________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 251 ननु नैगमादीनां नामादिचतुष्टयाभ्युपगन्तृत्वे तेषां द्रव्यार्थिकत्वव्याहतिः स्यात् , द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपात्, द्रव्यं प्रधानतया पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिक्षेपसह इति चेत् ? हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिक्षेपसहाः प्राप्ता इति " भावं चिय सद्दणया" [ ] इत्यादिप्रागुक्तभाष्यवचनसंवादव्याघातः, एतेन 'द्रव्यार्थिक. पर्यायार्थिकयोयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनान्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थमन्यकल्पनानुपपत्तिः, भेदा-ऽभेदोपरागेणोभयग्रहार्थमुभय. कल्पनावश्यकत्वादिति द्रव्यार्थिकस्यापि पर्यायसहत्वम्' इत्यप्यपास्तम् , एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्तभेदाभेदग्राहिणोर्द्वयोः समुदितयोरपि मिथ्यादृष्टित्वात् , अत्यन्ता. भेदे पर्यायद्वयासहोक्तिप्रसङ्गेन गुणे द्रव्यमिति द्रव्यार्थिकनयामिलापानुपपत्तेः, अत्यन्तभेदेऽपि पर्यायार्थिसूत्राणां भावनिक्षेपाभ्युपंगन्तृत्वमसहमानस्य शङ्कामुपत्थापयति-नन्विति / नामादीत्यादिपदात् स्थापना-द्रव्य-भावानामुपग्रहः / तेषां नैगमादीनाम् / नैगमादीनां भावनिक्षेपाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकत्वनियामक द्रव्याभ्युपगन्तृत्वमस्त्येवेति द्रव्यार्थिकत्वं कुतो व्याहतमित्यत आह-द्रव्याधिकेनेति / द्रव्यस्यैवेत्येवकारलभ्यमेव स्पष्टयति-पर्यायस्य प्रति. क्षेपादिति / अत्र प्रतिविधानमाशङ्कते- द्रव्यमिति - न द्रव्यमात्राभ्युपगन्तृत्वं द्रव्यार्थिकत्वनियामकं किन्तु प्राधान्येन द्रव्याभ्युपगन्तृत्वम्, तच्च गौणतया पर्यायाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकस्य सम्भवत्येवेति भावनिक्षेपसहो भवत्येव द्रव्यार्थिक इत्यर्थः। यथा द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वं तथा पर्यायार्थिकस्यापि गौणतया द्रव्याभ्युपगन्तृत्वं स्यादेव, तथा च नैगमादीनां द्रव्यार्थिकानामुक्तदिशा निक्षेपचतुष्टयाभ्युपगन्तृत्वे पर्यायार्थिकानां शब्दनयानामपि निक्षेपचतुष्टयाभ्युप. गन्तृत्वं स्यात् , एवं 'भावं चिय सद्दनया" [भावमेव शन्दनयाः] इति भाष्यवचनसंवादव्याहतिरित्येवमुक्तविधानप्रतिक्षेपमुपदर्शयति- इन्तेति। त्वदुकरीत्या भवदुपदर्शितप्रधानगौणभावाश्रयणनीया / एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः / तुल्यवादेन समानतया / उभयाभ्युपगमः द्रव्य-पर्यायोभयाभ्युपगमः / यदि द्वयोरपि द्रव्य-पर्यायोभयाभ्युपगन्तृत्वं तवें कस्य द्रव्यार्थिकत्वमपरस्य पर्यायार्थि त्वमिति वैलक्षण्यं कथमित्यत आह- परमिति- किन्त्वित्यर्थः, आद्यस्य नैगमादिनयस्य / सर्वथाऽभेदेनेति- पर्यायस्य सर्वथा द्रव्याभेद एवेति द्रव्याभ्युपगमे तदभिन्नतया पर्यायस्याप्यभ्युपगम इत्येवं सर्वथाऽभेदेन द्रव्यपर्यायोभयाभ्युपगमो नैगमादिनयस्येत्यर्थः / अन्त्यस्य तु साम्प्रतादिशब्दनयस्य पुनः / सर्वथाभेदेनेति- पर्यायः सर्वथा द्रव्याद् भिन्न एवेत्येवं सर्वथा भेदेन द्रव्य पर्यायोभयाभ्युपगमः शब्दनयस्येत्यर्थः, तथा चाभिन्नतया द्रव्य-पर्यायोभयावगतये नैगमादिव्यार्थिकस्य भिन्नतया द्रव्यपर्यायोभयावगतये साम्प्रतादिपर्यायार्थिकस्य च कल्पनमुभयविषयत्वेऽपि द्वयोः सम्भवत्येवेत्याह-तत इति / नैकस्येति- 'नत्रः' 'अनुपपत्तिः' इत्यनेनान्वयः / एतेनेत्यतिदिष्टमेव निरासहेतुमाह-एवं सतीति- द्रव्यार्थि कस्य नैगमादेरुक्कदिशा पर्याय सहत्वाभ्युपगमे सतीत्यर्थः / द्रव्यपर्याययोः सर्वथाऽभेदोऽसन्नवत्यसतस्तस्याभ्युपगमे नैगमादेमिथ्यादृष्टित्वं स्यात् , एवं द्रव्य-पर्याययोः सर्वथा भेदोऽप्यसन्नेवेति तदभ्युपगमे शब्दनयस्यापि पर्यायार्थिकस्य मिथ्यादृष्टित्वं स्यादित्याह - अत्यन्तेति / प्रत्येकस्य मिथ्यादृष्टित्वे समुदितयोरपि मिथ्यादृष्टित्वं नहि प्रत्येकमन्ययोर्द्वयोः समुदितयोर्नान्यत्वमित्याह-समुदितयोरपीति / एवं द्रव्यार्थिकनये द्रव्य-पर्याययोरत्यन्ताभेदे यदेव द्रव्यं तदेव गुण इत्येकार्थकयोर्द्रव्य गुणशब्दयोः पर्यायशब्दत्वाद् द्रव्यशब्दाद् द्रव्यात्मकस्य गुणस्य गुणशब्दाद् गुणात्मकस्य द्रव्यस्य प्रतीतेर्यथा 'घटः कलशः' इति सहोतिर्न सम्भवति तथा गुणो द्रव्यमिति सहोतिर्न स्यादित्याह-अत्यन्ताभेद इति- द्रव्य-पर्याययोरत्यन्ताभेदे इत्यर्थः / पर्यायाथिकनये द्रव्यपर्याययोरत्यन्तभेदेऽपि पर्यायार्थिकेन पर्यायभिन्नं द्रव्यं गृह्यत एवेति द्रव्यग्रहणस्य पर्यायायिकेनैव सम्भवाद् द्रव्यग्रहार्थ द्रव्याथिकनयाश्रयणमकिञ्चित्कर प्रसज्यत इत्याह- अत्यन्तभेदेऽसीति- द्रव्य पर्याय योरत्यन्तभेदेऽपीत्यर्थः / अन्तर्गत्वप्रसके निरर्थकत्वप्रसङ्गात् / " एकस्मिन् द्रव्यप" इत्यस्य स्थाने "एतत्पक्षे” इति पाठो भवितुमर्हति, द्रव्यार्थिकनयो द्रव्यपर्याययोरत्यन्ता. 'भेदमभ्युपैति, पर्यायार्थिकन यश्च तयोरत्यन्तभेदमित्येवमभ्युपगन्तृमते इत्यर्थः / यदा च पर्यायार्थिकनयो द्रव्य पर्याययोरत्यन्त. भेदमप्युपैति तदेकं द्रव्यमात्मस्वरूपमभ्युपगच्छत्येव, अन्यथा द्रव्याभावे तेन सह पर्यायस्य भेदाभ्युपगमस्तस्य वा पर्यायेण