________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। इत्यनेन यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात् , अस्तु वा तत्राभिप्रायकी स्थापनेव, भवतु वा वैज्ञानिको भावनिक्षेप एव, गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्तिं विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् , एतच्च विपश्चितमलकारचूडामणिवृत्तावस्माभिः, तत् कि शक्तिलक्षणान्यतरवृत्तेरपेक्षित(?)शब्दसङ्केतविषयत्वमेव नामलक्षणम् , 'स्थितमन्यार्थे ' इत्यत्राने कार्थवाच्यव्यावृत्तये ' अशक्यार्थे ' इति करणाच्छक्यस्य 'पर्यायानभिधेयं च' इत्यनेन लक्ष्यस्य च व्यावृत्तौ तात्पर्यात्, ओमिति चेत् ? तर्हि रूपसत्यादिविषये अतिव्याप्तिः, तस्य द्रव्यनिक्षेपविषयत्वेन चतुष्टयातिरिक्तनिक्षेपकल्पनायाः। दोषाभावात् निक्षेपेयत्ताक्षतिप्रसङ्गस्येष्टापत्तिरूपतया दोषत्वाभावात् , निक्षेपानन्त्यस्यैवेष्ट. त्वादिति भावः / निक्षेपाश्चत्वार एवेत्यभ्युपगमेऽपि नामनिक्षेपभिन्न प्रसिद्धनिक्षेपविषय एवायमिति न निक्षेपेयत्ताक्षतिरित्याहअस्तु वेति / तत्र गङ्गातीरे। आभिप्रायिकी शैत्य-पावनत्वादिप्रतिपत्तिप्रयोजनाभिप्रायेण गङ्गायां घोष इति प्रयोक्तु. गङ्गातीरे गङ्गाया या असद्भूतस्थापना तदभिप्रायविषयः, स्थापनैव स्थापनानिक्षेप एवेत्यर्थः / अथवा गङ्गापदशक्यार्थस्य गङ्गाजलप्रवाहस्याभेदाध्यवसाय एव गङ्गातीर इति गङ्गातीरं गङ्गैवेति कृत्वा भावनिक्षेप एव तत्रेयाह-भवतु वेति / वैज्ञानिकः वस्तुतो गङ्गातीरस्य गङ्गात्वाभावेऽभेदाध्यवसायतो गङ्गात्वं तत्रेति विज्ञानकृतः / कथं विज्ञानकृतो भावनिक्षेपस्तत्राश्रीयत इत्यपेक्षायामाह- गङ्गापदेनेति-गङ्गातीरं यदि गङ्गापदेन गङ्गाभिन्नतयाऽभिव्यक्तं स्यात् तदैव गङ्गागतस्य शैत्यपावनत्वादिधर्मसम्बन्धस्याभिव्यञ्जनं तत्र भवेन्नान्यथेत्यतस्तत्र गङ्गापदेन गाभेदाभिव्यञ्जनमावश्यकमित्येतस्मात् कारणाद् गङ्गायां घोष इत्यत्र नामनिक्षेप एवेत्यर्थः / उक्तार्थस्य विशेषतोऽवगतयेऽस्मत्कृताऽलङ्कारचूडामणिवृत्तिरवलोकनीया विचक्षणैरित्यावेदनाय श्रीयशोविजयोपाध्याया आहुः- एतच्चेति / अस्माभिः श्रीयशोविजयोपाध्यायः / अत्र परः पृच्छतितत् किमिति / “रपेक्षित" इत्यस्य स्थाने " रुपेक्षैव ?" इति पाठो युक्तः, यदि लक्ष्येऽपि गङ्गातीरे न नामनिक्षेपप्रवृत्तिः, शक्ये तु नामनिपक्षेप्रवृत्तिरनभ्युपगतैवेत्येतस्मात् कारणात् किं शक्तिलक्षणान्यतरात्मिका या पदस्य वृत्तिस्तस्या उपेक्षैव किमित्यर्थः / एवं सति नामनिक्षेपलक्षणं यत् पर्यवसित तदाह-शब्दसङ्केतविषयत्वमेव, नामलक्षणमिति / ननु शब्दसङ्केतः शक्ये लक्ष्ये चेति शब्दसङ्केतविषयत्वस्य शक्य-लक्ष्ययोः सत्त्वादुक्तलक्षणस्य तयोरतिव्याप्तिरित्यत आहस्थितमन्यार्थ इत्यत्रेति- नामलक्षणप्रतिपादकपद्ये यत् 'स्थितमन्यार्थे ' इति वचनं तत्रेत्यर्थः / अनेकार्थवाच्या व्यावृत्तये अनेकार्थो यो गवादिशब्दस्तस्यैकार्थभिन्नो यो वाच्यो द्वितीयोऽर्थस्तस्य तस्मिन् वा नामलक्षणस्य व्यावृत्तये व्यवच्छेदाय; यदि स्थितमन्यार्थ इत्येव स्यात् तदा गोपदं गोभिन्नवाण्यादिलक्षणेऽथें स्थित गोरूपशक्या नामनिक्षेपो भवेत्, शब्दसङ्केतविषयत्वस्य तत्र सत्त्वादतस्तस्यावृत्तये 'अन्यार्थे ' इत्यस्य स्थाने 'अशक्यार्थे' इति करणाच्छक्यस्य गोरूपार्थस्य, अस्य 'व्यावृत्तौ' इत्यत्रान्वयः / गङ्गायां घोष इत्यत्र गङ्गापदमशक्यार्थे तीररूपार्थ एव स्थितमिति तीरे तस्य नामनिक्षेपत्वव्यावृत्तये त्वाह-पर्यायेति - पर्यायलक्षणवाक्यघटकेन 'पर्यायानभिधेयं' इत्यनेन वचनेन लक्ष्यस्यगङ्गातीररूपार्थस्य व्यावृत्तौ - नामनिक्षेपत्वव्यावृत्तौ निरुक्तनामलक्षणकर्तुस्तात्पर्यादित्यर्थः। तत्रोत्तरमाशङ्कते- ओमिति चेदिति- अत्र स्वीकारार्थक 'ओ' इति शब्दः, तथा च शक्ति लक्षणान्यतरवृत्तरुपेक्षा भवदाशङ्कितं नामलक्षणं शक्यलक्ष्यव्यावृत्तये लक्षणघटकमशक्यार्थ इति वचनं च स्वीक्रियत एवेति तदर्थः / प्रष्टोकोत्तरं दूषयति-रूपेति-"रूपसत्यादिविषये" इत्यस्य स्थाने "रूपवत्याद्यसत्यादिविषये" इत्येवं पाठो भवितुमर्हति; अन्यादृशो वा पाठो यद्यत्र स्यात् तदा साङ्गत्यमञ्चतीति विचारणीयं सुधीभिः, 'रूपवत्याद्यसत्यादिविषये' इति पाठं समालम्ब्य व्याख्यायते-यद्य प्याकृतावपि शब्दस्य शक्तिरिति शक्यव्यावतकविशेषणत एव स्थापनाया आकृतिरूपाया व्यावृत्तिः, भावे तु शक्तिरस्त्येवेति तत एव भावस्यापि व्यावृत्तिः, जातिस्त्वनुगतत्वाद् द्रव्यमेवेति जातौ शक्तेः स्वीकाराजातिरूपत्वाद् द्रव्यस्यापि शक्यत्वमिति शक्यव्यावर्तकविशेषणतो द्रव्यस्यापि व्यावृत्तिः, तथापि कल्पितरूपवत्यादिसंज्ञकनायिकावर्णनात्मकनायिकाख्यायिकाया असत्यादिविषये कल्पितादिनामकनायिका. तद्बामाद्यात्मकविषये तद्वचनस्य नामनिक्षेपत्वं स्याद् यतस्तादृशार्थे व्यवहार:पथानवतीर्णे न शक्तिर्नापि लक्षणा रूपवत्यादिशब्दस्यात: शक्य-लक्ष्यभिन्नः सोऽर्थ इति निरुक्तनामनिक्षेपलक्षणस्य तत्रातिव्याप्तिरित्यर्थः। ननु तस्य लक्ष्यत्वात् तत्रातिव्याप्तिरूपता न लक्षणसमन्वयस्येत्यत आह-तस्येति-रूपवत्यादिविषयस्ये