________________ 254 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। - ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्तं भाष्यकृता-" णामाइतियं दत्व ट्ठिअस्स भावो अ पजवणयस्स" [ विशेषावश्यकभाष्यगाथा७५ ] त्ति, तत् कथं सङ्गच्छते ? तत्राह-द्रव्यार्थिक भिदा त्रये-नाम-स्थापना-द्रव्य-लक्षणे. मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि -" अत्र चाद्या नामादयत्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात् , पाश्चात्यः पर्यायनयस्य तथापरिणति-विज्ञानाभ्याम् " इति // 83 // एतन्मतावष्टम्भकमाह द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च तद्गुणः / सामायिकमिति प्रोक्तं, यदिशाऽऽवश्यकादिषु // 84 // नयामृत-द्रव्यार्थ इति / यदिशाऽऽवश्यकादिषु प्रन्थेषु द्रव्यार्थिकनये गुणवान् जीवः सामायिकम् , पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय. ढिओ त्ति" इत्यादिना यः पाठः-कथनं ततः सिद्धस्य / तत्र द्रव्याथिके पर्यायाथिके च भजनाकृतविशेषस्योकापेक्षा विनाऽनुपपत्तेरित्यस्मात् कारणादेतदवश्यमभ्युपगन्तव्यमित्यर्थः। उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति / एवम् उक्तप्रकारेण / पर्यायाथिके साम्प्रतसमभिरूढेवम्भूताख्यशब्द. नये। शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु / णामा० इति- " नामादित्रिक द्रव्यार्थिकस्य भावः पर्यवनयस्य" इति संस्कृतम् / तत्राह उक्ताशङ्कायां प्रतिविधानं कथयति / भिदां त्रये इति मूलस्य विवरणं-नाम स्थापना-द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम्, 'पुरस्कृतमिति विशेषः' इत्यस्य स्थाने "पुरस्कृतमिति शेषः" इति पाठो युक्तः। “स्वातन्त्र्येणापि" इत्यस्य स्थाने “स्वातन्त्र्येण" इति पाठो युक्तः। तत्र मङ्गलवादे। तथोक्तिः "णामाइतियं दवट्ठिअस्स भावो अ पजवणयस्स" इत्युक्तिः / इति एवम् / अर्थः उत्तरार्द्धार्थः / अत एव उक्तमतान्तराश्रयणादेव / तत्त्वार्थवृत्तिपाठमुल्लिखति-अत्र चेति-चतुर्पु निक्षेपेषु मध्ये चेत्यर्थः / आद्या नामादयः " नामस्थापना-द्रव्य-भावतस्तन्न्यासः"[तत्त्वार्थ० अ० 1, सू०५] इति सूत्रोक्तक्रमाक्षरान्नाम-स्थापना-द्रव्याख्याः / विकल्पाः निक्षेपभेदाः / द्रव्यार्थिकस्य नेगम-सङ्ग्रह-व्यवहारर्जुसूत्राख्यद्रव्यार्थिकनय चतुष्टयस्याभिमताः / “तथा सर्वार्षत्वात्" इत्यस्य स्थाने " तथा तथा सर्वार्थत्वात्” इति पाठो युक्तः, तथा तथा- तेन तेन रूपेण, नामस्व-स्थापनात्व-द्रव्यत्वभावत्वैरिति यावत्, सर्वार्थत्वात्- सर्वशब्दाभिधेयत्वात् , घट इत्युचरिते घटनाम घटाकृति-द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः / पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः। पर्यायनयस्य साम्प्रतसमभिरूढैवम्भूताख्यत्रिविधशब्दनयस्याभिमतः। तत्र हेतु:-तथापरिणति-विज्ञानाभ्यामिति- क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एव, पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते. नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य क्षणिकेषु सत्त्वात् , प्रतिक्षणं भिन्नभिन्नस्वरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुद्रपात्मकपूर्वपूर्वघटाद् भावघट एव समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्य तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः, तथा च घट इत्युक्त आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटखरूप एव घट इत्यर्थः // 83 // चतुरशीतितमपद्यमवतारयति- एतन्मतेति- द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायार्थि कस्य भावनिक्षेप इत्यभ्युप. गन्तृमतेत्यर्थः। अवष्टम्भकम् उपोटूलकं समर्थ कमिति यावत् / विवृणोति-द्रव्यार्थ इतीति। द्रव्यार्थ इत्यस्य विवरणं-द्वव्यार्थिकनये इति, पर्यायार्थे चेत्यस्य विवरणं-पर्यायार्थिकनये चेति / तण इत्यस्य विवरणं