________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 373 तस्वात् , नापि चतुर्थः- पटे तन्तुजन्यत्व-कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात्। एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निर. स्तम् / तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् / तावद्धर्मावच्छिन्नतब्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपितभव्यतानुप्रवेशेनैव तद्धतोळप्रियमाणत्वादि(वा)नादित्वा(च)व. इयवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् / अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा-ऽतीर्थकर-प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेत्व. भावात्, अथेयं चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वा दिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः चतुर्थपक्षोऽपि न युक्त इत्यर्थः / तत्र हेतुमाह-पट इति / तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्य- निरूप्यम् , नियामकं च-निरूपकम् , न च स्वमेव स्वस्य निरूपकम् , प्रकृते तु निरूप्यमेष निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः / पतेनेत्यस्य निरस्तमित्यनेनान्वयः / एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन / तत्तदिति- यथा पटे यत्तन्तु. जन्यत्वकपालाजन्यत्वात्मकर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतोकधर्मस्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोषग्रस्तमतः पामराभ्युपगतं मूर्खकल्पविद्वन्मन्यस्वोकृतं खण्डितमवसे यमित्यर्थः। तस्मात् स्वभावादेव- स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यत्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदाद्युपगतः श्रेयानिति निगमयति-तस्मादिति। तन्तुजन्यत्व-कपालाजन्यस्वादियाबद्धर्मविशिष्टपटव्यतस्तथाभव्यत्वादेवोत्पाद इति तथामव्यत्वहेतुताप्रवादं जनानां सङ्गमयति-तावद्धर्मावच्छिन्नतयत्युपपत्ताविति- " तद्वयक्त्युपपत्तौ” इत्यस्य स्थाने " तद्वयक्त्युत्पत्तौ” इति पाठः सम्यग्, अस्य तद्धेतोयाप्रियमाणत्वादित्यनेनान्वयः / तन्निरूपितेति- तस्यक्तिनिरूपितेत्यर्थः / भव्यताऽनुप्रवेशेनैवेति- नोंकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्ये कं किञ्चिजनकं किन्तु सामग्री वैजनिकेति प्राचीनैर्गीयते, सामन्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्यक्तिनिरूपितभव्यत्वमपि प्रविशतीत्येवं भव्यत्वानुप्रबेशेनैवेत्यर्थः / “दि(त्वा)नादित्वा( 2 )वध्य" इत्यस्य स्थाने "दित्यनाद्यवध्य" इति पाठः सम्यक इति एतस्मात. कारणात् , अनाद्यवध्यवधिमत्प्रवाहस्येति- अवधिहेतुः, अवधिमत् कार्यम् , तयोः प्रवाहः- परम्परा, तथा अनादिश्वासाववध्यवधिमत्प्रवाहश्चानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषाननुपातात् , अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथाभव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्थाया भावेऽपि तस्था न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः। अयमेव कारणकूटे तावद्धर्मविशिष्टतद्व्यक्तिनिरूपितभव्यत्वानुप्रवेशेन तद्धतोस्तावद्धर्मावच्छिन्नतपक्त्युत्पत्तौ व्याप्रियमाणत्वमित्यभ्यप. गमवाद एव / एतदनभ्युपगमे च निरुक्ततथाभव्यत्वहेतुतावादानभ्युपगमे च / तीर्थकरेति- यस्तीर्थकरो भूत्वा सिद्धयति स तीर्थकरसिद्धः, यश्चातीर्थकर एव सिद्धयति सोऽतीर्थकरसिद्धः, एवमग्रेऽपि, तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थकरसिद्धादिलक्षण कार्यभेदः स तथाभव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः / तत्र हेतुमाह- तत्रेति- तीर्थकरसिद्धादिकार्यभेदे इत्यर्थः / अन्यपुष्कलहेत्वभावादिति- केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यत्वान्येव प्रतिनियत कार्यनिरूपितानि विभिन्नानि कारणानि, तत्प्रवेशत एवं सामध्या अपि भेदः, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथाभव्यत्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः / ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्ट कार्यव्यक्तिं प्रति तथाभव्यत्वस्याभिहितस्वरूपस्थ कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् , तथा च कुत्रचिद् घटे चैत्रावलोकितत्व मैत्रनिर्मितत्वं नीलेतरत्वं परत्वादिकं चास्तीति तावद्धर्मावच्छिन्ना घटनिष्ठकार्यताऽऽपाद्यत इत्याशङ्कते- अथैवमिति / इष्टापत्तिस्वात्र समाधानमित्याहस्थादेवेति- क्षेत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः। किं नश्छिन्नं तथाभव्यत्वकारणत्ववादि.