________________ नेमिस्थापनासम्बन्धः 0.000000000000000000000sana तत्र स्थानेऽहतो गेहं स्फारमादिजिनेशितुः / कारयित्वाऽऽदिमश्चक्री तापसाह्न व्यधात्तदा // 6 // एकदा भरतश्चकी चन्द्रप्रभजिने-शितुः / कारयित्वाऽऽलयं मूर्ति तत्र तस्य व्यधात् वराम् // 7 // तत्तीर्थमधुना लोके ख्यातं प्रभासनामतः / अद्यापि तस्य तीर्थस्य माहात्म्यं विद्यते महत् // 8 // तस्मिँश्चन्द्रप्रभासाह्व तीर्थे तीव्रतरं तपः / कुर्वाणा वहवो वाचं-यमा मुक्तिपुरी ययुः // 9 // बहवस्तापसारतत्रा-भ्येत्य जैनं व्रतं क्रमात् / प्राप्य क्षिप्त्वाऽखिलं कर्म मुक्तिपुर्यां समागमन् // 10 // 10 इति चन्द्रप्रभास-तीर्थसम्बन्धः / // अथ नेमिस्थापनासम्बन्धः / / उज्जयन्ताभिधे शृङ्ग नेमेर्भविष्यतोऽर्हतः / दीक्षा-ज्ञान-शिवप्राप्तिं ऋषभस्याहतः पुरः॥१॥ आकर्ण्य प्रथमश्चक्री कल्याणकत्रिकाभिधम् / प्रासादं प्रवरशिल्पि-पादिकारयत्तदा // 2 // राजते तत् प्रतिदिश-मेकादशसुमण्डपैः / चतुर्दारो महानन्य-नाम्ना यः सुरसुन्दरः // 3 // बलानकैर्गवाक्षश्च तौरणैश्च मनोहरैः / प्रासादो भासतेऽत्यन्तं सर्वत्रोद्यानमण्डितः // 4 // तत्र तीर्थे तु नागेन्द्र मोरादिकुण्डसप्तकम् / विद्यते यत्र पानीयं सुधायूषसहोदरम् // 5 // वनानि तत्र शोभन्ते नानावृतैमनोहरैः / शृङ्गाणि शतशः सन्ति यत्र हेमादिधातवः // 6 // तत्रानेकास्तु विद्यन्ते स्वर्णरेखादयो वराः / सरितोऽमृतदेशीय-पानीयपूरिताः सदा // 7 // हंस-कारण्ड-हारीत-शुक-सारसपक्षिणः / तत्र तीर्थे स्थिता भेजुः सुखं स्वर्गसुखोपमम् // 8 // अथाभ्येत्य परामोद-पूरपूर्णहृदन्तराः / अपूजयन्नेमिजिनं देवाः शक्त्याहृतैः सुमैः // 6 // शृङ्ग तत्र जिना एयु-रनन्ताः सुरसेविताः / प्रायास्यन्ति पुनः सङ्ख्या-व्यतीता ज्ञानशालिनः // 10 // तदानीं भूभुजोऽन्येऽपि प्रासादान्नेमिनोऽर्हतः / कारयामासु रम्यांश्च भूरिलक्ष्मीव्ययात् क्रमात् // 11 // तेषु तेषु च सर्वज्ञा-गारेषु ध्यायतां नृणाम् / जिनं येषामभूज्ज्ञानमन्यूनं चाभवच्छित्रम् // 12 // तेषां न ज्ञायते सङ्ख्या विनाऽव्ययविदं क्वचित् / अतस्तीर्थमिदं पूज्यं नृपाणां मरुतामपि // 13 // तत्र नेमिजिनं भक्त्या संस्मृत्य भरतेश्वरः / पूजयित्वा प्रभु तस्थौ विलोकयन् मुखं प्रभोः // 14 // इतः पश्चमकल्पेशो ब्रह्मन्द्रोऽमरकोटियुग् / आगतो नेमिनं नन्तु पञ्चमात् कल्पतस्तदा // 15 // प्रभु प्रणम्य भरतं वन्दित्वा च प्रमोदयुग् / ब्रह्मन्द्रः प्रोक्तवान् चक्रिन् ! जय त्वं चिरकालतः // 16 // यथा श्रीऋषभस्वामी प्रथमस्तीर्थनायकः / तथा त्वं प्रथमसङ्घ-पतिस्तीर्थप्रकाशकः // 17 // भरतोऽवक कुतः स्थानादत्राऽऽगाः किंकृते वद / स प्राह ब्रह्मकल्पेशो-ऽहमस्मि धरणीधव // 18 // भवता कारिते नेमि-चैत्ये नेमिजिनेशितुः / बिम्ब नन्तुमगां ज्ञात्वा- अधिज्ञानात् नरेश्वर ! // 16 // उत्सप्पिण्यामतीतायां सागरस्याहतोऽन्तिके / ब्रह्मकल्पाधिपोऽप्राक्षीत् कदाऽहं नितिं गमी // 20 // जिनोऽवगवसपिण्यां भाविनो नेमिनोऽहंतः। द्वाविंशस्य गणाधीशो भूत्वाऽथो मुक्तिमेष्यसि // 21 // स च शक्रो निजे कल्पे या मूर्ति नेमिनो व्यधात् / अपूजयत् चिरं भक्तया दिव्यपुष्पैर्मनोहरैः // 22 //