SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / नयामृत-एवम्भूतस्त्विति / सर्वत्र व्यञ्जनं-शब्दस्तेनार्थ विशेषयति यः स एवम्भूतः, "वंजण अस्थ-तदुभयं एवंभूओ विसेसेइ" [ विशेषावश्यकनियुक्तिगाथा-२१८५ ] इति नियुक्तिकारः, व्यञ्जनार्थयोरेवम्भूतः' [ तत्त्वार्थसूत्रे, अ० 1, सू० 35 ] इति तत्त्वार्थभाष्यम् , पदानां व्युत्पत्त्यर्थान्वय. नियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्वमिति निष्कर्षः, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिः / अयं चास्याभिमान:-यदि घटपदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो न घटपदार्थो धात्वर्थविरहाविशेषादिति / व्यञ्जनार्थविशेषकत्वमस्य यदुवं तदुदाहरति- राजचिह्नः- छत्र चामरादिभिः, यथा राजन्- शोभमानः, सभायोमुपविष्टो राजोच्यते, अन्यदा- छत्र चामरादिशोभाविरहकाले, राजशब्दभाग- राजशब्दवाच्यो न भवति, राजपदव्युत्पत्तिनिमित्ताभावादित्यर्थः। नन्वतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिनित्तमिति केनचिद्रूपेण तदतिप्रसक्तं वाच्यम् , अन्यथा तु गच्छतीति 'गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् , तथा च छत्र-चामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्तराजनस्यानतिप्रसक्तस्याव्याहतत्वात् कथं न राजशब्दवाच्यत्वमितिः यस्य स व्यञ्जनार्थविशेषण इति बहुव्रीहिरत्र समासः, तमवलम्ब्य फलितमर्थमुपदर्शयितुमाह-सर्वत्रेति- शब्दमात्रे इत्यर्थः / तेन शब्देन / एवम्भूतनयो व्यञ्जनेनार्थ विशेषयतीति नियुक्ति-तत्त्वार्थभाष्यसम्मतमित्युपदर्शयितुं नियुक्तिवचनं तत्त्वार्थभाष्यवचनं चोल्लिखति-वंजणत्ति, व्यञ्जनेति च-" व्यञ्जनमर्थ तदुभयमेवम्भूतो विशेषयति" इति संस्कृतम् / ततश्चैवम्भूतस्य निष्कृष्टलक्षणं दर्शयति-पदानामिति- बहुवचनेन पदत्वव्यापकत्वं व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वे लभ्यते. तथा च पदत्वव्यापकं यद् व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वं तदभ्युपगन्तृत्वमेवम्भूतत्वमित्यर्थः, यदा यस्मिन् देशे गमनक्रियावत्यां गवि गोपदं प्रयुज्यते तत्र पदत्वं गोपदे वर्तते, तत्र गच्छतीति गौरिति व्युत्पत्त्यर्थो गमनक्रिया, तदन्वयेन कालतो देशतश्च नियतोऽर्थो गमनक्रियावान् गोरूपार्थः, तद्बोधकत्वं समस्तीति तदभ्युग्गन्तृत्वमेवम्भूतनये समस्तीति लक्षणसमन्वयः। यदा यदा यत्र यत्र देशे विद्यमानायां गवि गोशब्दः प्रयुज्यते तदा तदा तस्मिँस्तस्मिन् देशे गमनक्रिया भवतु मा वा कदाचित् कस्मिन् देशे गवि गमनक्रियासत्त्वमात्रेणापि गोशब्दः प्रवर्तत इत्यभ्युपगच्छतः समभिरूडस्यैतल्लक्षगातिप्रसङ्गवारणाय कालतो देशतश्च युत्पत्त्यर्थान्वयनियमोऽत्र प्रविष्ट इत्याह-नियमश्चेति / समभिरूढनयशिक्षणार्थमेतन्नयाभिप्रायमुरदर्शयति- अयं चेतिभनन्तरमेव निरूप्यमाण इत्यर्थः / अस्य एवम्भूतनयस्य / यदीत्यादिना तदभिमानोङ्कनम् , “कुट कौटिल्ये" इत्यनुसारात कुटपदार्थः कौटिल्यक्रियालिङ्गितोऽर्थो यदि “घट चेष्टायाम्" इत्यनुसाराद् घटपदव्युत्पत्त्यर्थजलाहरणादिक्रियालक्षणचेधाभावान्न घटपदार्थ इत्येवं समभिरूढनयेन स्वीक्रियते तदा घटो यदा जलाहरणादिकियां न करोति तदानीं किमिति * समभिरूढेन घटो घटपदार्थोऽनुमतः ? प्रत्युत धात्वर्थजलाहरणादिक्रियालक्षणचेष्टाभावात् तदानीं घटो न घटपदार्थ इत्येव स्वीकर्तमुचितमित्यर्थः। उत्तरार्धमुदाहरणोपदर्शनपरतयाऽवतारयति-व्यञ्जनार्थेति / अस्य एवम्भूतनयस्य / राजन् राजा इस्लेव राजपदव्युत्पत्तिः परं गुणान्तरैरन्योऽपि शोभमानो दृश्यत इति तत्र राजपदप्रवृत्तिर्मा प्रसाडीदिति राजचिहरिति / असाधारणस्यैव लक्षणत्वं सम्भवतीत्यभिसन्धानेन तस्य विवरणम्- छत्र-चामरादिभिरिति / एकैकस्य च्छत्रादेरन्यत्रापि मवानासाधारणत्वमतो यादृशस्य च्छत्रादेन न्यत्र सद्भावश्चामराद्युपेतस्य च्छनादेश्छत्राद्युपेतस्य चामरादेस्तादृशस्य ग्रहणार्य बादिभिरित्यनुक्त्वा छत्र-चामरादिभिरित्युक्तम्, छत्र-चामरादिभिरसौ न सर्वदाऽऽलिङ्गितो भवतीत्यत उक्तम्-सभाया. पविष्ट इति, तथा च सभोपविष्टत्वे सति च्छत्र-चामरादिप्रयुकराजनवत्वमेव राजशब्दव्युत्पत्तिनिमित्तम् , तद्वानेव एति व्यपदिश्यते एवम्भूतनये इत्यर्थः / अत्र शङ्कते-नन्विति / एतन्मते एवम्भूतनये / 'तदतिप्रसतम्' सस्य स्थाने 'तदनतिप्रसक्तम्' इति पाठो युक्तः, तत् व्युत्पत्तिनिमित्तम्, अनतिप्रसकं तत्तच्छन्दशक्यतरावृत्ति /
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy