________________ नपावततरङ्गिणी-सरक्षिणीतरणिभ्यां समलहतो मयोपण। // अस्या अर्थः-नियमेन-अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात्, जीवपुद्गलानामपि परस्पर. विनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् , हन्दीत्युपदर्शने, एवम् अपर्यायेऽवविवक्षितभेदपर्यायेषु, अविभक्तश्रद्धा एकरूपश्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चात्र षट्वा-षट्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः- एकान्तश्रद्धानमात्रं न मिथ्यात्वलक्षणम् , अनेकान्तानेकान्तश्रद्धाने अतिव्याप्तेः, किन्तु शासनबाखैकान्तश्रद्धानम् , तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा( ता )त्पर्यताविषयत्वम् , तेनाभिनिवेशा-ऽभिग्रहयोयोरपि सङ्ग्रहः, न चेदृशं मिथ्यात्वमनेकान्तव्यापकत्वव्युत्पत्तिरहितानैकान्तेन षट्त्वमेकत्वस्यापि भावादित्याह-कायानामपीति / न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलत्वेनैकत्वमित्येव किन्तु जीव-पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह-जीव-पुद्गलानामपीति। "परस्पर" इत्यस्य स्थाने " परस्परम्" इति पाठः समुचितः / हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते, तथेत्युपदर्शनम् / अपर्यायेष्वित्यस्य विवरणम्- अविवक्षितभेदपर्यायेष्विति- अपर्यायेष्वित्यस्य यथाश्रुतं पर्यायरहितेष्वित्यर्थों न सम्भवति पर्यायरहितस्य द्रव्यस्याभावादत इत्थं व्याख्यानमिति बोध्यम् / अविभक्तश्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभकश्रद्धेत्यादिना / अस्यास्तात्पर्यार्थमाह-तथा चेति- अवधारणेन श्रद्धाया भावतोऽ. श्रद्धात्वव्यवस्थितौं चेत्यर्थः / अत्र षटकायाभ्युपगमे / षत्वाषट्वादिना सप्तभङ्गीपथेन स्यात् षट् जीवाः, स्यादषद जीवाः, स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः, स्यात् षट् स्यादवक्तव्याश्च जीवाः, स्यादषट् स्यादवकव्याश्च जीवाः, स्यात् षट् स्यादषट् स्यादवक्तव्याश्च जीवा इत्येवं सप्तभङ्गीमार्गेण / " भावत इत्युक्तिः भनया" इत्यस्य स्थाने "भावत इत्युक्तिभङ्गया" इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योकि:-कथन तद्भजया- तदुक्तिशैल्या, अस्य 'न विहन्यते' इत्यनेनान्वयः। षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरेण / एवमुक्त षद् जीवनिकाया इत्येवमुक्तं- कथितम् / इति इत्याकारिका या जिनवचने रुचिः- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्त्वाद् द्रव्यसम्यग्दृष्टिर्भवत्येव, न तु स द्रव्यतो मिथ्यादृष्टिः। इति एवमुक्तगाथाव्याख्यानम् / टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति / तेषां सम्मतिटीकाकाराणाम् / अयम् एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः। आशयोऽभिप्रायः / अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम् , यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम् , इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एवं स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोऽनेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्तानेकान्तश्रद्धाने / अतिव्याप्तेः अनेकान्तानेकान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छृद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्तश्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः / तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति-किन्विति / उत्तरयति-शासनबाबैकान्तश्रद्धानमिति- मिथ्यात्वलक्षणमित्यनुकर्षण सम्बध्येत, शासनबाह्यस्य- जैनराद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः / तत्वं च सिद्धान्तबाह्यत्वम् / वृद्धति- ' सूत्रा( तात्पर्यता" इत्यस्य स्थाने " सत्रतात्पर्या" इति पाठो युक्तः / वृद्धश्चात्र ज्ञानवृद्धो प्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्यजैनागमलक्षणसूत्रस्य तात्पर्य तदविषयत्वं शासनबाह्यत्वमित्यर्थः / तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य ‘सङ्ग्रहः' इत्यननान्वयः। तथा च षडेव जीवकाया इत्यस्यैकान्तस्य निरुक्तशासनबाह्यत्वाभावात् तच्छ्रद्धानं न मिथ्यात्वमित्याह