________________ नयामृतक्षिणी-तरविणीतरणिभ्यां समहतो नयोपदेशः। कण्ठगतचामीकरन्यायेनातथाप्तत्वभ्रमादेव मुक्त्यवं प्रवृत्तिमिच्छन्ति तेषां वेदान्तशास्त्रादिवासनया मुक्केर. वाप्तत्वामिमाने कुतः केशमूल्ब्रह्मचर्यायनुभवनशीलनवं स्यादिति / / 76 // ___ ननु सर्वत्र नायमतिप्रसङ्गो भविष्यति, तथा " बुद्धाद्वैतस्वतत्वस्य यथेष्टाचरणं यदि / शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे // 1 // " [पञ्चदशी- ] इत्यादिविचारवता शुद्धनयज्ञाननिष्ठास्थिरैकब्रह्मवादिना वेदान्तिनां विशिष्य मिथ्यात्वमक्दियति-ये हीति / कण्ठगतचामीकरम्यायेनेति-चामीकरसुवर्णम्, कस्यचित् पुंसः कण्ठे सुवर्षभूषणं समस्त्येव, अथापि स दोषवशात् सुवर्णभूषणं मम कुत्रापि पतितमित्यवगच्छन् तदन्वेषणप्रवृत्तः कण्ठकण्डूयनार्थ कण्ठदेशे हस्तव्याप रतस्तद्गतमेव सुवर्णभूषणमासाद्य कृतकृयो भवति, अभिलपति च सुवर्णभूषणमवाप्तं मयेति, तथा तन्मते जीवमात्रस्य सच्चिदानन्दब्रह्मरूपस्य सर्वदैव तद्रूपेण व्यवस्थितस्य ब्रह्मैक्यलक्षणा मुक्तिरस्त्येव, अथापि तदनाप्तस्वभ्रान्स्या तत्स्वरूपावार्थ प्रवृत्तस्य तदनाप्तत्वभ्रममूलाविद्योच्छेदे तदवाप्तिर्भवतीत्येवमुक्तन्याय. सङ्घटना, “नातथाप्तत्वभ्रमादेव" इत्यस्य स्थाने " नानवाप्तत्वभ्रमादेव" इति पाठो युक्तः / तेषां ब्रह्मवादिनाम् , वेदान्तशास्त्रवासनया "तत्वमसि, अहं ब्रह्मास्मि" इत्यादिवेदान्तार्थप्ररूपकशास्त्रार्थज्ञानजन्यवासनया, मुक्केरवाप्तस्वाभिमाने यद्यपि सकलकर्मक्षयलक्षणा परमानन्दावाप्तिलक्षणा वा मुक्ति प्ता, तथापि स्वयमुत्प्रेक्षिता नित्यब्रह्मात्मस्वलक्षणा मुक्तिनित्यत्वादवाप्तव ब्रह्माभिन्नस्य खस्य इत्येवमवाप्तत्वाभिमाने सति, कुत इति-अप्राप्तेष्टप्राप्तये प्रेक्षावन्तः क्लिष्टानुमानमातिष्ठन्ति, न तु प्राप्तत्वेन ज्ञातस्येष्टस्य प्राप्तये क्लिश्यन्ति, ततः क्लेशमूलमतिप्रयत्नप्रभवं यद् ब्रह्मचर्याद्यनुभवनं तत्परिशीलनत्वं-तदभ्यसनत्वं तदेकतानत्वमिति यावत् , कुतः स्यात? न कुतश्चित् , तथा च प्राप्तां मुक्तिं जानन्तोऽपि ब्रह्मवादिनो यत् प्रवर्तन्ते तन्मिथ्यात्वमेवेत्याशयः // 76 // सप्तसप्ततितमं पद्यमवतारयति-नन्वित्यादिना / निश्चयनयोपजीविनो वेदान्तिनः सर्वेऽपि न प्रवृत्तिमूलव्यवहारमुत्साद. यन्ति येन तेषां प्रवृत्तिमूलव्यवहारोच्छेदेन मिथ्यात्वं प्रसज्येत, किन्तु शुद्धाद्वैतब्रह्मस्वरूपं स्वात्मानं जानन्तोऽपि ते नामध्यभक्षगादिकं यथेष्टमाचरन्ति, तथा सति शुनां तत्त्वदृशां च भेद एव न स्यादत एतादृशविचारवद्भिस्तैर्व्यवहारावलम्बिनी क्रिया सुरक्षितैव भवतीत्यत्र पञ्चदशीवचनमुपोदलकं अनाति-बुद्धेति-पद्यमिदं स्पष्टार्थम् / इत्यादिविचारवता इत्यादिवचनोपदर्शितविचारशालिना। शुद्धनयशाननिष्ठावताऽपि शुद्धो यो निश्चयनयस्तद्रूपं यज्ज्ञानं तदभिमततत्त्वज्ञानं वा तद्विषयकनिष्ठावता, यदेव निश्चयनयात्मकं निश्चयनयाभिमतं वा तत्त्वज्ञानं तदेव तथ्यमिति श्रद्धावताऽपि / यश्च मुक्त्यवाप्तये प्रवर्तते वेदान्ती सोऽपि व्यवहारं न परित्यजतीत्याह-साधकेन चेति-अस्य व्यवहारापरित्यागाद् इत्यनेनान्वयः / तत्र गीतावचनोपष्टम्भमाह- भारुरुक्षोरिति / इत्यादिवचनादित्यत्रादिपदेन "योगारूढस्य तस्यैव शमः कारणमुच्यते // " इत्युत्तरार्द्धस्य " यदा हि नेन्द्रियार्थेषु न कर्मखनुषज्यते / सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते // " [गीता. ] इत्युत्तरपद्यस्य योगारूढलक्षकस्योपग्रहः। पद्यद्वयं चेदं शङ्कराचार्यणावतार्येत्थं व्याख्यातम् -" ध्यानयोगत्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वाऽधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति- आरुरुक्षोरिति- आरुरुक्षोरारोदुमिच्छतोऽनारूढस्य ध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः, कस्यारुरुक्षोः ? मुनेः-कर्मफलशंन्यासिन इत्यर्थः, किमारुरुक्षोः ? योगं, कर्म कारणं साधनमुच्यते योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकामेभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनमुच्यत इत्यर्थः, यावद्यावत् कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते, तथा सति स झटिति योगारूढो भवति, तया चोक्तं व्यासेन- " नैतादृशं ब्राह्मणस्यास्ति वित्तं यथकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्वोपरमः क्रियाभ्यः॥" इति // 3 // अथेदानी कदा योगारूढो भवतीत्युच्यते- यदेति- यदा समाधीयमानचित्तो योगी हीन्द्रियार्थेषु-इन्द्रियाणामाः शब्दादयस्तेष्विन्द्रियार्थेषु, कर्मसु च- नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभावबुद्धया नानुषज्यते- अनुषचं- कर्तव्यताबुद्धि न करोतीत्यर्थः, सर्वसंकल्पसंन्यासी- सर्वान् संकल्पानिहामुत्रार्थकामहेतून् संन्यसितुं शीलमस्येति स सर्वसंकल्पसंन्यासी, योगारूढः- प्राज्ञयोग इत्येतत् तदा- तस्मिन् काल उच्यते, सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि च कर्माणि संन्यसेदित्यर्थः, संकल्पमूल्म हि सर्वे कामाः, “संकल्पमूल: कामो यज्ञाः संकल्पसम्भवाः" "काम ! जानामि ते मूलं संकल्पात् त्वं हि जायसे। न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि"