________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 371 कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनियमानुपपत्तेर्मणिफूस्कारादिनापि वहयाद्युत्पत्तिप्रसङ्गात् , तथा च फूत्कारादिजन्यविजातीयवहौ तृणत्वादिना हेतुत्वस्यावश्यकत्वात्, न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽ. कारणत्वेनैव सामयिकशक्तिविशेषकल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यानायमपि / वह्नौ जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वशित्वावच्छिन्ने विलक्षणो. कूलशक्त्या / लाघवादिति- तथाभूता शक्तिरेकैवेत्यनेकजातिकल्पनाऽपेक्षयकशक्तिकल्पने लाघवादित्यर्थः / फूत्कारसहकृतात् तृणादेव वह्रथुत्पत्तिनिर्मन्थनसहकृतादरणेरेव वह्वयुत्पत्तिः सूर्यकिरणसंयोगसहकृतान्मणेरेव वड्युत्पत्तिरिति तृणादेः फूत्काराद्येव सहकारीति नियमो न भवेत् , फूत्कारादीनां वयनुकूलशक्तिमत एव सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वहिरुत्पद्यतेति समाधत्ते-नेति / तथा च वहिं प्रत्येकशक्तिमत्त्वेन तृणादीनां कारणत्वस्य कल्पयितुमशक्यत्वे च / फुत्कारादीत्यादिपदान्निर्मन्थनरविकिरणसंयोगयोरुपग्रहः, तृणत्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः, एवं च फूत्कारजन्यविजातीयवर्दि प्रति तृणत्वेन तृणस्य, निर्मन्थनजन्यविजातीयवहिं प्रति अरणित्वेनारणेः, तरणिकिरणप्रतिफलनजन्यविजातीयवहिं प्रति मणित्वेन मणेश्च हेतुत्वस्याऽऽवश्यकत्वादित्यर्थः / ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोगे च वह्नयनुकूलशक्तिरेकोपेयते, तादृशशक्तिमत्त्वेन तृणफूत्कारसंयोगादीनां वहिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति। न तन्नियमानुपपत्तिः न सहकारिनियमानुपपत्तिः। यत् कारणं तत् कार्यानुकूलशक्तिमत् , यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्वेरिव कार्याकारणेषु कार्याननुकूलशक्तरपि स्वसमयसिद्धायाः कल्पनं स्याद्, एवं च तृणत्वादिना तृणादीनां वह्निकारणत्वाभावे तेष्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पनं प्रसज्येतेति समाधत्ते-तहीति / तथाभूतति-तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्थनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कारसंयोगादिषु वहिकारणतावच्छेदकतया कल्पनौचित्यप्रसाशादित्यर्थः / भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति- अन्यतमत्वेन कारण. त्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्नभेदरूपतया तत्र कूटत्वस्यैकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषण. भावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्नकारणत्वस्याप्यनेकत्वप्रसङ्गादित्यर्थः। एवं च वहित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तृणादिजन्यतावच्छेदकत्वमिति विजायतीयवहित्वावच्छिन्नं प्रति तृणत्वेन, विजातीयवहित्वावच्छिन्नं प्रति अरणित्वेन, विजातीयवह्नित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रयकल्पनमेव ज्याय इत्याहवह्नौ जातिभेदस्येति / अन्ये इति- उदयनाचार्याः, तथा च तन्द्रथः- " फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् , दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः। यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् , एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात् , * यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः, तथा च कार्यानुपलब्धिलिङ्गभङ्ग स्वभावस्याप्यसिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याक्रान्तयोर्ययोरन्वय-व्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकं तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमात्रोत्पत्तौ पवनो निमित्तम् , अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम् , तत्रापि जलं प्राप्य दिव्यम् , पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति / " अनन्तरमुल्लिखिते उदयनाचार्यग्रन्थ एव "इयमेव तेजोगतमुद्भतस्पर्शमपेक्ष्य * दहनम्" इत्युक्त्या प्राचीननैयायिकानामुदयनाचार्यप्रभृतीनामेव मतमेतत्, यदुत- वह्नित्वावच्छिन्ने विलक्षणोष्णवत्तेजः __ कारणमिति, युक्तं चैतत् , अन्यमतोपदर्शने वदित्वावान्तरजात्यवच्छिन्ने तृणत्वादिना कारणत्वोपदर्शनेऽपि वह्नित्वावच्छिन्ने