________________ परिशिष्ट-३A 177 | परिशिष्ट-३ / / उपदेशरहस्यप्रकरणान्तर्गत उपदेशपदग्रन्थान्तर्गतं च पदार्थादीनाम् स्वरूपम् / / A / / उपदेशरहस्य / / पदार्थादीनामेव सम्भूय कार्यकारित्वं व्यवस्थापयति - एत्थ पयत्थाईणं मिहो अवेक्खा हु पुण्णभावंगं / लोअंमि आगमे वा जह वक्वत्थे पयत्थाणं / / 157 / / अत्र पदार्थादिष्वर्थभेदेषु, पदार्थादीनां मिथा-परस्परमपेक्षान्क्रमिकोत्पादरूपा, पूर्णभावांगं-एकोपयोगाश्रययावत्पर्यायसिद्धिनिबन्धनम्, लोके आगमे वा यथा वाक्यार्थे पदार्थानाम् / अथ वाक्यार्थप्रतीतौ पदार्थप्रतीतीनां हेतुत्वात्तत्र तदपेक्षा युज्यते, प्रकृते तु पदार्थादीनामैदम्पर्यार्थपर्यवसन्नत्वेन कार्यान्तराभावात् क मिथोऽपेक्षास्त्विति चेत् ? न, यावत्पदार्थप्रतीतीनामेव वाक्यार्थप्रतीतित्वेन तेषां परस्परमपेक्षावत्पदार्थादीनां परस्परमपेक्षोपपत्तेः, सापेक्षपदार्थादिसमुदायात्मकोपयोग एव तदावरणक्षयोपशमहेतुत्वात् / / 157 / / तत्र लोक एव तावत्पदार्थादीनां मिथोऽपेक्षां व्युत्पादयति - 'पुरओ चिट्ठइ रुक्खो' इय वक्काओ पयत्थबुद्धीए / ईहावायपओअणबुद्धीओ हंति इयराओ / / 158 / / 'पुरतस्तिष्ठति वृक्ष' इति वाक्यात् पदार्थबुद्ध्या ‘मदभिमुखदेशस्थित्याश्रयो वृक्ष' इत्याकारया ईहापाय. प्रयोजनविषया इतरा वाक्यार्थमहावाक्याथैदम्पर्यार्थधीरूपा बुद्ध्यः भवन्ति / तथाहि - ‘अग्रे वृक्षस्तिष्ठती' ति प्रतीत्यनन्तरं वृक्षो भवन्नयं किमाम्रो वा स्यान्निम्बो वेति वाक्यार्थप्रतीतिः प्रादुर्भवति, ततः प्रतिविशिष्टाकारावलोकनेनाम्र एवायमिति महावाक्यार्थधीः स्यात्, ततः पुरः सरसाम्रार्थिना प्रवर्तितव्यमित्यैदम्पर्यार्थधीरिति / न ह्येवंप्रकारं विना निराकाङ्क्षप्रतीतिः सिद्ध्येत्, पदार्थमात्रज्ञानात् पदार्थस्मारितविशेषार्थजिज्ञासारूपाया आकाङ्क्षाया अनुच्छेदाद्वाक्यार्थस्याऽपर्यवसितत्वात् / / 158 / / आगमेऽपि तामाह - 'हंतव्या नो भूआ सव्वे' इह पायडो चिय पयत्थो / मणमाईहिं पीडं सव्वेसिं चेव ण करिजा / / 159 / / 'सर्वाणि भूतानि न हन्तव्यानि' - इह प्रकट एव पदार्थः ‘मनआदिभिर्मनोवाक्कायैः, पीडां-बाधाम्, सर्वेषामेव-समस्तानामपि जीवानाम्, न कुर्यात्न्न विदध्यादिति / / 159 / /