________________ 410 मयाक्ततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो नयोपदेशः। animarathimation गौरवात् , अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघवमिति दृष्टिदाने च विधिप्रत्य[य]मात्रार्थो. ऽपीष्टानुकूलत्वमात्रमेव स्यादिसि यागादेरप्यपूर्वेणान्यथासिद्धिः कर्मणां न तत्वज्ञाने नवा तद्द्वारा मुक्ती हेतुत्वमित्युक्तम् , तदपि न युक्तम् , प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रेऽनुगतहेतुताया अयोगात, प्रतिबन्धकविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहोत्तरकल्पनीयत्वेन तदन्यथासिध्यनापादकत्वात् , किञ्च, प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कर्मणोऽहेतुत्वोक्तो तत्त्वज्ञानस्य सुतरां तथात्वं स्यात्, नद्युत्पन्नकेवलज्ञाना अपि भवोपनाहिकर्मचतुष्टयं प्रतिबन्धकनिवर्तयित्वा सद्य एव मुक्तिमासादयन्ति इति मुक्तिप्रबन्धककर्मनिवर्तकत्वेन तत्त्वज्ञानस्य कुतो नान्यथासिद्धिः। अथ कर्मणो www.moona कर्मणो वा प्रशंसापरं न त्वेकमेव कारणमन्यन्न कारणमित्येतत् परमित्याह- एकपुरस्कारेणेति / इति एवं व्यवस्थितौ / नेत्यस्य अर्थ इत्यनेनान्वयः। कर्मकारणताबोधकवचने कर्मणो मुक्ति प्रति कारणत्वबोधकं यद् वचनं तस्मिन् / अनुकूलत्वमात्रं निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वमात्रम् , अत्र मात्रपदे नाम्ययासिद्धिशून्यत्वे सति मोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षकारणत्वस्य व्यवच्छेदः / निषेधे हेतुमाह- कारणताशक्तपदस्येति / मनु यत् कार्य प्रति यस्य येन धर्मेण कारणत्वं स धर्मः प्रथमोऽन्यथासिद्धः, यस्य यत् कार्य प्रति स्वातन्त्र्येणान्वयव्यतिरेको न. गृह्यते किन्तु तस्कार्यकारणमादायवान्वय-व्यतिरेको गृह्यते स तत् कार्य प्रति द्वितीयोऽन्यथासिद्धः, यस्य यत्कार्यकारणभिन्नं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्य प्रति तृतीयोऽन्यथासिद्धः, यस्य यत्कार्यकारणं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्य प्रति चतुर्थोऽन्यथासिद्धः, अवश्यक्लप्तनियतपूर्ववर्तिभिचश्च पञ्चमोऽन्यथासिद्ध इत्येवंलक्षणलक्षिताऽन्यथासिद्धपञ्चकभिन्नत्वे सति नियतपूर्ववर्तित्वरूपकारणत्वापेक्षया पञ्चमान्यथासिद्धभिन्नत्ववाघटितमन्यथासिद्धचतुष्टयभिन्नत्वे सति नियतपूर्ववर्तित्वरूपानुकूलत्वं लघुभूतमिति तत्परत्वमेव कर्मकारणताबोधकवचने युक्तमित्यत आह- अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेनेति / तत्र अनुकूलत्वे / लाघवं कारणत्वापेक्षया लाघवम् / इति दृष्टिदाने च एवं पर्यालोचने च / स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेत्यादिवचनेऽपि विध्यर्थत्वमिष्टसाधनत्वापेक्षया लघुभूते इष्टानुकूलत्वे एव भवेदिति यागादेरप्यपूर्वेणान्यथासिद्धिः स्यादतो लघुभूतमप्यनुकूलत्वं परित्यज्य कारणत्वमेवार्थ इति कर्मणो निःश्रेयसकारणत्वं तत्प्रतिपादकागमवचनात् सिद्धथतीत्याह-विधिप्रत्ययेति- यथा च कार्यमा प्रति प्रतिबन्धकामावत्वेन प्रतिबन्धकाभावस्य कारणत्वमिति प्रतिबन्धकाभावविधया क्लुप्तकारणताकेन निःश्रेयस. प्रतिबन्धकदुरित,सेन कर्मणोऽसिद्धिस्तथा कार्यमात्रं प्रत्यदृष्टत्वेनादृष्टस्य कारणत्वमिति क्लुप्तकारण ताकेनापूर्वेष यागादिकारणतानुपजीवनेनैव कल्पितेन यागादेरन्यथासिद्धिरित्यस्य वक्तुं शक्यत्वादित्यर्थः / अन्यदपि तत्त्वज्ञानं प्रति तद्द्वारा मुक्ति प्रति च कर्मणां कारणत्वाभावावेदकं वचनं पूर्वमुक्तं तदपि न युक्तमित्याह- यदपीति- कर्मणां न तत्त्वज्ञाने हेतुत्वं तद्वारा मुक्ती न हेतुत्वमित्यर्थः। तदद्वारा तत्त्वज्ञानद्वारा / युक्तत्वाभावे हेतुमाह-प्रतिबन्धकत्वस्येति- एतस्कार्य प्रतीदं प्रतिबन्धकमेतच्चामुकं प्रति प्रतिबन्धकमित्वं विशेषरूपणं प्रतिबध्य-प्रतिबन्धकभावस्य विश्रामेण कार्यत्वावच्छिन्न प्रति सामान्यतः प्रतिबन्धकाभावत्वेन कारणत्वस्याभावादित्यर्थः / प्रतिबन्धकविशेषनिवृत्त्यैव तन्निवृत्तित्वलक्षणविशेषधर्मेण मुक्ति प्रति कारण. तया क्लप्तया कर्मणामन्यथासिद्धिरस्त्वित्यत आह- प्रतिबन्धकविशेषेति-कर्मणां मुक्ति प्रति कारणत्वस्य ग्रहे कर्मकारणत्वप्रतिपादकवचनेन जाते सति चिरध्वात्तानां कर्मणां स्वतो मुक्त्यव्यवहितपूर्ववर्तित्वस्याभावे स्वव्यापारवत्त्व. सम्बन्धेन मुक्त्यव्यवहितपूर्ववर्तित्वादेव कारणत्वं भवेन्नान्यथेत्येवं मुक्ति प्रति कारणत्वान्यथानुपपत्त्यां कर्मकारणत्वग्रहोत्तरकालं प्रतिबन्धकविशेषनिवृत्तेर्मुकिं प्रति कारणत्वस्य कल्पनीयत्वेन तस्य कर्मान्यथासिद्धधनापादकत्वादित्यर्थः / अपि च प्रतिबन्धकनिवृत्त्याऽन्यथासिद्धस्पेन कर्मणां मुक्किं प्रति कारणत्वाभावे तत्त्वज्ञानस्यापि प्रतिबन्धकनिवृत्त्याऽन्यथासिद्धत्वेन मुछि प्रति कारणत्वं न स्यादित्याह-किश्चति / तथात्वं स्यात् मुक्ति प्रत्यकारणत्वं भवेत् / तत्त्वज्ञानस्यापि प्रबन्धकनिवृत्तिद्वारैव मुफि प्रति कारणत्वं नान्यथेत्यतः प्रतिबन्धकनिवृत्त्या तस्याप्यन्यथासिद्धत्वं वक्तुं शक्यमेवेत्याह-नीति- अस्य 'भासादयन्ति' इत्यनेनान्वयः / ननु तत्त्वज्ञानस्य कर्मनिवृत्तिद्वारा मोक्षं प्रति कारणत्वेऽभ्युपगम्यमाने सत्येव कर्मनिवृत्त्या