________________ नयामततरशिणी तरङ्गिणीतरणिभ्यां समजतो गयोपदेश / नयोपदेशटीकेयं नयामृततरङ्गिणी / सेव्यताममृतप्रायै मिथ्यात्वविषतापहृत् // 1 // सबलविषयसनिविष्टधर्मव्यतिकर-सङ्करशवयाऽऽविलानाम् / जयति भगवतो नयोपदेशः, पटुरखिलाङ्गभृतां हितं विधातुम् // 2 // इह खलु न हि नः स्मयो न रोषो, न च परबुद्धिपराभवाभिलाषः / अपि तु पितुरिव प्रजाहितस्य प्रथमगुरोर्वचनादरो निमित्तम् // 3 // समाप्तिं विदधाति- इतीति- एताभिरुपपत्तिभिरित्यर्थः। अनाविलः दोषकलङ्करहितः / अन्ते इति- शब्दः सिद्धमिति च शब्दो प्रन्थसमाप्तिसूचकः // // अथ प्रशस्तिः // पञ्चभिः श्लोकैनयोपदेशटीको समूला स्तौति-नयोपदेशटीकेयमिति- मिथ्यात्वविषतापहृद् नयामृततरङ्गिणीयं नयोपदेशटीकाऽमृतप्रायै सेव्यतामित्यन्वयः / आकसं जगति प्रसिद्धयै नयामृततरङ्गिणीत्यन्वर्थसंज्ञाभिधानम् , नान्या नयोपदेशटीकाऽन्वर्थनयामृततरङ्गिणीनाम्नी भवितुमईतीत्यवगतये- इयमिति / नामवत: स्वरूपावगतये-नयोपदेशटीकेति / यत इयं मिथ्यात्वविषतापहृत् ततोऽमृतप्रायै सेव्यतामित्येवं यत्तच्छन्दोपादानप्रयोजनमवसेयम् , मिथ्यात्वविषतापहृदित्यस्य मिथ्यात्वमेकान्ततत्त्वाभ्युपगमस्तच्छ्रद्धानं वा, तदेव विषं तजन्यो यस्तापो रागद्वेषादिलक्षणस्तं हरतीति तादृशतापहारिणी, न चेयं स्वरूपसती स्वरूपमात्रेण ज्ञाता वा मिथ्यात्वविषतापहारिणी किन्तु स्वजन्यस्वार्थतत्त्वज्ञानद्वारेति तत्त्वज्ञानजननीत्यपि ततो लभ्यते इत्यर्थः / नयामृततरङ्गिणीत्यस्य नय * एवामृतं तस्य तरङ्ग उच्छलत्प्रवाहकलोलस्तद्वती, नयनदीति यावत् , गङ्गा-यमुनाद्या नद्यो यथा जलप्पमुद्रमाविशन्ति तथेयमपि नदी समयसमुद्रादागता समयसमुद्रमाविशतीति समयसमुद्रान्तर्गततत्त्वरत्नसङ्ग्रहकारिणी, तथाऽनया नद्या मनीषाप्रवहणमारुह्य बुद्धवराः समयसमुद्रमाविशन्तीत्यर्थः / नयोपदेशटीकेत्यस्यार्थः स्पष्ट एव / अमृतप्राप्त्यै अमृतस्य- मोक्षस्य नित्यानन्दात्मकात्मस्वरूपस्य प्रात्यै, यद्यपि नित्यानन्झत्मकमोक्षस्वरूपमात्मनः सर्वदेव प्राप्तं तथापि कर्मपटलावृतत्वादप्राप्तमिव भवति, तत्त्वज्ञानेन कर्ममलपटलापगमे तु स्वयं प्रकाशस्वरूपमाविर्भवति ततः प्राप्तिरेवास्य भवति न तूत्पत्तिः, यथा च जलनदीतो जलप्राप्तिरवश्यं भवति तथाऽमृतत्वेन नयामृत-मोक्षात्मकामृतयोरक्याध्यवसायानयामृतनदीतोऽवश्यं मोक्षात्मकामृतप्राप्तिरिति तदर्थमित्यर्थः। सेव्यतामिति- नहि जलनद्या दूरतो दर्शनमात्रेण जलप्राप्तिः किन्तु तत्तीरांदिगमन-तदवगाहनादिलक्षणसेवया तथा नयामृततरङ्गिण्या भूयोभूयस्तदर्थावगमलक्षणसेवयेति तदात्मकसेवाकर्म क्रियतामित्यर्थः // 1 // सबलेति- भगवतो नयोपदेशः सबलविषय सन्निविष्टधर्मव्यतिकरसंकरशङ्कयाऽऽविलानामखिलानमृतां हितं विधातुं पटुर्जयतीत्यर्थः। भगवतो ज्ञानातिशयादिशालिनो जिनस्य, नयोपदेशः, सबलोऽनन्तधर्मात्मको यो विषयः, तत्सन्निविष्टाः तत्स्वरूपप्रविष्टा ये धर्मास्तेषां व्यतिकरः- यद्रूपेण सत्त्वं तद्रूपेणासत्त्वं यद्रूपेण चासत्त्वं तद्रूपेण सत्त्वमित्येवं विनिमयः, यदपेण सत्त्वं तद्रूपेणैव सत्त्वमसत्त्वं चेत्येवं सङ्करस्तयोः शङ्कया, आविलाना- व्याप्तानाम्, अखिलाङ्गभूतां सकलशरीरिणाम, हितम् इष्टम् , विधातुं कर्तुम् , पटुः समर्थः, जयति सर्वोत्कर्षेण वर्तते इत्यर्थः // 2 // इहेति- इह नयामृततरङ्गिणीकरणे, स्खलु निश्चयेन, नः अस्माकम् , स्मयः स्वमतोचत्वाभिमानः, नहि निमित्तं नैव कारणम् , रोषः पर प्रति क्रोधः, न निमित्तम्, परबुद्धिपराभिलाषः परकीयमत्यप्रामाण्यज्ञापनेच्छा, न च निमित्तं नैव कारणम्, तर्हि नयामृततरङ्गिणीकरणे किं निमित्तमिति पृच्छति-अपि विति। उत्तरयति-पितुरिवेतिसन्तानहितकारिणः पितुर्जनकस्यैव, प्रजाहितकारिणः, प्रथमगुरोः प्रथमतो धर्मदेशनादीक्षितस्य भगवतः श्रीऋषभदेवस्य प्रथमतीर्थकरस्य, अथवा सर्वेऽपि तीर्थङ्कराः स्वस्वतीर्थप्रवर्तका गुरव एवेति प्रथमगुरोरित्यस्य वर्तमानतीर्थाधिपतेश्वरमतीर्थङ्करस्य श्रीमहावीरस्येत्यप्यर्थः सम्भवति, वचनादरा वचनस्य- स्याद्वादराद्धान्तस्य, आदरः- सम्यकया श्रद्धानम्, निमित्तं कारणमित्यर्थः, सनिमित्तकत्वादियं नयामृततरङ्गिणी सर्वैरप्यवगाया इति भावः // 3 //