________________ मवारततरक्षिणी-तरङ्गिणीतरणिन्या समलहतो नवोपण। त्वेकतरपक्षपातो न श्रेयान् , ज्ञाने केवलज्ञानस्वरूपस्य कर्मणि च यथाख्यातचारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति, एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्मसहिकारित्वं / मिथ्याज्ञानोन्मूलने, कर्मविनाकृतस्यैव तस्य दिगमोहादौ हेतुत्वावधारणादिति निरस्तम् , मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मिथ्याज्ञानप्रागभावाऽसहवृत्तिमिथ्याज्ञानध्वंसे च हेतुताया लोकप्रमाणाविषयत्वेन शान-कर्मणो. योरेव कल्पनौचित्यात् , वस्तुत अर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपि न हेतुता, किन्तु सामान्याकच्छिन्नध्वंसनये कर्मत्वावच्छिमध्वंसे तत्समयावत्कर्मक्षयसमनियतक्षायिकसुखत्वावच्छिन्ने वेति न दुःखध्वंसः सम्भवत्येव नेत्यसम्भवितस्य तस्य सुतरामेवासाध्यत्वादतः पुरुषार्थत्वाभावान्न दुःखध्वंसो मोक्ष इत्यर्थः / तत्र च दुःखसाधनध्वंसरूपमोक्षे च। वैजात्येनेत्यस्य हेतुत्वमित्यनेनान्वयः , विजातीयज्ञानत्वेन विजातीयकर्मत्वेन कारण. त्वम् / वा अथवा / मुमुक्षविहतत्वादिना मुमुक्षविहितज्ञानत्वेन मुमुक्षविहितकर्मत्वेन कारणत्वम्, तुल्यमेव समानमेव / इति एतस्मात् कारणात् / एकतरपक्षपातः ज्ञानमेव कारणं न कर्मेति, कर्मव कारणं न ज्ञानमित्येवमेकंतरपक्षपांतः / न श्रेयान् नातीवरमणीयः / शान इति-क्षायिकस्थले ज्ञाने केवलज्ञानत्वरूपस्य वैजात्यस्य कर्मणि यथाख्यातचारित्रस्वरूपस्य वैजात्यस्य च कल्पनायाः, क्षायोपशमिकस्थले तु तदनुकूलतामात्रस्य मोक्षानुकूलतामात्रस्य, द्वयोः ज्ञानकर्मणोः कल्पनायास्तुल्ययोगक्षमत्वादित्यन्वयः, अर्थस्तु व्यक्तः / एतेनेत्यस्य निरस्तमित्यनेनान्वयः। कारणोच्छेदक्रमेणेति- “दुःख-जन्म-प्रवृत्ति-दोष-मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायान्मोक्षः" इति गौतमसूत्रम्, तत्र मिथ्याज्ञानं रागद्वषलक्षणदोषस्य कारणमिति मिथ्याज्ञानरूपकारणोच्छेदाद् दोषरूपकार्यस्योच्छेदः, रागद्वेषलक्षणदोषश्च प्रवृत्तेः कारणमिति दोषरूपकारणोच्छेदात् प्रवृत्तिरूपकार्यस्योच्छेदः, प्रवृत्तिश्च विहितनिषिद्धकर्मविषयिणी अदृष्टद्वारा जन्मनः कारणमिति प्रवृत्तिरूपकारणोच्छेदाजन्मलक्षणकार्यस्योच्छेदः, जन्म च दुःखस्य कारणमिति जन्मलक्षणकारणोच्छेदाद् दुःखध्वंसो भवति, स एव मोक्ष इत्येवं कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरित्यर्थः / इति एतस्मात् कारणात् / “ज्ञानं कर्मसहकारित्वं मिथ्या. शानोन्मलने" इत्यस्य स्थाने "ज्ञाने कर्मसहकारित्वं न ज्ञानोन्मूलने" इति पाठो युक्तः / कथं न ज्ञाने कर्मसहकारित्वमित्यपेक्षायामाह-कर्मविनाकृतस्यैवेति-- कर्मरहितस्यैवेत्यर्थः। तस्य ज्ञानस्य / हेतुत्वावधारणात निवृत्तिहेतुत्वनिर्णयात् / पतेनेत्यदिष्टमेव निरासहेतुं प्रकटयति-मिथ्याज्ञाननाशेऽपीति / मिथ्याज्ञानप्रागभावासहवृत्तीति- यन्मिथ्याशान. ध्वंसानन्तरं मिथ्याज्ञानं तत् पुरुषस्य न भविष्यति, स एव मिथ्याज्ञानध्वंसः स्वसमानाधिकरणमिथ्याज्ञानप्रागभावासहवृत्तिः, स्वसमानाधिकरणत्वं च मिथ्याज्ञानप्रागभावविशेषणमवश्यमुपादेयम् , अन्यथेदानी मुक्तस्य कस्यचित् पुंसो दुःखध्वंसोऽपि बद्धपुरुषीयदुःखप्रागभावसमानकालीन एवेति दुःखप्रागभावासहवृत्तित्वेन तच्चरमदुःखध्वंसस्यापि मुक्तित्वं न स्यादिति बोध्यम् / हेतुतायाः तत्त्वज्ञानस्य हेतुतायाः। लोकप्रमाणाविषयत्वेनेति- नहि लौकिकप्रमाणानि प्रत्यक्षानुमानादीनि चरमदुःखध्वंस प्रति तत्त्वज्ञानं कारणमित्येवं विषयोकुर्वन्तीत्यतश्वरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणताया लोकप्रमाणाविषयत्वेनस्यर्थः, तथा चालौकिकागमप्रमाणेन तन्मूलकसामान्यतो दृष्टानुमानेन च चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणत्वं कल्पनीयमिति तदलौकिकप्रमाणस्य ज्ञान-कर्मणोईयोरपि चरमदुःखध्वंसं प्रति कारणत्वे प्रवृत्तरिति द्वयोरपि चरमदुःखध्वंसं प्रति हेतुत्वकल्पनमुचितमित्यर्थः। किञ्च, स्वसामानाधिकरण्यमिथ्याज्ञानप्रागभावासहवृत्तित्व-मिथ्याज्ञानध्वंसत्वरूपविभिन्नसामग्रीप्रयोज्यानेकधर्मघटितत्वेन स्वसमानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसत्वस्यानेकसामग्रीनियम्यत्वलक्षणार्थसमाजसिदत्वान्न किश्चिनिरूपितकार्यतावच्छेदकत्वमिति न तदवच्छिन्ने तत्त्वज्ञानस्य हेतुता सम्भवतीत्याह-वस्तुत इति / तद्रपावच्छिन्नेति- स्वसमानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसत्वाच्छिन्नेऽपि / न हेतुतान तत्त्वज्ञानस्य कारणता / तहि कस्मिन् कार्य तत्त्वज्ञानस्य कारणतेति पृच्छति-किन्विति / उत्तरयति- सामान्यावच्छिन्नध्वंसनय इतिसामान्यधर्मावच्छिन्नप्रतियोगिताकध्वसस्वीकारपक्षे इत्यर्थः, घटवत्ताबुद्धिं प्रति घटाभाववत्तानिश्चयस्य प्रतिबन्धकस्त्वम्, तत्र यदि घटत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिमविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपितघनिष्ठप्रतियोगिताकात्य