________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समलती नयोपदेशः / स्मकाः, तदाकारानुस्यूतत्वात् , सुवर्णात्मककुण्डलादिवत्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धः। नच प्रमाणाधीना प्रमेयव्यवस्था; प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्याथोप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात् , साकारस्य च तस्य वागरूपतां विना असम्भवात् , तदुक्तम्" बागपत्ता चेद् व्युत्क्रामेदवबोधस्य शाश्वती / न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी // 1 // " ] इति / अतं एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत्, कथमन्यथा अष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुखदशरथत्वादिनोपस्थितेस्तत्रासम्भावनीयत्वात् प्रामा-ऽऽरामादीनां शब्दाकारणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम् , अत्र यद् यदाकारांनुस्यूते तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः / इत्यादितः इत्याद्यनुमानप्रयोगतः / शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दतत्वात्मकब्रह्मात्मकत्वसिद्धेः / ज्ञानमिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वंसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदनप्रत्यक्षेणानुभूयमानस्यं प्रत्यक्षबाधान शब्दतत्त्वात्मकत्वसिद्धिरित्याशङ्कां प्रतिक्षिपति-न चेति- इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाख्यात्रेण सिद्धचद् व्यवस्थामेवोत्सादयेदिति प्रमाणं चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चेत्यर्थः / निषेधे हेतुमाह-निराकारस्येतिइदमेतदात्मकमिदमैतदात्मकमिति व्यवहारस्वरूपैव प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्म कमिति व्यवस्था व्यवहाररूपैव, एवं च सर्वोऽपि व्यवहारः साकारज्ञानादेवार्थप्राहकात् प्रवर्तते न त्वर्थाप्राहकान्निराकारज्ञानात् , तस्य स्वसंवेदनेनाप्यननु.. भूयमानस्यासिद्धत्वात् , साकारस्य च ज्ञानस्य वापतां विनाऽसम्भवादित्यन्यथानुपपत्त्या ज्ञानस्यापि चिदात्मकस्य शब्देनानुस्यूतत्वाच्छब्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः / ज्ञानस्यापि शब्दरूपत्वे मर्तृहरिवचनं संवादकतयोपदर्शयति-तदुका मिति / वाग्रूपतेति-चेत् यदि, अवबोधस्य ज्ञानस्य, वायुपता शब्दरूपता, शश्विती सर्वकालिकी स्वाभाविकी, व्युत्क्रामेत् न भवेत् , तहीति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वाघूपता, प्रत्यवमार्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारयितुं न शक्यत इत्यर्थः / अत एव जगतः शब्दात्मकत्वादेव / शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, "वैयाकर्णैः" इत्यस्य स्थाने "वैयाकरणः" इति पाठो युक्तः, अभेदेनैव तादात्म्यैनैव, शब्दार्थयोर्वाच्यवाचकभावसम्बन्धस्तयोस्तादात्म्या. देव भवतीत्येवं वैयाकरणः प्रतिपादितः प्रदर्शितः / शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति-युक्त चैत. दिति- वैयाकरणैः शब्दार्थयोस्तादात्म्यसम्बन्धप्रतिपादनं युक्तमित्यर्थः / कथमित्यस्य शाब्दबोध इत्यनेनान्वयः / अन्यथा शब्दार्थयोस्तादात्म्यसम्बन्धाभावे / अष्टदशरथादीनामिति-न दृष्टा दशरथादयो यस्तेऽदृष्टदशरथादयस्तेषामित्यर्थः / दशरथादिसमानकालीना अपि दूरदेशाधवस्थानादिना कतिपय अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगमावगतिनिमित्तमुक्तम्- इदानीन्तनानामिति- ऐदंयुगीनानां प्रमातणामित्यर्थः। दशरथादिपदात् कथमिदानीन्तनानां शाब्दबोधो न भवेच्छब्दार्थयोस्तादात्म्यसम्बन्धाभावे इत्यपेक्षायामाहशुद्धति- अन्यधर्मानवच्छिन्नेत्यर्थः, तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिनोपस्थितिसम्भवेऽपि न क्षतिः। तंत्र अष्टदशस्थादिष्विदानीन्तनेषु / शुद्धदशरथत्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकालायामाह-तथेति- शुद्धदशरथत्वादिनेत्यर्थः। “पूर्वक.” इत्यस्य स्थाने "पूर्व" इति पाठो युक्तः, येषां निरवच्छिन्नदशरथत्वादिप्रकारकदर्शनात्मकानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शक्कमिति शक्तिप्रहो न सम्भवति, शक्त्यनुभवांमाघे शक्तिस्मरणमपि न सम्भवति, अनुमवस्य स्मरणं प्रति कारणत्वात् , तथाविधशतिग्रहामावे दशरथादिपदान्निरवच्छिन्नदशरथादिप्रका. रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकारकानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिहस्य चामावादिति नेदानीन्तनामामॅदृष्ट दशरथादीनां दशरथादिपदानिरवच्छिन्नदशरयत्वादिप्रकारक्शाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्यसम्बन्धीमावे इत्यर्थः। यद्यपीदानीन्तनानामपि दशरथादिपदं प्रेमेयविशिष्टे