि निजे चित्ते शीलभङ्गादिहेतुतः // 37 // अन्यदा भूपतेरङ्गे रोगोऽसाध्योऽजनि स्फुटम् / तदा केनापि वैद्येन नास्फेटि तच्छरीरतः // 38 // ततो राड्या सुशीलिन्या करस्पर्शान्महीपतेः / शान्तो रोगस्ततः सर्व-प्रजाभिमुदितं भृशम् // 36 // स भूपस्त्वरितं त्यक्त्वा लात्वा गुर्वन्तिके व्रतम् / कर्मक्षयाद्ययौ मुक्ति-पुर्यां भूयिष्ठसाधुयुग् // 40 // सोदासोऽथाऽभवत् सिंह-रथो विजितशात्रवः / ततो ब्रह्मरथो जात-श्चतुमुखोऽभवत्ततः॥४१॥ ततो हेमरयशत-रथराजादयस्तथा / आदित्यरथमान्धात वैरासनस्ततः क्रमात् // 42 // प्रतिमन्युनृपस्तत्र बन्धुभूमिपतिस्ततः / रविमन्युरभूद्राजा वसन्ततिलकस्ततः // 43 // ततः कुबेरदतोऽभूत् श्रीकण्ठः शरभस्ततः / ततः सिंहो महासिंहो हरिण्यकतिपुस्ततः॥४४॥ पुञ्जस्थलः ककुडोऽथ रघुभूमीपतिस्ततः / एतेषु निवृति केचिद् गताः केचित् सुरालयम् // 45 / / अनरणो नृपस्तस्मात् साकेतपत्तनेऽभवत् / ततोऽजयोऽभवत पुत्रो रूपनिर्जितमन्मयः // 46 // स शत्रून् स्ववशान् कुर्वन् पूर्वोपार्जितकर्मणा / सप्तोत्तरशतेनैव व्याधिभिः पीडितोऽजनि // 47 // एवं विधामयाग्रस्तो लसत्पौरुषशालितः / साधयामास दुःमाधान धराधीशान परःशतान् // 48 // जयन् शत्रून् महीपालः सुराष्ट्रमण्डलं ययौ / नत्वा शत्रुञ्जये देवान् गतश्च देवपत्तने 46|| इतः सांयात्रिको रत्न-सारो विभवहेतवे / आपूर्य वस्तुभिर्यानं चचालाऽम्भोधिवमनि // 50 // शुभवाताचलयानं घस्रांस्त्रिंशत् पयोनिधौ / एकत्रिंशतमे घस्र रत्नसारो वगिपतिः / / 51 // द्वोपं निरोक्ष्य भूयिष्ठ दानं विश्राणयन् भृशम् / वादित्रनिनदैः पूर्ण्य-कार्षीत् सर्व नभस्तलम् ।।५२।।युग्मम्।। तदाऽकस्माद् घनो व्योम छादयन्नभ्रमण्डलैः / गर्जन् करटिवद् भीष्मा-कारस्तत्रागमत् क्षणात् / / 53 / / वात्यावर्त्तभ्रभत्पोतं वीक्ष्य सांयात्रिका जनाः / जगुर्यानस्य भङ्गन प्राणा यास्यन्ति योऽधुना ||54 // ततः सर्वे जनाः स्वं स्वं देवं स्मरत आदरान् / एकाग्रमानसा जाता ध्यानगाः संयता इव // 55 / / जीवन्ति येन मेघेन वर्षता मनुजाः खलु / स एव साम्प्रतं जीवान् घातयिष्यति शीघ्रतः / / 56 / / लुलत्कन्दुकवत् पोतः प्रहतः परितोऽधुना / कल्लोलयष्टिभिः सद्यः शतखण्डो भविष्यति // 57 / / याद्यानं न शोर्येत यावद् डन्ति नो जनाः / तावनिपत्य पाथोधौ प्राणान् त्यजाम्यहं स्वयम् / / 58 / ध्यात्वेति स यदा पोत-प्रान्ते त्यक्त ममन् ययौ / तदाऽकस्मादभूद्वाणी तच्छोतो(त्र)हर्षदायिनी // 5 //