________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 249 पादिरूपव्यवहारमात्रादेवेति श्रुते- ओघनियुक्त्याख्ये श्रुतम् , तथा च तत्पाठः"णिच्छयमवलंबंता णिच्छयओ णिच्छयं अयाणता। णासंति चरणकरणं बाहिरकरणालसा के इ॥७६२॥" उत्तराध्ययनेऽप्युक्तम्'भणिता अकरिता य बंधमुक्खपइन्निणो। वायाविरियमित्तेणं समाससिति अप्पयं // 169 // " किञ्च, विषय-स्वरूपा-ऽनुबन्धैर्धर्मस्येव निश्चयस्यापि त्रैविध्यमन्वेषणीयम् , तत्र विषयनिश्चयो निश्चयबुझ्या ब्रह्मैकान्तादिश्रवणम् , अनादिस्वरूपनिश्चयो जैनशास्त्रस्थ निश्चयनयप्रन्थपरिशीलनम्, अनुबन्ध. निश्चयश्च प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगपवित्रोत्तरतद्भाववृद्धिहेतुर्व्यवहारक्रियाप्रवृत्तिरिति, सामर्थे क्रियालसस्य निश्चयाभिमानो विशिष्टफलानावहत्वेन न ज्यायान् / न वा तदनुकूलकुवासनाधायकं दिगम्बरदर्शनमपीति किमतिविस्तरेण // 82 // उक्त दृष्टान्तप्रदर्शनपूर्व नयानां शुद्ध्यशुद्धी / अथ निक्षेपनययोजनां प्रदर्शयन्नाह इष्टः शब्दनयैर्भावो, निक्षेपा निखिलाः परैः / - मतं मङ्गलवादेऽन्यद्, भिदां द्रव्यार्थिके त्रये // 83 // नयामृत-इष्ट इत्यादौ / शक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं निक्षेपः, मिलापादीति- मात्रादेवेत्यनन्तरं निश्चयं जानन्तीत्यस्यानुकर्षः। इति एवम् / श्रुते इत्यस्य विवरणम्- ओघनियुत्याख्ये इति- ओघनियुक्तिनामके श्रुते इत्यर्थः। श्रुतं पठितम् / तत्पाठ: ओघनियुक्तिपाठः। णिच्छय० इति" निश्चयमवलम्बमाना निश्चयतो निश्चयमजानन्तः। नाशयन्ति चरणकरणं बाह्य करणालसाः केऽपि // " इति संस्कृतम् / उत्तराध्ययनपाठमुपदर्शयति-भणिता० इति- “भणन्तोऽकुर्वन्तश्च बन्धमोक्षप्रतिज्ञावन्तः / वाग्वीर्यमात्रेण समाश्वसन्ति आत्मानम् // " इति संस्कृतम् / विषयेति- अयं धर्मस्य विषयः, इदं धर्मस्य स्वरूपम् , अयं धर्मस्यानुबन्धः, धर्मे आचरिते इदं फलं निष्पद्यत इति यावत् , इत्थं विषयस्वरूगऽनुबन्धैर्धर्मस्य यथा त्रैविध्यं तथाऽयं निश्चयस्य विषयः, इदं च निश्चयस्य स्वरूपम् , अयं च निश्चयस्यानुबन्ध इत्येवं निश्चयस्यापि, त्रैविध्यं यथा ज्ञायेत तथा प्रयत्नो विधेय इत्यर्थः, तत्र निश्चयस्यं विषय-ऽस्वरूपा-ऽनुबन्धेषु मध्ये निश्चयबुद्धया निश्चयनयावलम्बिबुद्धया / ब्रह्मैकान्तादिश्रवणमित्यत्र छेदोऽशुद्धः, किन्तु 'ब्रह्मैकान्तादिश्रवणमनादि' इत्यत्र छेदः शुद्धः, यदपौरुषेयत्वादनादि ब्रह्मैकान्तादिश्रवणमद्वैतवाद्यागमः 'स विषयनिश्चय इत्यर्थः / जैनेति- जैनशास्त्रे स्थितो यो निश्चयनयग्रन्थस्तस्य परिशीलनमभ्यसनं स्वरूपनिश्चयः, अथवा जैनशास्त्रेऽनेकान्तवादे स्थितास्तत्रैव स्वश्रद्धां प्रगुणीकुर्वन्तो ये सूरयस्तेषां ये निश्चयनयग्रन्था निश्चयनयविषयप्रतिपादकत्वानिश्चयनयात्मकज्ञानजनकत्वाद् वा निश्चयनयस्वरूपा ग्रन्थास्तेषां परिशीलनं स्वरूपनिश्चय इत्यर्थः / प्रणिधीति- प्रणिधि. प्रवृत्तिविघ्नजयसिद्धिविनियोगतः पवित्रस्योत्तरतद्भावस्य वृद्धिहेतुर्या व्यवहारक्रियायां प्रवृत्तिः सा अनुबन्धनिश्चय इत्यर्थः / सामर्थ्य व्यवहारक्रियायां सामर्थे सति / क्रियालसस्य व्यवहारक्रियायामालस्यवतः, यो व्यवहारक्रियां कर्तुं समर्थोs. प्यालस्याद् व्यवहारक्रियां न करोति तस्येति यावत् / निश्चयाभिमानो निश्चयनयाभिमानो। न ज्यायान् श्रेष्ठतमः / तत्र हेतुः-विशिष्टफलानावहत्वेनेति - मुक्तिफलाजनकत्वेनेत्यर्थः / नवेति- निश्चयाभिमानानुकूलवासनाधायकं दिगम्बरदर्शनमपि नैव ज्याय इत्यर्थः // 82 // . यशीतितमपद्यमवतारयति- उक्के इति / अथ नयशुद्धयशुद्धधपदर्शनानन्तरम् / विवृणोति-इष्ट इत्यादिनेति / "इष्ट इत्यादी" इत्यस्य स्थाने " इष्ट इत्यादिना" इति पाठो युक्तः / किंलक्षणको निक्षेप इत्यपेक्षायामाह-शक्यतेति'घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरित्येवं यद् वचनं तत् नामघटत्वादिलक्षणशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रदर्शकमिति भवति निक्षेप इति लक्षणसङ्गतिः / ननु घटशब्दस्य नामघटे शक्तिरिति