________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 287 ___एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिद्रष्टव्याः, तथाहि-एतेषां पुण्या-ऽपुण्यविवर्जितपदार्थसप्तकं न्यसनीयम्, पुण्या-ऽपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षितस्वात् , तत्र च जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्या-ऽनित्यभेदी नाङ्गी. क्रियेते, नित्या ऽनित्ये ह्युपरञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम् , निषेध प्रतियोगिता समानाधिकरण-व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व-परतस्त्वभेदद्वयं नातिक्रामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे / कालादीनां च पञ्चानां षष्ठी यदृच्छो, पन्यसनीया, यदृच्छा नामाऽकस्माद्भावः, तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः समुच्चिनोति, उच्यते क्षणिकवादिभिः कथ्यते / एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः / "लक्षणाऽमनो" इत्यस्य स्थाने " लक्षणो अमुनो" इति पाठो युक्तः / अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन / ' एतेषाम् अक्रियावादिनाम् / पुण्या-ऽपुण्यविवर्जितेति जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षेषु नवसु पदार्थेषु पुण्याऽपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीय- स्थापनीयम् / स्थापनायां पुण्याऽपुण्यविवर्जनं कथमित्य. पेक्षायामाह-पुण्या-पुण्यनिरासस्येति- जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपत्त्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति' नाम तेनैव पुण्याऽपुण्यनिरासस्य पुण्याऽपुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः / अविवक्षितत्वादिति- यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायैव वक्तुर्विवक्षा भवति, यश्च निश्चितस्तत्राज्ञान-संशय-विपर्ययनिराकरणलक्षणप्रयोजनामावाद विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्याऽपुण्ययोन न्यसनमित्यर्थः / तत्र च जीवाऽजीवादिसप्तपदार्थन्यासे च / जीवस्य जीवपदार्थन्यासस्य / अधः अधस्तात् / स्वपरविकल्पभेदद्धयोपन्यास इति- स चेत्थं निभालनीयः-जीवः स्वतः परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यहच्छातच, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्याद्यप्रिमग्रन्थं प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व-परयोरधस्तात् कालादिन्यास उल्लिखितः / तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकालानिवृत्तये त्वाह-असत्वादात्मन इति- अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः / आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोास इत्यपेक्षायामाह-नित्याऽनित्ये इति / तदुपन्यासेति-जीवोपन्यासेत्यर्थः / ते च नित्यानित्ये पुनः / उपरजनीयाभावात्- उपरजनीयस्यात्मनोऽभावात् / कमिति-कावा न कमपीत्यर्थः / ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्ठप्रतियोगितायां निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एव तयोरुपन्यासोऽस्त्वित्यत आह-निषेधेति- यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मों घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम् , पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान तयोः समानाधिकरणधर्मत्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोनिषेधप्रतियोगिताया अवच्छेदकत्वं तथापि ब्यधिकरणधर्म विधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व-परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथकया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान तयोरुपन्यास इति युकं पश्याम इत्यर्थः / “निषेधप्रतियोगिता" इत्यस्य स्थाने "निषेधप्रतियोगितायाः" इति पाठो युक्तः तस्य' चावच्छेदकत्वेनेत्यनेनान्वयः / कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह- कालादीनां चेति-षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्ती कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यहच्छा किंस्वरूपेत्यपेक्षायामाह-यहच्छेति। नामेति कोमलामन्त्रणे। तथा च अकस्माद्भावलक्षणाया यहच्छाया उपन्यासे च /