________________ . नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो न्योपणेयः / विवेचितः प्रस्थकदृष्टान्तोऽथ वसतिदृष्टान्तं विवेचयति लोके चेत्यादिना लोके च तिर्यग्लोके च, जम्बूद्वीपे च भारते / क्षेत्रे तद्दक्षिणार्धे च, पाटलीपुरपत्तने // 67 // नयामृत-लोक इति / कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगम-व्यवहारवादी लोके वसामीति ब्रूते, जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेरधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव निरूपकता. वच्छेदकत्वाद्, अत एवाकाशे वसामीति तस्य न प्राथमिकः प्रयोगः, शुद्धाकाशत्वस्यातथात्वात् , ततः शुद्धस्तु नैगमो व्यवहारो [वो ध]स्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीति प्रभे तिर्यग्लोके वसामीत्युत्तरयति, एवं यथोत्तरप्रश्रेषु यथोत्तरशुद्धा जम्बूदीपादि(वादिनः) / / 67 // . गृहे च वसतेः कोणं, नैगम-व्यवहारयोः। अतिशुद्धौ तु निवसन्, वसतीत्याहतुः स्म तौ // 68 // तु. एकशब्दप्रतिपाद्यत्वेन तेषामन्योऽन्यं तादात्म्यं तदा तत्प्रतिपादिका संज्ञाऽप्यभिन्नेति तेषां तुल्यनामधेयत्वमुपपद्यते, सर्वथाऽर्थानामर्था-ऽभिधान-प्रत्ययानामभेदे 'अयमर्थ इदमभिधानमयं च प्रत्ययः' इति व्यवहारवैचित्र्यं नोपपद्येतातः कथश्चित् तेषां भेदे तत्प्रतिपादकत्त्य समानानुपूर्वी कस्यापि कश्चिद्भेद इत्याशयेनैकनामधेया इत्यनभिधाय तुल्यनामधेया इत्येवमुक्तिः / ज्ञानाज्ञानात्मकत्वोभयेत्यादिप्रन्थरहस्योपवर्णनं नयरहस्यव्याख्यायामस्माभिः कृतमिति विशेषजिज्ञासुभिरवलोकयीयं तदिति // 66 // सप्तषष्टितमपद्यमवतारयति-विवेचित इति / अथ प्रस्थकदृष्टान्तविवेचनानन्तरम् / विवृणोति-लोक इतीति / लोके वसामीत्यत्र सप्तम्या लोकस्य वसतिनिरूपकाधारत्वं प्रतीयते, तत्र का नाम वसतिः ? तन्निरूपकतावच्छेदकं लोकत्वं किमित्याकावानिवृत्तये स्वाह-जीवद्रव्येति- जीवात्मकद्रव्यस्य यः स्थित्यात्मकः पर्यायविशेषस्तद्रूपाया वसतेरित्यर्थः / गत्युपष्टम्भको धर्मास्तिकाय इति धर्मास्तिकायव्याप्ताकाश एव गतिमतां जीव-पुद्गलानां गतिर्भवृति, तथा स्थित्युपष्टम्भकोऽधर्मास्ति काय इत्यधर्मास्तिकायव्याप्ताकाश एव स्थितिमतां जीव-पुदलानां स्थितिर्भवति, तथा च लोकत्वं धर्मास्तिकायव्याप्ताकाश• त्वरूपमधर्मास्तिकायव्याप्ताकाशत्वरूपं चेत्येवं निर्वक्तुं शक्यम् , परं तत्र स्थितिविशेषरूपाया वसतेर्निरूपकता विशिष्टे आकाशस्वरूपेऽधर्मास्तिकायव्याप्ताकाशत्वेनैवावच्छिद्यते, न तु धर्मास्तिकायव्याप्ताकाशत्वेनेत्याशयेन 'अधर्मास्तिकाय. व्याप्ताकाशवरूपलोकत्वस्यैव' इत्युक्तम् / अत एव स्थितिविशेषलक्षणवसतेर्निरूपकतावच्छेदकत्वस्याधर्मास्तिकायव्याप्ताकाशत्वस्यैव भावादेव / तस्य अशुद्धनगम-व्यवहारवादिनः / अशुद्धनगम व्यवहारवादी कुत्र भवान् वसतीत्येवं परेण पृष्टः प्रथमत आकाशे वसामीत्येवं न प्रयुङ्क्ते इत्यत्र हेतुं दर्शयति-शुद्धाकाशत्वस्येति- लोकालोकसाधारणाकाशत्वस्ये त्यर्थः / अतथात्वात् जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेर्निरूपकतानवच्छेदकत्वात् / ततः शुद्धस्तु प्राथमिकाशुद्धनेगम-व्यवहारवादिनोऽपेक्षया शुद्धः पुनः / नैगमो नैगमनयवादी, व्यवहारो व्यवहारनयवादी वा, अस्य 'तिर्यग्लोके बसामीत्युत्तरयति' इत्यनेन सम्बन्धः / ऊर्चेति- लोक ऊर्चलोकोऽधोलोकस्तिर्यग्लोक इत्येवं त्रिप्रकारकः, भक्ता तु लोके वसामीति सामान्येनोकं ततो न ज्ञायते किमूर्ध्वलोके भवान् बसति ? अधोलोके वा भवान् वसति ? तिर्यग्लोके या भवान् वसति ? किं वा सर्वस्मिन्नपि लोके भवान् वसतीत्येवं प्रश्न परेण कृते सतीत्यर्थः। एवं यथोत्तरप्रश्नेषु उक्षप्रकारेण किं तिर्यग्लोके सर्वत्र भवान् वसति ? किं जम्बूद्वीपे सर्वत्र भवान् वसति ? किं भारते क्षेत्रे सर्वत्र भवान् वसति ? किं भारतक्षेत्रदक्षिणाढ़े भवान् वसति ? किं तत्र पाटलीपुरपत्तने भवान् वसतीत्येवमुत्तरोत्तरप्रश्नेषु / यथो. सरशुद्धा इति-पूर्वपूर्वनैगम-व्यवहारवादिनोऽपेक्षयोत्तरोत्तरशुद्धा इत्यर्थः। जम्बूद्वीपादिवादिनः जम्बूद्वीपे वसामि, भारतक्षेत्रे सामि, तद्दक्षिणार्द्ध सामि, पाटलीपुरपत्तने सामीत्युत्तरवादिनः, नैगम-व्यवहारनययोः शुद्धितारतम्याद तदादिनोरपि शुचितारतम्यमिति बोध्यम् // 6 //