________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलतो नयोपदेशः / अनन्त[ र ]कारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् ? न- उत्पत्तावन्तरत्वस्य यथाख्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात् , व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यविनिगमात् // 3 // एतेनाक्षेपककारणग्राहकनयेन " जम्हा दसण-नाणा" [ ] इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् , आक्षेपकत्वं हि स्वेतरसकलकारणसमवधाननियतसमवधानकत्वम् , तब यथाख्यात इव केवलज्ञानेऽपीत्यविशेषात् , क्षयोपशमदशायामप्यपुनर्बन्धकादिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोद्धभाविततत्त्वज्ञानस्यापेक्षकत्वाविशेषात् // 4 // मुख्यकशेषनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न-तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात् // 5 // पुमर्थप्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् ? न- परमभावप्राहकनयेन ज्ञान एव तद्विनिगमनायाः सुवचत्वात् " जं सम्मति पासहा तं मोणति पासहा " [ ] इत्यादिवचनात् // 6 // 7 // कारकसम्यक्शरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न-“जं अनाणी कम्मं खवई " [ ] इत्यादिवचनात् सम्यक्क्रयाशरीरनिर्वाहकत्वनयेन ज्ञानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात् // 8 // 9 // एतेन " णिच्छयणयस्स चरणस्सवघाएण नाण-दसण. वहो वि" [ ] इत्यादिवचनाद् ज्ञाननाशव्याप्यनाशप्रतियोगिस्वप्राहकशुद्धनयेन शानातिशयस्याप्यदुर्वचत्वात् // 10 // व्यापारप्राधान्यप्राहकक्रियानयेन चारित्रोत्कर्ष इत्युक्तावपि दर्शन विमागेन फलबुद्धिप्राहको यो नयस्तेनेत्यर्थः / तत्र मुक्तौ / “चारित्र हेतुत्वाभ्युपगम्यमानो" इत्यस्य स्थाने "चारित्रहेतुताऽभ्युपगम्यमाना" इति पाठो युक्तः, चारित्रस्य कारणता स्वीक्रियमाणा ज्ञान हेतुतामपि मुक्तौ ज्ञानस्य कारणतामपि न व्याहन्ति नैवापाकरोति / शङ्कते- अनन्तरेति-कार्यस्य यदव्यवहितपूर्ववर्ति तदेव कारणमित्यभ्युपगन्तृनयेनेत्यर्थः / तत्र मुक्तौ / प्रतिक्षिपति- नेति / उत्पत्ती मुक्त्युत्पत्तौ / उभयत्रापि ज्ञाने चारित्रे च। पतेनेत्यस्य निरस्तमित्यनेनान्वयः / आक्षेपककारणग्राहकनयेन यत् स्वेतरसकलकारणाक्षेपकं तत् कारणमित्यभ्युपगन्तृनयेन / एतेनेत्यतिदिष्टं निरासहेतुमुपदर्शयति-आक्षेपकत्वं हीति / तच्च निरुक्तस्वरूपमाक्षेपकत्वं च / निरुक्तस्वरूपमापकत्वं क्षयोपशमदशायामपि चारित्रविशेषस्येव तत्त्वज्ञानविशेषस्याप्यस्त्येव सम्भव इत्याह-क्षयोपशमदशायामपीति / शङ्कतेमस्यैकशेषनयेनेति- यत्कार्य ययोर्द्वयोर्मध्ये यदेव मुख्यं तदेव कारणमित्यभ्युपगन्तृनयेनेत्यर्थः / समाधते- नेति / am मुक्तौ ज्ञान-चारित्रयोर्मध्ये / शङ्कते-पुमर्थग्राहकनयेनेति- ययोर्द्वयोर्मध्ये यः पुमर्थः पुरुषप्रयत्नसाध्यस्तमेव गृह्णातीति तमाहको नयस्तेनेत्यर्थः। क्रियायामेवेति- क्रियायाः पुरुषप्रयत्नसाध्यत्वेन तस्यामेवेत्यर्थः / समाधत्ते नेति / परमभावग्राहकनयेनेति-यो यस्य परमो भावः स एव तस्य स्वभाव इति प्राहकनयेनेत्यर्थः / तद्विनिगमनायाः मुख्यत्वसाधकयुक्तः। अत्रागमवचनं प्रमाणयति-जंति-शङ्कते-कारकेति-न केवलं निर्विशेषितं ज्ञानं मोक्षकारक किन्तु सम्यग्ज्ञानमिति कारकं यत् सम्यग्ज्ञानं तस्य यत् सम्यक्त्वं तच्चारित्रसहचरितत्वादेवेति तच्छरीरनिर्वाह___कत्वं चारित्रस्यैवं प्राहकनयेनेत्यर्थः। समाधत्ते- नेति / सम्यक्त्वेति- सम्यक्रिया सैव या ज्ञानसहचरितेति सम्यक् क्रियाशरीरनिर्वाहकत्वं ज्ञाने इत्येवंग्राहिनयेनेत्यर्थः / एतेनेत्यस्यादुर्वचत्वादित्यनेन सुवच एवेत्यनेन चान्वयः / जिच्छयणयस्स इति “निश्चयनयस्य चरणस्यावघातेन ज्ञान-दर्शनवधोऽपि" इति संस्कृतम् / ज्ञानेति-ज्ञाननाशव्याप्यो यो नाशस्तत्प्रतियोगित्वं चरणस्येत्येवं ग्राहको यः शुद्धनयो निश्चयनयस्तेनेत्यर्थः / अदुर्वचत्वात् सुवचत्वात् / व्यापारेति- व्यापार व्यापारिणोर्मध्ये व्यापारस्य प्राधान्यमित्येवं प्राहको यः क्रियानयस्तेनेत्यर्थः / दर्शनेति-कियादर्शनयोर्मध्ये दर्शनं प्रधानमित्येवं प्राहकज्ञानगयेनेत्यर्थः, तथा च केनचिन्नयेन ज्ञानस्य प्राधान्यं केनचिनयेन चरणस्य प्राधान्यमित्येकस्यैव प्राधान्यमित्यस्य नियन्तुमशक्यत्वेन तयोः समुच्चय एव इति भावः / ज्ञानस्य प्राधान्ये पदृष्टान्त