SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो न्योपदेशः / 'मेहेषु शतमश्वाः' इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते, तदा प्रापक्षः-पखाना प्रदेश इति साहनयपक्ष एव परिष्कृतः स्यात् , तथा च स्वप्रतिज्ञासेन्यासो निग्रहस्थानम् / / 57 // प्रत्येकवृत्तिः साकाङ्क्षा, बहुत्वेनेति सोऽप्यसत् / / ऋजुसूत्रस्ततो ब्रूते, प्रदेशभजनीयताम् // 58 // नयामृत. प्रत्येकेति / किश्च 'गेहेषु शतमश्वाः' इत्यत्र गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्त्यवच्छेदकैकत्व[ वत् पञ्चकवान् प्रदेश इति बोधो वाच्यः, स च न सम्भवति, पञ्चपद. विशेषपरित्यागेनेत्यर्थः / तदसिद्धः सामान्यासिद्धेः / नन्वेकस्मिन् गेहे एकोऽश्वो द्वितीयेऽस्मिन् गेहे द्वितीयोऽश्व इत्येवं गृहाणां शतेऽश्वानां शतस्य वृत्तित्वमुपादाय गेहेषु शतमश्वा इति प्रयोगो यथा निर्वहति तथा एकस्मिन् धर्मास्तिकाये एकः प्रदेशोऽधर्मास्तिकाये द्वितीयः प्रदेश इत्येवं प्रत्येक धर्मास्तिकायादिवृत्तित्वं प्रदेशगतमादाय धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति प्रयोग उपपद्यत इत्यत आह- यदि चेति / प्रत्येकवृत्तित्वाम्बयः धर्मास्तिकायादिप्रत्येकनिरूपितवृत्ति. स्वस्य प्रदेशेऽन्वयः / प्रकृते धर्मास्तिकायादीनां पञ्चविधः प्रदेश इत्यत्र / 'प्रापक्षः' इति मूलस्य विवरणम्- पश्चानां प्रदेश इति सङ्गहनयपक्ष एवं परिष्कृत इति-परिष्कारश्च धर्मास्तिकायादीनां सम्बन्धिनां पञ्चत्वसङख्याकलित. त्वात् प्रदेशानामपि पञ्चविधत्वमिति / भवतु सङ्ग्रहनयपक्षपरिष्कार एव, कोऽत्र दोष इत्यत आह-तथा चेतिएवं सतीत्यर्थः / स्वप्रतिज्ञासंन्यासः स्वस्य व्यवहारमयस्य या प्रतिज्ञा पञ्चानां प्रदेशान्वयित्वासम्भवात् पञ्चानां प्रदेश इति न सम्भवति किन्तु पञ्चविधः प्रदेश इत्येव युज्यते' इत्येवंरूपा तस्या संन्यासः परित्यागः, यतः प्रत्येकवृत्तित्वान्वयागीकारे पचानां प्रदेश इति सम्भवत्येवेति। निग्रहस्थानं निग्रहस्थानविशेषः, येन दोषेण वादिनो निग्रहो भवति स दोषो निग्रहस्थानमिति गीयते // 5 // - अपि च, पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिप्रत्येकवृत्तित्वस्य प्रदेशेऽन्वयो निराकाक्षत्वान सम्भवति, बहुवचनात्त. पदोपस्थितार्थ एव प्रत्येकवृत्तित्वान्वयो भवतीत्यतो बहुवचनान्तविशेष्यवाचकपदघटितवाक्यस्यैव तथाऽन्वयबोधने साकाक्षत्वात् सामर्थ्यम् , मेहेषु शतमश्वा इत्यत्र प्रत्येकगृहवृत्तित्वस्य प्रत्येकाश्वान्वयो युज्यतेऽश्वपदस्य बहुवचनात्तत्वेन साकाक्षत्वात् , प्रकृतेऽपि पञ्चानां प्रदेशा इत्येवं यदि वाक्यस्वरूपं भवेद्, भवेत् तदा साकाक्षत्वात् तस्योकान्वयबोधनसामध्य, न तु पञ्चानां प्रदेश इत्यत्र विशेष्यवाचकप्रदेशपरस्य बहुवचनान्तत्वं समस्तीत्यंतः 'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादिधर्मास्तिकायस्य प्रदेशः, स्यादाकाशास्तिकायस्य प्रदेश: स्यात् पुद्गलास्तिकायस्य प्रदेशः, स्याज्जीवास्तिकायस्य प्रदेशः' इत्येवं विकल्पनीय इति ऋजुसूत्रे ब्रवीतीत्येतदुपदर्शकमष्टपञ्चाशत्तमपद्यं विवृणोति-प्रत्येकेतीति / प्रत्येकवृत्तिः साकाङ्क्षति व्यारव्यातु तदवतारणोपायोपोद्घातावष्टमाश्रयति-किञ्चति / "गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्यवच्छेदकैकत्व(वत्) पञ्चकवान् प्रदेश इति बोधो वाच्यः" इत्यस्य स्थान “गैहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्त वृत्त्यवच्छेदकैकत्ववन्तः शातत्वसख्यावन्तोऽश्वा इति बोधवत् , धर्मास्तिकायादीनां पञ्चाना प्रदेश इत्यत्र धर्मास्तिकायादिहातपश्चत्वव्यापकैकत्वावच्छिनपर्याप्तवृत्यवच्छेदकत्ववन्तः प्रदेशा' इति बोधो वाच्यः" इति पाठः समीचीनः, तस्य बार्यमथैः-गेहाति यद बहत्वं निरूपकत्वसम्बन्धन तयापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तय वच्छेदकानि यान्येकत्वानि तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा इत्याकारको बोधो यथा गेहेषु शतमश्वा इत्यत्र भवति तथा धर्मास्तिकायादिवृत्ति यत् पञ्चत्वं निरूपकत्वसम्बन्धेन तयापिका या एकत्वावच्छिनपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तदबच्छेदकानि यान्यकत्वानि तद्वन्तः प्रदशा इत्याकारकबोधों धर्मास्तिकायादीनां पञ्चानी प्रदेश इत्यत्र व्यवहारनयमतेन बाच्य इति, एतत्सङ्गमनं चेत्यम्- 'गेहेषु शतमश्वाः' इत्यत्र बहुवचनार्थस्य बहुत्वस्य प्रकृत्यर्थे गेहे पर्याप्तिसम्बन्धेन विशेषणीभूतस्य प्रकृते गेहवृत्तिबहुत्वशब्देन ग्रहणम् , सच्च गेहेषु वर्तते, तत्राश्वगता याः पर्याप्तिसम्बन्धावच्छिन्ना पतितास्ता निरूपकतासम्बन्धेन वर्तन्त इति ताः पर्याप्तिसम्बन्धावच्छिन्नवृत्तितात्वेन रूपेण व्यापिका भवन्ति, वृत्तितावच्छेदकपयाप्तिसम्बन्धश्च तत्तद्रोहगतैकत्वावच्छेदेनेति / भवन्ति ता गेहवृत्तिबहुत्वव्यापिकाः, तत्तदेहगतैकत्वावच्छिन्न
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy