________________ 420 . नयावृततरङ्गिणी-तरङ्गिणीतरणिन्यो समहतो न्योपदेशः / यस्याने भान्ति किश्चिन्न निरुपधिचिदुबुद्धशुद्धस्वभावात् , तद्रूपं स्वीयमुच्चैः प्रकटय भगवन् बाढमात्मन् ! प्रसीद // 16 // गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः / तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् // 1 // सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ, सूरिश्रीविजयादिसिंहसुगुरोः शक्रासनं भेजुषि / सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतौ, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा // 2 // प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् / अनुष्टुभां सहस्राणि त्रीणि षट् च शतानि वै // 3 // // 3600 // // शुभं भूयात् // इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितलाभविजयगणिशिष्यावतंसपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकपण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डितश्रीपद्मविजयगणिसहोदरेण उपाध्यायश्रीयशोविजयगणिना विरचिता नयामृततरङ्गिणीनाम्नी नयोपदेशटीका समाप्ता // स्वस्ति श्रमणसंघाय / / // इति नयोपदेशः समाप्तः॥ स्मका वेति / कथं ते शहारा इत्यपेक्षायामाह- परगुणरचनाजातरोचिष्णुभावा इति / “स्वभावात्" इत्यस्य स्थाने " स्वभावं" इति पाठो युक्तः / सार्ववाचः सर्वप्राणिहितकारिवचनस्य जैनसमयस्य / वेति त्रयं विकल्पार्थकम् / निक्षेपाः नाम-स्थापना-द्रव्य-भावनिक्षेपाश्चत्वारः / नयाः नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्दसमभिरूढवम्भूताः सप्त / तदुभयजनिताः नय-निक्षेपोभयसमुद्भवाः। सप्तभङ्गात्मकाः स्यादस्त्येव घट इत्यादिसप्तमसमाहारलक्षणसप्तभङ्गीस्वरूपाः। शृङ्गारा योग्यस्थानसंनिविष्टभूषणविन्यासात्मकाः / यतः परे-अन्ये विशिष्टा वा, परेषाम् अन्येषां वा ये गुणास्तेषां रचनया- यथास्थानं संस्थापनया, जात उत्पन्नो रोचिष्णुभावो मनोरञ्जनस्वभावो येषां ते तथा। एवंभूता अपि यस्य भगवद्पस्यानन्तरमेव वक्ष्यमाणस्वरूपस्य / अग्ने सम्मुखे। किञ्चित् किश्चिदपि / न भान्ति न प्रकाशन्ते / हे भगवन् ! सर्वेश्वर्यशालिन् / स्वीयं स्वात्यन्तसंबद्धम् सम्बन्धश्चात्राविष्वग्भावः, तेन स्वापृथग्भूतमिति पर्यवसितम्। तद्रूपं यद्रूपस्याने शृङ्गारा न भान्ति एवम्भूतं रूपम् / किं स्वरूपं तदिति * दर्शयति-निरुपधीति- उपाधिविनाकृतं परोपाधिकं यन्न भवति किन्तु स्वाभाविकं यच्चिता- चैतन्येनोबुद्धः-प्रकटीभूतः शुद्धस्वभावो यस्य तन्निरुपश्चिद्बुद्धशुद्धत्वभावं शुद्ध केवलचैतन्यस्वरूपमिति यावत् / उच्चैर्यथा स्यात् तथा प्रकटय प्रकाशय / है आत्मन् ! मदभिन्नस्वरूप ! / बाढमत्यन्तम् / प्रसीद प्रसन्नो भव / स्वाभिन्नशुद्धचैतन्यात्मकभगवत्स्वरूपदर्शनतो मुक्तस्य मम न किञ्चिदभिलषणीयम् , एतावन्मात्रमेतद्वन्थकरणप्रयोजनमिति गूढाभिसन्धिः // 16 // गच्छ इति- श्रीविजयादिदेवसुगुरोः प्रौढिमधाम्नि स्वच्छ गच्छे जीतविजयप्राज्ञाः गुणानां गणैः परां प्रौढिमैयरुः, तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुयशोविजय इत्याख्याभृत्, इदं किञ्चित् तत्वमाख्यातवानित्यन्वयः, अर्थस्तु व्यक्त एव // 1 // सूरिश्रीविजयादिदेवसुगुरोरिति पद्यमपि स्पष्टार्थकम् / “कृती" इत्यस्य स्थाने " कृतो” इति पाठो ज्ञेयः / प्रत्यक्षरमिति पद्यं प्रन्थकर्तुरन्यस्य वा स्पष्टार्थकम् / / इति श्रीतपोगच्छाधिपति-शासनसम्राद-जगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद. कविरत्नेति पदालङ्कतेन विजयलावण्यसूरिणा विरचिता तरणिनाम्नी मयामृततरहिणीटीका समाप्ता //