________________ 100 शत्रुञ्जय-कल्पवृत्ती .0000000000000000001 100000000000000000000000000 000000000000000000000000000000000000000000000000000000000 000000000 गिरिनारगिरेरन्तः कृत्वा स्वर्णबलानकं / अस्थापि प्रतिमा रत्न-मयीन्द्रण च्युतिक्षणे / / 23 // रैरूप्याश्ममया अन्या भूपस्य प्रतिमा दृढाः / स्थापितास्तत्र शक्रण स्वश्रेयोऽर्थ शिवेच्छुना // 24 // * साऽद्यापि मूर्तिरस्माभिः पूज्यतेऽन्यैश्च वासवैः / कल्याणत्रयमत्रैव भविष्यत्येव नेमिनः // 25 // इति नेमिस्थापनासम्बन्धः सुराष्ट्रां रक्षतः शक्ति-सिंहस्य मेदिनीपतेः / छत्रत्रयं वितीर्याथ भरतश्चक्रिराड जगौ // 1 // सुराष्ट्रायां त्वया राज्यं कुर्वता तीर्थयोयोः / विघ्नापसारतो रक्षा विधातव्या दिवानिशम् // 2 // हारादिभिरलङ्कारै-गजवाजिरथैर्घनैः / रत्नद्रव्यैः स सन्मान्य शक्तिसिंहं व्यसर्जयत् // 3 // पुण्यानुबन्धिपुण्यं तु कुर्वाणः शक्तिसिंहराट् / आराधयन् जिनं सर्वाः प्रजाः पालयति स्म सः // 4 // पश्चाच्चक्री समागच्छ नबुदे धरणीधरे / प्रासादानहतां चक्रय--चीकरत् पुण्यहेतवे // 5 // .. प्रतिमास्तेषु सर्वज्ञ-गेहेषु भरताधिपः / स्थापयामास तीर्थेश-युगादीशार्हतां वराः // 6 // ततो भरतचक्रीशः कारयन्नुत्सवं सदा / अयोध्यायां समायातः प्रवेशोत्सवपूर्वकम् // 7 // तथाहि-भटैर्जयजयाराव-मुच्चरद्भिः पुरोगतः / गायद्भिर्गायनाम-रागरणपवित्रितम् // 8 // उच्चारिणीभिर्धवलान् कुलस्त्रीभिश्च पृष्ठितः / गणभृद्भिः पुरस्ताच सङ्गतः सुकृतैरिव // 9 // अनुव्रजन सर्वशोभा सङ्गतेऽमी देवतालयम् / प्रविवेश पुरी चक्री समं सङ्घसुरासुरैः ॥१०॥त्रिभिर्विशेषकम्।। पुरान्तमुख्यतीर्थेषु नत्वा श्रीप्रथमं प्रभुम् / नरेशोऽगानिजावासं परिधाप्य गुरूनपि // 11 // हायनानां शतप्रान्ते पुनर्भरतभूपतिः / मेलयित्वा बहुं सङ्घ यात्राहेतु चचाल सः // 12 // मार्गे पुरे पुरे ग्रामे-ग्रामे तीर्थकृतं पुनः / पूजयन् प्रददद् दानं ददानोऽचलदादरात् // 13 // श्रीसिद्धारधो भूमौ गत्वाऽऽदिमजिनेशितुः / विस्तरादर्चनां कृत्वा ध्वजादानं व्यधात् पुनः // 14 // शोभने वासरे सङ्घ-नायकस्तिलकं वरम् / कारयामास भूयिष्ठ-विभवव्ययतः खलु // 15 // तत्र श्रीश्रादिदेवस्य प्रासादं प्रवरं तदा / कारयित्वाऽऽदिमं देव-मस्थापयन्नरेश्वरः // 16 // याचकेभ्यो ददन दानं मुखमार्गितमादरात् / ऊव सिद्धमहीध्रस्य ययौ भरतसङ्घराट् // 17 // स्नात्र-पूजाध्वजारोप-मुख्यकृत्यान्यनेकशः / कृत्वादिजिननाथस्य भावनां नृपतिय॑धात् // 18 // विधाय विस्तराद्यात्रां चक्री शृङ्गषु तेषु च / सदुत्सवमयोध्यायां समागात् सङ्घ-संयुतः // 19 // अन्येद्य श्चक्रिराड् भूयः पुण्डरीकमहीभृतः / उपत्यकावनावेत्य तस्थौ सङ्घसमन्वितः // 20 // तत्र प्रौढं पुरं सौपा-रकपत्तनसज्ञितम् / स्थापयित्वाऽऽदिदेवस्य प्रासादं विपुलं व्यधात् // 21 // स्थापयित्वाऽऽदिदेवस्य प्रतिमां चक्रिराट् तदा / प्रारुरोह गिरेः शृङ्ग मुख्यं कुर्वन् महोत्सवम् // 22 // स्नात्र-पूजाध्वजारोप-मुख्यकृत्यान्यनेकशः / कृत्वा सङ्घपतिस्तत्र विनीतापुरमीयिवान् / / 23 / /