________________ नयामृततरक्षिणी-तरङ्गिणीतरणिम्या समाङ्कतो. मयोपदेश। तन्मतेऽपि " पुरोहितं वृणीत" [ ] इत्यत्र वरसंस्कृतेन पुसेहितेनेष्ठं भाक्येक्षितिका " स्वाध्यायोऽध्येतव्यः " [ तैत्तरीयारण्यक, 2. 25] इत्यत्रापि अध्ययनसंस्कृतेन स्वाध्यायेनावनोत्रं भाक्येदिति वाक्यार्थस्याभ्युपगमात् ' संस्कारश्चावाप्तिः' इत्यावश्यक्रमस्याः, किस क्षत्रियाक नियमके ट्यादिवाक्याध्ययने अर्थावबोधफलाभावादवाप्तिरेव फलत्वेनाश्रयणीया, तस्मादध्यायनविधेः सर्वत्रावातिरेवः फलमिति युक्तम् / अथ केयमापातता ? उच्यते- वेदान्तजन्याहानस्य निस्सामान्यविशेषब्रह्माका धारणरूपस्यापि संशयाविरोधितैव, सा च दोषविशेषसाचिव्येन समानप्रकास्कसमानविशेष्यकनिश्चयत्वेनापि [ संभवति ], संशयप्रतिबन्धकत्वस्यागि घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयाप्रतिबन्धकत्वेन वक्तुमशक्यत्वात् , सति दोषविशेषे निश्चितेऽपि संशयोत्पत्तेः, असति नाऽपीत्यर्थः / अवाप्तिीमांसकेनाङ्गीक्रियते इत्युपपादयति-तन्मतेऽपीति-मीमांसकमतेऽपीत्यर्थः। वरसंस्कृतेनेत्यस्य वरणसंस्कृतेनेत्यर्थः, वरणं वर इति व्युत्पत्तेः, 'त्वं मे कर्तव्यकर्मणि पुरोहितो भूयाः' इत्येवं यस्य वरण तेनैव वरणसंस्कृतेन पुरोहितेनेष्टस्य करणे सति फलमधिगच्छति यजमानो न वरणसंस्काररहितेनेत्येतदर्थ भावयितुं पुरोहितं वृणीतेत्यस्यार्थ आविष्कृतो वरसंस्कृतेनेत्यादिवचनेन / नन्वेवं संस्कारस्यावश्यकत्वं नावाप्तेरित्यत आह-संस्कारश्चावाप्तिरिति / " इत्या. वश्यकमस्याः" इत्यस्य स्थाने " इत्यावश्यकत्वमस्याः" इति पाठो युक्तः, अस्याः अवाप्तेः / अवाप्तेः फलत्वे युक्त्यन्तरमुपदर्शयति-किश्चेति, निषादेष्ट्यादीति- " निषादस्थपति याजयेत्" [ ] इत्यत्र निषादश्चासौ स्थपतिस्तं याजयेदित्येवं कर्मधारयसमास एव लाघवादाश्रितः, न तु निषादानां स्थपतिर्निषादस्थपतिस्तं याजयेदित्येवं तत्पुरुषसमासो. ऽभ्युपगतः, एवं च निषादेष्टयुपयुक्तपदार्थावबोधकफलकं वेदवाक्यं सङ्करजातिविशेषेण निषादेनैवाध्येतव्यम्, क्षत्रियस्य तु निषादेठ्यनधिकारिणो न निषादेष्ट्युपयुक्तार्थावबोधफलमुपादेयमिति तत्फलकवाक्याध्ययनं न कर्तव्यं भवेत् , अवाप्तिफलाभ्युपगमे तु ब्राह्मण-क्षत्रिय-वैश्यलक्षणत्रैवर्णिकस्यैव वेदाध्ययनाधिकारतो वेदाध्ययनतः संस्कृताः सर्वेऽपि त्रैवर्णिका भवन्तीति संस्कारविशेषलक्षणावाप्तिः क्षत्रियस्यापीष्टेति तदर्थ क्षत्रियस्यापि निषादेष्ट्यादिवाक्याध्ययनं कर्तव्यकक्षामश्चतीति / उपसंहरतितस्मादिति / एतावता नित्याध्ययनविधिनेत्यत्र नित्यत्वं यदध्ययनविशेषणमुकं तदुपपादितम् , इदानीं साझाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छतीत्यत्राधिगमे आपातत इति यद् विशेषणं तत्स्वरूपमजानानः पृच्छति- अध केयमापाततेति / उत्तरयति- उच्यत इति / वेदान्तजन्यज्ञानस्य तत्त्वमसीति महावाक्यात्मकवेदान्तजन्याखण्डब्रह्मसाक्षात्काररूपज्ञानस्य / तस्यानिर्णयात्मकत्वादेव संशयाविरोधितेति माऽवमंस्था निश्चयात्मकत्वेऽपि तस्य संशयाविरोधितेत्युपदर्शयितुमुकं-निःसामान्यविशेषब्रह्मावधारणरूपस्यापीति- ब्रह्मणो निर्धर्मिकत्वान्न तत्र सामान्यं विशेषा का विद्यन्त इति निःसामान्यविशेषमखण्डं ब्रह्म, तस्य यदवधारणं निश्चयात्मकं ज्ञानं तद्रूपस्यापि तदात्मकस्यापि वेदान्तजन्यज्ञानस्येत्यर्थः / संशयाविरोधितैवेत्यनन्तरमापाततेत्यनुषज्यते / ननु तत्प्रकारकतद्विशेष्यकनिश्चयस्य तत्प्रकारकतद्विशेष्यकसंशयं प्रति प्रतिबन्धकत्वात् कथं निश्चयस्य संशयाविरोधितेत्यत आह-सा चेति-संशयाविरोधितालक्षणाऽऽपातता चेत्यर्थः, अस्य सम्भवतीयनेनान्वयः, अत एवाने सम्भवतीति पाठो युक्त एव / दोषसाचिव्येनेति- एतदुक्तिस्तु दोषासमवधाने. समानप्रकारकसमानविशेष्यकनिश्चयसत्त्वे संशयो न भवतीति दोषासमवहितोक्तनिश्चयस्य न संशयाविरोधित्वमित्यवगतये / ननु दोषासमवहित्वविशेषणमनाहत्यैव समानप्रकारकसमानविशेष्यकनिश्चयत्वेन निश्चयस्य संशयप्रतिबन्धकत्वमस्तु, तथा च दोषसाचिव्येनापि नोक्तनिश्चयत्वेन संशयाविरोधितेत्यत आह-संशयप्रतिबन्धकत्वस्यापीति- अस्य वक्तुमशक्यत्वादित्यनेनान्वयः। ननु घटवद् भूतलमिति निश्चयसत्त्वे भूतले घटो नवेति संशयो न जायत एवेति घटव भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयप्रतिबन्धकत्वमेवेत्यत आह-सति दोषविशेष इति / असतीति- दोषविशेष इत्यनुषज्यते। तदभावादेव दोषविशेषाभावादेव / तस्यैव दोषविशेषस्यैव / तद्धेतुत्वात् संशयहेतुत्वात् / तस्यैवेत्येवकारेय. निरुक्तनिधयाभावस्य संशयकारणत्वव्यवच्छेदः, यदा च निरुक्कनिश्चयाभावस्य न संशयकारणत्वं तदा कारणीभूताभावप्रति 45