________________ नयामततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो मयोपदेश / अपूर्वीयत्रीहिविशेषे नखनिभेदाप्राप्तेः, तत्रापि नियमादृष्टानुपपत्तिरिति चेत् ? न-शक्यपरिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा " ब्रीहीनवहन्ति " इत्यत्र पक्षे प्राप्तस्य नखनिर्भेदादेः शक्येन परिवर्जनेनाभिघातो नियम्यते- ' अवहन्तव्या एव न नखैर्निर्भेतव्याः' इति, नैवमत्र, तत्त्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन विरोधिगुणरोगादिनेति शक्यं प्रतिज्ञातुं तस्यापुरुषतन्त्रत्वात् / अत एव प्रोक्षि(त)व्रीह्मवघातत्वेनै(ने)व श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वध्रौव्यमिति निरस्तम्, प्रोक्षणादेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात् तत्र तथोक्तिसम्भवेऽप्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा वक्तुमशक्यत्वात् / किञ्च, अत्र विजातीयतत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुत्वान्न श्रेयसी अदृष्टकल्पना, तत्र वैजात्येनैव हेतुत्वे तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तो कृष्णले प्रोक्षणबाधापत्तेः, न चावहन्तव्यप्रोक्षणत्वेनाप्यदृष्टहेतुत्वात् तत्रापि नियमादृष्टं कल्पनीयम् , दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितत्वादित्य स्त्रियं यदा गन्तुमिच्छति तदा भार्यागमनं न प्राप्तम्, यदा भायाँ गन्तुमिच्छति तदा भार्यागमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ भार्यामेवेति नियमः, एवमपि ऋतावेव भार्यामेव कदाचिद् गन्तुमिच्छति तदानीं गमनं प्राप्तम् , यदा च गमनं नेच्छति तदानी न गमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ उपेयादेवेति नियमः, तथा च ऋतौ भार्यायामगमने प्रत्यवायः, अनृतावपि भार्यायां गमने प्रत्यवायः, ऋतावेव भार्याभिन्नाबलायां गमने प्रत्यवाय इति लभ्यते, एवमृतुकाले नियमतो भार्यागमने पुण्यमिति / सामान्यावच्छेदेन पाक्षिकप्राप्तेनियममूलत्वावेदनाय दृष्टान्तमुपदर्शयति- यथेति-व्रीहीनवन्तीत्यत्र यदा तुषविमोकार्य नख. निर्मंदादिकं कर्तुमिच्छति तदानीमवधातो न प्राप्तः किन्तु नखनिर्भेदादिकमेव प्राप्तमित्येवं पक्षे प्राप्तस्य नखनि दादेः परिवर्जन कर्तुं शक्यत इति शक्येन परिवर्जनेनाभिघातो नियम्यते इत्यर्थः / तनियमस्वरूपमुल्लिखति-अवहन्तध्या एवेतितथा च तुषो नखनिर्भेदादितोऽपि भवतीति तत्रान्यथासिद्धस्य नियमितावघातस्य दृष्टमेव बलमित्यर्थः। "नैवमत्र, तत्व" इत्यस्य स्थाने "नैवमत्र तत्त्व" इत्येवमुल्लेखो युक्तः, अत्र तत्त्वज्ञानेनैव मिथ्याज्ञानं निवर्तयन विरोधिगुणादिनेत्येवं प्रतिज्ञातुं न शक्यमित्यन्वयः। प्रतिज्ञातुमित्यस्य "प्रतिज्ञातुं," इत्युल्लेखो विधेयः। तत्र हेतुमाह-तस्येति-मिथ्याज्ञाननिवर्तनस्य पुरुषप्रयत्नानधीनत्वात् , तत्त्वज्ञानेनापि तन्निवर्तयितुं शक्यं कारणान्तरेणापीत्यर्थः / अत एवेत्यस्य निरस्तमित्यनेनान्वयः। प्रोक्षितेति- ब्रीहीन प्रोक्षतीत्यपि नियमविधिरेव, प्रोक्षिता एव व्रीहयोऽवघाताय कल्पन्त इत्यप्रोक्षितव्रीहीणाम. वघातस्य सम्भवेऽपि न तैरवघातितर्यागोपकार इति तुषविमोकलक्षणं कार्यमकिश्चित्करं तत्र, किन्तु प्रोक्षितव्रीह्यवघातेन नियमादृष्टमुत्पद्यते तद्वारा प्रोक्षणं यागाशमतो यथा प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टं प्रति कारणत्वं तथा श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टं प्रति कारणत्वमित्यप्यत एव निरस्तमित्यर्थः / अत एवेत्यनेनोक्तमेव निरासहेतुं स्पष्टयति-प्रोक्षजादेरिति / प्रधानाङ्गत्वेन प्रधानीभूतयागाङ्गत्वेन, प्रधानेनाऽपूर्वे जनयितव्ये सहकारितया प्रोक्षणादिकमपेक्षितम् . प्रोक्षणं च क्रियारूपत्वाचिरविनष्टत्वेन न साक्षात्प्रधानापूर्वजनकमतोऽदृष्टद्वारा जनकत्वमिति प्रधानापूर्वफलकादृष्टजनकत्वात् प्रोक्षणस्थले प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टहेतुत्वोक्तिसम्भवेऽपि तत्त्वज्ञानस्थले प्रधानस्य तत्त्वज्ञानस्यैवाज्ञाननिवृत्तिलक्षणपएफलकत्वेन श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वस्य वक्तुमशक्यत्वादित्यर्थः, तत्त्वज्ञानस्थले नियमादृष्टाभावे युक्त्यस्तरमुपदर्शयति-किश्चेति / अत्र तत्त्वज्ञानस्थले / दृष्टद्वारा अज्ञाननिवृत्तिलक्षणदृष्टद्वारा / तत्र अवघातस्थले / बजात्येनैवेति अवघात वैजात्यं कल्पयित्वा कल्पितेन वैजात्येनैवावघातस्य प्रधानसहकारित्वेन प्रधानजन्यापूर्व प्रति हेतुत्वे विजातीयावघातत्वावच्छिन्ने प्रोक्षणस्य हेतुत्वे कृष्णले अवघातस्यैवाभावेन विजातीयावघातस्याप्यभावाद विजातीयावघात. कारणत्वेन विहिततयाऽभिमतस्य प्रोक्षणस्य बाधापत्तेरित्यर्थः / ननु व्रीहीन प्रोक्षतीति विनाऽवहन्तव्यप्रोक्षणत्वेनापि प्रधानारत्वं विधीयते, कृष्णलश्वावहन्तव्यो न भवतीति तत्प्रोक्षणस्य प्रोक्षणत्वेन हेतुत्वमिति न कृष्णले प्रोक्षणबाघ इत्याशवाय प्रतिक्षिपति-न चेति / अदृष्टहेतुत्वात् प्रधानापूर्वहेतुत्वात् / तत्रापि अवघातस्थलेऽपि / “नियमादृष्टं कल्पनीयं" इत्यस्य स्थाने " नियमादृष्टं न कल्पनीयं" इति पाठो युक्तः। निषेधे हेतुमाह- दृष्टेति / “दृष्टार्थसेब" इत्यस्य स्थाने " दृष्टार्थस्येव" इति पाठो युक्तः, अवघातादेस्तुषविमोकलक्षणदृष्टार्थस्येव नियमादृष्टरूपप्रयोजनस्य